एनी बेसन्ट्
Annie Besant एनी बेसन्ट् | |
---|---|
भारते होम् रूल्-आन्दोलनस्य जननी | |
जन्म |
Annie Wood १/१०/१८४७ लण्डन-महानगरं, यु. के. |
मृत्युः |
२०/९/१९३३ (८५ वयसि) अडयार्, मद्रास |
देशीयता | संयुक्ताधिराज्यम् |
शिक्षणस्य स्थितिः | Birkbeck, University of London |
वृत्तिः | निबंधकार, साहित्यकारः, वक्ता, पत्रकार, संपादक, राजनैतिज्ञः, Feminist, theosophist, suffragist, women's rights activist, civil rights advocate, स्वतंत्रता सेनानी |
कृते प्रसिद्धः |
थियोसफिस्ट्, नारीसशक्तिकरणसेविका, |
भार्या(ः) | फ्रेन्क् बेसन्ट् |
अपत्यानि | आर्थर्, मेबल् |
एनी बेसन्ट् ( ( शृणु) /ˈɛniː bɛsənt/) (आङ्ग्ल: Annie Besant, हिन्दी: एनी बेसन्ट्) होम् रूल्-आन्दोलनस्य प्रणेता आसीत् । भारतसेवायै देशत्यागं कृत्वा उष्णप्रदेशे भारते निवस्य भारताय अदम्ययोगदानं दत्तं तया । सङ्घटनसामर्थ्येन स्वतन्त्रायै प्रयासं करोतु इति परामर्शं सा एव भारतीयनेतृभ्यः अयच्छत् । स्वराज-आन्दोलने अपि तस्याः महत्त्वपूर्णं योगदानम् आसीत् ।
जन्म, जीवनञ्च
[सम्पादयतु]१८४७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य प्रथमे (१/१०/१८४७) दिनाङ्के यू. के. (United kingdom) देशस्य लण्डन-महानगरे अभवत् । तस्याः पिता इङ्गलैण्ड-देशस्य प्रसिद्धः वैद्यः आसीत् । तस्याः माता आयर्लैण्ड-देशीया आसीत् । अतः एनी बेसन्ट् 'आईरिश्' इति प्रसिद्धा आसीत् ।
एनी बेसन्ट् यदा पञ्चवर्षीया आसीत्, तदा तस्याः पिता मृतः । अतः तस्याः परिवारः आर्थिकपराधीनः अभवत् । परन्तु तस्याः मातुः अविरतपरिश्रमेण कालान्तरे परिवारस्य आर्थिकस्थितिः सुदृढा जाता । एनी बेसन्ट् यदा सप्तदशवर्षीया जाता, तदा तस्याः विवाहः 'फ्रेन्क् बेसन्ट्'-नामकेन युवकेन सह अभवत् । परन्तु विचारभेदत्वात् दम्पतौ वारं वारं कलहः भवति स्म । पौनःपुन्यं कलहेन आहता एनी बेसन्ट् आत्महत्यां कर्तुम् उद्यता आसीत् । आत्महत्यायाः विचाराः वारं वारं तस्याः मानसपटले उद्भवन्ति स्म । परन्तु ईश्वरस्य कृपया सा आत्महत्यां नाकरोत् । सा यदा आत्महत्यां कर्तुम् उद्यता भवति स्म, तदा तस्याः मनसि स्थितः ईश्वरः ताम् कथयति स्म, “अयि भोः ! एतत् तु भीरुजनानां कार्यम् । दुःखात् भीता त्वं किमर्थम् आत्महत्यां कर्तुम् इच्छसि ? आत्मसमर्पण-सत्ययोः मार्गेण तव कल्याणं भविष्यति” इति । ततः तया अन्तर्मनसः कथनानुसारं कार्यं प्रारब्धम् ।
