दक्षिणसिक्किममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिणसिक्किममण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
दक्षिणसिक्किममण्डलम्

South sikkim district
मण्डलम्
सिक्किमराज्ये दक्षिणसिक्किममण्डलम्
सिक्किमराज्ये दक्षिणसिक्किममण्डलम्
देशः  India
जिल्हा दक्षिणसिक्किममण्डलम्
विस्तारः ७५००० हेक्टर्
जनसङ्ख्या(२०११) १,४६,८५०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website southsikkim.nic.in
भारतदेशे सिक्किमराज्यम्
भूतियाजनाः
समुदृप्त्से

दक्षिणसिक्किममण्डलं (आङ्ग्ल: South Sikkim District) सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाम्ची/नामत्से वा नगरम् ।

भौगोलिकम्[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य विस्तारः ७५००० हेक्टर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पूर्वसिक्किममण्डलं, पश्चिमदिशि पश्चिमसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् १६२.५ से.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र तिस्रः प्रमुखपर्वतावल्यः सन्ति । ताः देवतामुरा, दक्षिणबारामुरा, अथरामुरा च । गुमती, मुहुरी, फेणी च अत्रस्थाः प्रमुखनद्यः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य जनसङ्ख्या(२०११) १,४६,८५० अस्ति । अस्मिन् ७६,६७० पुरुषाः, ७०,१८० महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १९६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१५ अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ८५.५६% जनाः ग्रामेषु निवसन्ति ।

कृषिः[सम्पादयतु]

कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, आलुकम्, इक्षुः, 'ज्युट', क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, पनसफलम्, आम्रम्, इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

  • नाम्ची
  • रवङ्ग्ला

लोकजीवनम्[सम्पादयतु]

कृषिः अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । 'लेप्चा', 'भूतिया', 'नेपाळी' च अत्रस्थाः प्रमुखनिवासिजनजातयः । तेषु 'लेप्चा' जनाः अत्रस्थमूलजनाः आसन् इति कथ्यते । भूतिया-नेपालीजनाः तु स्थलान्तरिताः कथ्यन्ते । जनाः नेपाली, भूतिया, |हिन्दी, लेप्चा, लिम्बू च भाषाः वदन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • नामची
  • तेन्दोङ्ग
  • रवङ्ग्ला
  • मैनाम-पर्वताः
  • बोरोङ्ग
  • फुर्-त्सा-चु उष्णजलकुण्डानि
  • जोरथङ्ग
  • सिकिप्
  • समुद्रुप्त्से
  • सोलोफोक इत्यत्र चार-धाम
  • तेमी चायवाटिका(Tea Plantation)
  • तरे भिर्
  • रोक् गार्डन् - शिला-उद्यानम्
  • कितम पक्षी-अभयारण्यम्

बाह्यानुबन्धाः[सम्पादयतु]