क्रिकेट्-शब्दावली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते । यथा -

(१) क्रीडानिर्णायकस्य इदं कर्तव्यं भवति यत् स समयात् प्राक् क्रीडाङ्गणमुपेत्य स्थलीं निरीक्षेत्, दलनेतृभ्यां साहचर्यं सम्प्राप्य क्रीडायाः सर्वान् नियमान् निश्चिनुयात् । पक्षपातं विना क्रीडाविधिं चालयेत् । क्रीडानिर्णायको धावनानां सूचनाय (१) दक्षहस्तमुत्थाप्य करतलं प्रसार्य च ‘बाई’ सङ्केतं करोति तेन ४ धावनानि सूच्यन्ते (२) दक्षपादमुत्थाप्य जानुनि दक्षहस्तं निधाय च ‘लैग बाई’ घोषणां करोति तथा दक्षहस्तं स्कन्धं यावदुत्याप्य एकाम् अङ्गुलीं दर्शयति तदा ‘नो बाल्’ घोषणा सूच्यते । इमानि धावनानि गणनापुस्तिकायां पृथक्-पृथग् लिख्यन्ते । ईदृशं प्रत्येकं धावनस्य कारणमपि भिन्नं भिन्नं भवति ।
स्कोर् बोर्ड्
(२) धावनसंख्यालेखकः ‘स्कोरर्’, धावनसंख्या च ‘स्कोर्’ इति कथ्यते । लेखको निर्णायकस्य निर्देशान् पालयति लिखति च । यत्र गणना लिख्यते सा गणनापुस्तिका (स्कोर् बुक) गद्यते ।
(३) क्रीडायां कन्दुकलोपे सति क्षेत्ररक्षकः कन्दुकलोपं ‘लास्ट् बाल्’ घोषयति । खण्डिते त्रुटिते स्फाटिते च सति कन्दुके तस्य परिवर्तनं शक्यते । यष्टित्रयरक्षकस्य कन्दुकक्षेपकस्य हस्ते कन्दुकप्राप्त्याः सीमारेखातो बहिर्गत्या निर्णायकस्य वस्त्रेऽवरोधाच्च स कन्दुको ‘डैड् बाल्’ विनष्टः कन्दुक इति घोष्यते । कन्दुक-प्रक्षेपणस्य नियमानाम् उल्लङ्घने सति ‘नो बाल्’ अप्रयुक्तः कन्दुक इति सूच्यते । कन्दुकस्योच्चावच-प्रक्षेपणेन ‘वाइड् बाल्’ घोषणा क्रियते । कन्दुकताडकस्य काष्ठपट्टिकयाऽथवा शारीरकेण केनापि भागेन स्पर्शं प्राप्य यदि काष्ठखण्डस्य पतनं भवति तदा ‘विकेट् डाउन्’ घोषणा भवति । कान्दुकिकेन क्षिप्तः कन्दुकः ताडकेन ताडितः सन् भूमिस्पर्शं विना निगृह्यते तदा ‘केच्’ भवति तथा ताडकं ‘केच् आउट्’ इति कथयन्ति । यदा कश्चन क्रीडको यष्टित्रये कन्दुकस्पर्शात् पूर्वं स्वकीय निर्धारितरेखास्थले नागच्छेत् तदा स ‘रन् आउट्’ निगद्यते ।

इत्थमियं क्रीडा सम्प्रति समस्तं विश्वं व्याप्य स्थिताऽस्ति । अस्यां प्रावीण्यं प्राप्तानां सङ्ख्यापि अतिदवीयसी विद्यते । विभिन्नस्य क्रीडकस्य विभिन्ने विषये वैशिष्ट्यम् आलोक्यते । यथा-

(१) चतुःशतादधिकधावनकर्तारः
(२) शीघ्रगत्या धावनकर्तारः
(३) ताडने प्रवीणाः
(४) चतुष्क-षट्क-ताडननिपुणाः
(५) एकस्यां प्रतियोगितायां १६ विकेट्-प्रापकाः
(६) अधिकतमविकेट्गृहीतारः
(७) यष्टिरक्षणपण्डिताः
(८) अधिकतमं कन्दुकनिगृहीतारः
(९) अधिकाधिकं दूरे कन्दुकप्रक्षेपकाश्च । प्रावीण्यभाजां क्रीडकानां समादरः सर्वत्र अवलोक्यते । नानाविधैः उपहारैः ते सभाज्यन्ते च । अतो वयमपि तान् अभिनन्द्य वदामः-
परीक्षणार्थं प्रतियोगितादृशा, प्रवर्तमाना विविधा हि शृङ्खलाः ।
मनांसि नित्यं रमयन्ति सर्वतः क्रिकेट्-खेला जगतीतलेऽभवत् ॥
"https://sa.wikipedia.org/w/index.php?title=क्रिकेट्-शब्दावली&oldid=346953" इत्यस्माद् प्रतिप्राप्तम्