एकस्मिन् दिने पति-पुत्रान् त्यक्त्वा सा आत्मकल्याणमार्गं प्रति न्यर्गच्छत् । स्वप्रश्नानाम् उत्तराणि क्रिस्त-धर्मात् तया न प्राप्तानि । अतः तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः चार्ल्स् ब्रेटमा इत्यस्य सम्पर्कः कृतः । चार्ल्स् ब्रेटमा इत्यस्य विचारेण प्रभाविता सा ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः कार्यं प्रारभत । तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यया संस्थाया प्रकाशितस्य ‘नेशनल् रिफोर्म्स्’ इत्याख्यायाः पत्रिकायाः सम्पादनकार्यं कृतम् ।
भारतीयराजनीतौ प्रवेशः
[सम्पादयतु]१८७८ तमे वर्षे एनी बेसन्ट् प्रप्रथमवारं भारतीयराजनीतिविषये स्वविचारान् विश्वसम्मुखम् अवदत् । सा लोर्ड् लिटन् इत्यस्य प्रतिक्रियावादिनीतिविषये एकं लेखम् अलिखत् । तस्मिन् लेखे सा आङ्ग्लसर्वकारस्य नीतेः विरोधम् अकरोत् । तेन भारतीयानां मनसि एनी बेसन्टे इत्येनां प्रति आदरभावः उद्भूतः । समयान्तरे सा 'थियोसोफिकल् सोसायटि' इत्याख्यायाः संस्थायाः कृते अपि कार्यं प्रारभत । अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड इत्यादिदेशानां प्रवासं कृत्वा सा १८९३ तमे वर्षे विश्वधर्मपरिषदि भागम् अवहत् । भारतीयानां प्रवचनेन प्रभाविता सा भारतीयसंस्कृत्याः विषये अधिकं ज्ञातुं भारतम् अगच्छत् । १९०१ तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे (१६/११/१९०१) दिनाङ्के तया भारते स्थायिनिवासस्य निर्णयः स्वीकृतः । वाराणसी-महानगरं तस्याः कार्यक्षेत्रम् आसीत् । सांस्कृतिक-आन्दोलने सक्रिया सा बहूनि महत्त्वपूर्णानि कार्याणि अकरोत् ।
हिन्दुधर्मस्य अङ्गीकारः
[सम्पादयतु]एनी बेसन्ट् हिन्दुपरम्परायाः गहनतया अध्ययम् अकरोत् । सा अविरतपरिश्रमेण हिन्दुधर्मस्य हार्दं ज्ञातुं प्रयासम् अकरोत् । हिन्दुधर्मसम्बद्धं नित्यं नवीनविषयं सा अन्विशति स्म । स्वप्ले काले एव तया हिन्दुधर्मः आत्मसात् कृतः । सा शाकाहारस्यापि सङ्कल्पम् अकरोत् । हिन्दुधर्मं प्रति तस्याः आदरभावः एतावान् दृढः अभवत् यत्, सा हिन्दुधर्मम् अङ्ग्यकरोत् ।
सा मुहुर्मुहुः वदति स्म यत्, “अहं पूर्वजन्मनि हिन्दुः भवेयम् । अतः हिन्दुधर्मं प्रति मम एतावान् प्रेमः” इति । सा हिन्दुधर्मस्य कर्मकाण्डपद्धतिं वैज्ञानिकपद्धतित्वेन पश्यति स्म । सा वारं वारं भारतवासिनं सम्बोद्ध्य वदति स्म यत्, “भारतीयैः राजनीतिं त्यक्त्वा धर्मस्योपरि स्वध्यानं केन्द्रितव्यम्” इति । (अत्र तस्याः भावः धर्माधारितराजनीतिकरणस्य नासीत्, अपि तु धर्ममार्गेण देशसेवायाः भावः आसीत् । धर्माधारितपक्षपातः न भवेत्, अपि तु स्वधर्ममाध्यमेन सर्वधर्माणां सम्मानं भवेत् इति तस्याः भावः आसीत्) । एकस्मिन् भाषणे सा अकथयत्, “पश्चिमिदेशाः भारतात् बहु ज्ञातुं शक्नुवन्ति, भारतेनापि पश्चिमदेशात् बहुकिमपि पठनीयम् अस्ति । अतः परस्परं ज्ञानस्य आदानं प्रदानं च आवश्यकम्” इति ।
