दन्तेवाडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दन्तेवाड़ा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

दन्तेवाडामण्डलम् (Dantewada District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं दन्तेवाडा नगरम् ।

दन्तेवाडामण्डलम्
मण्डलम्
छत्तीसगढराज्ये दन्तेवाडामण्डलम्
छत्तीसगढराज्ये दन्तेवाडामण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ३,४१० km
Population
 (२००१)
 • Total २,४७,०२९
Website http://dantewada.nic.in/

भौगोलिकम्[सम्पादयतु]

दन्तेवाडामण्डलस्य विस्तारः ३४१० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे इन्द्रावति नदी, उत्तरे बस्तर्मण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं दन्तेवाडामण्डलस्य जनसङ्ख्या २४७०२९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१६ अस्ति । अत्र साक्षरता ३३.२१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

  1. दन्तेवाडा
  2. गीडम्
  3. कटेकल्याणम्
  4. कुवाकोण्डा

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=दन्तेवाडामण्डलम्&oldid=481605" इत्यस्माद् प्रतिप्राप्तम्