तस्याः चिन्तनम् आसीत् यत्, “हिन्दुधर्मस्य सङ्घटनमेव भारतोत्थानस्य मार्गः अस्ति” इति । अतः सा १८९७ तमे वर्षे 'सेन्ट्रल् हिन्दु कोलज्', 'हिन्दु गर्ल्स् स्कूल्' इत्यनयोः शैक्षणिकसंस्थयोः रचनाम् अकरोत् । तस्याः विचारस्य समर्थनं कुर्वद्भिः भारतीयनेताभिः कालान्तरे तत्र बनारस हिन्दु युनिवर्सिटी इत्यस्य विश्वविद्यालयस्य रचना कृता । पण्डित मदनमोहन मालविय तस्याः प्रेरणास्रोतः आसीत् । तस्य मार्गदर्शनेन सा संस्थायाः निर्णयान् स्वीकरोति स्म ।
भारतस्वतन्त्रतायै यागदान्
[सम्पादयतु]भारतस्य हार्दं हिन्दुधर्मम् अङ्गीकृत्य सा भारतस्य पीडाम् अनुभवन्ती आसीत् । सा सामाजिकसुदृढिकरणस्य मार्गेण भारतीयानां हिताय बहु अचिन्तयत् । परन्तु "पराधीनाः भारतीयाः स्वकल्याणार्थं चिन्तयितुम् असमर्थाः सन्ति" इति तया अनुभूतम् । अतः सा भारतस्वतन्त्रतायाः विषये चिन्तनम् आरभत ।
एनी बेसन्ट् यदा आयर्लैण्ड्-देशे निवसति स्म, तदा सा रेडमान्ड् इत्यस्य नेतृत्वे संस्थापितस्य होम् रूल् लीग् इत्यस्य कार्यकर्ता आसीत् । तस्याः संस्थायाः उद्देशः स्पष्टः आसीत् यत्, “साम्राज्यवादिनाम् आङ्ग्लानाम् आधिपत्यात् देशस्य स्वातन्त्र्यं भवेत्” इति । अतः तस्याः संस्थायाः कार्यकर्तारः शान्तिपूर्वकं स्वराजप्राप्त्यै कार्यं कुर्वन्ति स्म । "आयर्लैण्ड-देशे सा संस्था यथा कार्यं कुर्वती अस्ति, तथैव अत्रापि भारतस्वतन्त्रतायै कार्यं भवेत्" इति विचिन्त्य सा होम् रूल् लीग् इत्यस्य स्थापनाञ्चकार ।
होम् रूल् लीग् इत्यनया संस्थया होम् रूल्-आन्दोलनस्य घोषणा कृता । होम् रूल्-आन्दोलनस्य नियमाः सरलाः आसन् । प्रचारकार्यं बहु वेगवन्तम् आसीत् । अतः शीघ्रं हि जनसमर्थनं प्राप्तं होम् रूल्-आन्दोलनेन । धूर्ताः आङ्ग्लाः यथा कथञ्चित् होम् रूल्-आन्दोलनस्य दमनम् इच्छन्ति स्म । परन्तु कोऽपि अवसरः ते न प्राप्नुवन् । बहु प्रतीक्षानन्तरं तैः कारणं प्राप्तं यत्, “सर्वकारविरोधिकार्याणि एनी बेसन्ट् कुर्वती अस्ति” इति । एवं आक्षिप्य तैः एनी बेसन्ट् इत्येषा मुम्बई-महानगरात् बहिष्कृता । आङ्ग्लानां कुनीतेः लाभः एनी बेसन्ट् प्रापत् । तस्याः बहिष्कारेण तां प्रति जनानां समर्थनम् अवर्धत । जनसमर्थनेन होम् रूल्-आन्दोलनस्य स्वल्पेषु दिनेषु आभारते पञ्चशताधिक्यः शाखाः आरब्धाः तया । एवं होम् रूल्-आन्दोलनं भारतीयराजनीतिज्ञानां दृष्टिपथि आगतम् ।
१९१६ तमे वर्षे कोङ्ग्रेस-पक्षस्य अधिवेशनम् आसीत् । तस्मिन् अधिवेशने एनी बेसन्ट्-द्वारा सञ्चालितस्य होम् रूल् आन्दोलनं चर्चायाः विषयः आसीत् । अतः तस्मिन् अधिवेशने एनी बेसन्ट् इत्यस्याः मुख्यभूमिका आसीत् । परन्तु स्वपक्षं स्थापयती एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अन्तःकलहं निराकर्तुं प्रयासम् अकरोत् । अतः सा कोङ्ग्रेस-पक्षे एकता आवश्यकी इति प्रस्तावम् अकरोत् । सर्वैः तस्याः समर्थनं कृतम् । ततः सर्वैः मिलित्वा होम् रूल्-आन्दोलनमाध्यमेन स्वराजप्राप्तेः योजना कृता । कालान्तरे बहूनि अधिवेशनानि अभवन् आभारते । एनी बेसन्ट् आभारतं भ्रमन्ती सभाः सम्बोधयति स्म । भारतस्य एकता, होम् रूल् आन्दोलनम् इति अंशद्वयं तस्याः भाषणे भवन्ति स्म । सा समाचारपत्रेषु 'न्यू इण्डिया'-'कोमन् विल्'-विभागे स्वविचारान् लिखति स्म । तस्याः विचारैः माहाराष्ट्रराज्यस्य महान् नेता लोकमान्य टिळक बहु प्रभावितः आसीत् । अतः तेन महाराष्ट्रराज्ये होम् रूल्-आन्दोलनस्य नेतृत्वं ऊढम् ।
जनसामान्यानां, नेतॄणां समर्थनं प्राप्तवत्याः एनी बेसन्ट् इत्यस्याः कार्यैः आङ्ग्लसर्वकारः बहु कुपितः आसीत् । अतः तैः एनी बेसन्ट् इत्यस्याः गृहमेव तस्यै कारवासवत् कृतम् । तस्याः सर्वाणि कार्याणि आङ्ग्लाधिकरिणाम् अनुमतिपश्चादेव भवन्ति स्म । तस्याः लेखनकार्यमपि स्थगितम् आङ्ग्लैः ।
एनी बेसन्ट् इत्यस्याः गृहकारावासेन जनेषु बहु आक्रोशः आसीत् । आभारते विभिन्नेषु स्थानेषु सर्वे राजकीयपक्षाः आङ्ग्लसर्वकारस्य विरोधं कुर्वन्ति स्म । ततः त्रस्ताः आङ्ग्लाधिकारिणः एनी बेसन्ट् इत्येनाम् अमुञ्चन् । आङ्ग्लानाम् एषः दमनप्रयासः अपि एनी बेसन्ट् कृते बहु लाभकरः अभवत् । होम् रूल्-आन्दोलनस्य लोकप्रियतायाः कारणेन १९१७ तमे वर्षे कोलकाता-महानगरे जातस्य कोङ्ग्रेस-पक्षस्य राष्ट्रिय-अधिवेशने कोङ्ग्रेस-पक्षाध्यक्षत्वेन एनी बेसन्ट् चिता । एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अध्यक्षा आसीत् । तस्याः भयेन आङ्ग्लाधिकारी मोन्टेग्यु घोषणाम् अकरोत् यत् “ब्रिटिश्-सर्वकारः शनैः शनैः भारतीयानां हस्ते भारतीयसत्तायाः हस्तान्तरणं करिष्यति” इति । एषा घोषणा 'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' इति प्रसिद्धा अस्ति । एतस्याः घोषणायाः पश्चादेव कोङ्ग्रेस-पक्षस्य नेताभिः, होम् रूल्-आन्दोलनस्य कार्यकर्तृभिश्च राजकीयपदानि स्वीकृतानि ।
'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' पश्चात् होम् रूल्-आन्दोलनं समाप्तम् अभवत् । परन्तु तत् आन्दोलनं भारतीयजनान् स्वतन्त्रतायाः नवस्वप्नं प्रादर्शयत् । तत् आन्दोलनं भारतस्वतन्त्रतायाः प्रप्रथमान्दोलनत्वेन प्रसिद्धम् अस्ति । अनेन आन्दोलनेन प्रभावितः महात्मा असहयोग-आन्दोलनस्य आरम्भम् अकरोत् । अतः असहयोग-आन्दोलनस्य जनकः होम् रूल्-आन्दोलनम् आसीत् इति कथनं न अतिशयोक्तिः ।
'नेशनल् कन्वेन्शन्'-आन्दोलनम्
[सम्पादयतु]होम् रूल्-आन्दोलनस्य सफलतानन्तरं एनी बेसन्ट् आङ्ग्लानां विनाशम् एव इच्छिति स्म । अतः तया अन्यस्य आन्दोलनस्य प्रारम्भः कृतः । तत् आन्दोलनं 'नेशनल् कन्वेन्शन्'-आन्दोलनम् इति प्रसिद्धम् । तस्य आन्दोलनस्य प्रभावेनैव भारतीयसंसदि ‘कोमन्वेल्थ् ऑफ् इण्डिया’-विधेयकः सिद्धः अभवत् ।
अन्तिमदिनेषु एनी बेसन्ट्
[सम्पादयतु]१९२१ तमात् वर्षात् अनन्तरम् एनी बसन्ट् सामाजिकप्रवृत्तिम् आरभत । नारीसशक्तीकरण-आदिवासिसेवा-स्त्रीशिक्षा इत्यादीनि कार्याणि तया कृतानि । सा स्वभाषणेषु कथयति स्म, “भारतीयसमाजस्य, भारतस्य प्रगतिः, स्वतन्त्रता च नारीशक्तेः उपरि आधारिता अस्ति । नारीशक्तिं विना सर्वम् असम्भवम् एवास्ति” इति । स्त्री-पुरुषयोः समानाधिकाराय अपि सा जनजागृतिसभाः अकरोत् ।
एनी बेसन्ट् इत्यस्याः वक्तृत्वशक्तिः, समर्पणम् अद्यापि भारतीयेभ्यः सम्मानस्य केन्द्रमस्ति । सा लेखिका, समाजसेविका, राजनीतिज्ञा च आसीत् । सा स्वानुभवस्य आधारेण त्रिशतं पुस्तकानि अलिखत् । भारतात् सहस्राधिकानि योजनानि दूरे जन्मधृता सा एनी बसन्ट्, स्वस्याः जीवनस्य अन्तिमश्वासपर्यन्तं भारतस्य सेवाम् अकरोत् । सा भारतमातरं जन्मभूमिवत् प्रीणाति स्म । अतः तया अन्तिमश्वासः अपि भारतमातुः कुक्षौ त्यक्तः ।
कृतयः
[सम्पादयतु]१. डेथ् ऐण्ड् आफ्टर् (थियोसॉफिकल् मेन्युअल् III) - १८९३
२. आत्मकथा - १८९३
३. इन् द आउटर् कोर्ट् - १८९५
४. कर्म (थियोसॉफिकल् मेन्युअल् IV) - १८९५ - कर्मव्यवस्थायाः सुन्दररीत्या उपस्थापनम् ।
५. द सेल्फ् ऐण्ड् इट्स् शीत्स् - १८९५
६. मेन् ऐण्ड् हिज् बॉडीज़् (थियोसॉफिकल् मेन्युअल् VII) - १८९६
७. द पाथ् ऑफ् डिसाइपल्शिप् - १८९६ - मुमुक्षोः मार्गः ।
८. द ऐन्शियण्ट् विज़्डम् - १८९७
९. फोर् ग्रेट् रिलिजन्स् - १८९७ - धर्माधारितं प्रसिद्धं पुस्तकम् - कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - हिन्दूइज़म्, ज़रौअस्ट्रियनिज़म्, बुद्धिज़म्, क्रिश्चियानिटि ।
१०. एवल्यूशन् ऑफ् लाइफ् एण्ड् फॉर्म् - १८९९
११. सम् प्रॉब्लम्स् ऑफ् लाइफ् - १९००
१२. थॉट् पवर् : इट्स् कण्ट्रोल् ऐण्ड् कल्चर् - १९०१
१३. रिलिजस् प्रॉब्लम् इन् इण्डिया - १९०२ - प्रसिद्धा साहित्यिककृतिः । कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - इज़्लाम्, जैनिज़म्, सिक्खिज़म्, थियसफि ।
१४. द पेडिग्री ऑफ् मेन् - १९०४
१५. ए स्टडि इन् कॉन्शस्नेस् - १९०४
१६. ए स्टडी इन् कर्म - १९१२ - कर्मसिद्धान्तविषये
१७. वेक् अप्, इण्डिया : ए प्ली फॉर् सोशल् रिफॉर्म् - १९१३
१८. इण्डिया ऐण्ड् ए एम्पायर् - १९१४
१९. फॉर् इण्डियाज़् अप्लिफ्ट् - १९१४
२०. द कॉमन वील् - १९१४ तमस्य वर्षस्य जुलाई-मासात् प्रारब्धं साप्ताहिकम् ।
२१. न्यू इण्डिया - १९१५ - तदानीन्तनस्य मद्रास(चेन्नई)-प्रसिडेन्सि इत्यस्य दैनिकसमाचारपत्रम् ।
२२. हाऊ इण्डिया फॉट् फॉर् फ्रीडम्
२३. इण्डिया : ए नेशन् - १९१५ - एतत् पुस्तकम् आङ्ग्लैः बलेन स्वाधिकारान्तर्गतं कृतम् आसीत् । ततः गृहकारावसस्य योजना आङ्ग्लैः कृता आसीत् ।
२४. काङ्ग्रेस् स्पीचस् - १९१७
२५. द बर्त् ऑफ् न्यू इण्डिया
२६. लेटर्स् टु ए यङ्ग् इण्डियन् प्रिन्स्
२७. द फ्यूचर् ऑफ् इण्डियन् पॉलिटिक्स्
२८. ब्रह्मविद्या - १९२३
२९. इण्डियन् आर्ट् - १९२५ - भारतीयसंस्कृतेः गहनतया विवरणं दत्तमस्ति एतस्मिन् पुस्तके ।
३०. इण्डिया : बौण्ड् ऑर् फ्री ? - १९२६ - भारतीयेभ्यः एतत् पुस्तकम् अति आवश्यकम् अस्ति । (एकवारं तु एतत् पुस्तकं पठनीयमेव ।) एतस्मिन् भारतस्य भूत-भविष्य-वर्तमान-कालः निहितः अस्ति ।
एनी बेसन्ट्-द्वारा लिखितानि पुस्तकानि ५०५ भवेयुः । 'हाऊ इण्डिया फॉट् फॉर् फ्रीडम्' (१९१५) पुस्तके "भारतमाता मम मातृभूमिः" इति उल्लिखत् सा ।
मृत्युः
[सम्पादयतु]१९३३ तमस्य वर्षस्य 'सितम्बर'-मासस्य विंशतितमे (२०/९/१९३३) दिनाङ्के पञ्चाशीतिवयसि ८५ आङ्ग्लकालीने मद्रास-प्रसिडेन्सि मध्ये तस्याः निधनम् अभवत् ।
तस्यै श्रद्धाञ्जलीं यच्छन् महात्मा अलिखत्, “भारतवर्षस्य अस्तित्वं यावत् भविष्यति, तावत् एनी बेसन्ट् इत्यस्याः सेवाः भविष्यन्ति । सा भारतमातरं स्वमातृभूमिवत् अङ्ग्यकरोत् । अतः स्वपार्श्वे यत् दानयोग्यम् आसीत्, तत् सर्वं तया भारतमातुः सेवायै समर्पितम्” इति ।
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धाः
[सम्पादयतु]http://viewsaboutmuhammad.blogspot.com/2012/10/annie-besant.html
http://hindi.webdunia.com/religion/religion/pravachan/0812/24/1081224019_1.htm