देवानन्दस्वामी
स्वामिनारायणभक्तः देवानन्दस्वामी | |
---|---|
देवानन्दस्वामी | |
जन्मस्थानम् | बळोलगामः गुजरातराज्यम् |
तत्त्वचिन्तनम् | भक्तिगीतानि |
देवानन्दस्वामी (Devanand Swami) (१८०३-१८५४) गुजरातीभाषायाः प्रख्यातस्य साहित्यकारस्य कवेः दलपतरामस्य काव्यगुरुः, बह्मानन्दस्वामिनः शिष्यः, स्वामिनारायणसम्प्रदायस्य अतुलनीयः कविश्चासीत् । तस्य पद्यरचनाः उपदेशप्रधानाः आसन् । तस्य पद्यानां ध्यानेन श्रवणं कतृ१णां भक्तानां मनसि संसारं प्रति अनासक्तिः जायते । अद्यापि तस्य पद्यानि स्वामिनारायणमन्दिरेषु गीयन्ते । सः सम्प्रदायस्य नियमेषु निबद्धः कविः आसीत् । अतः सः भक्तिप्रधानाः रचनाः विशेषतः कृतवान् । संसारस्य क्षणभङ्गुरतायाः वर्णनं तस्य कृतिषु दृश्यते । तस्य कृतयः ‘देवानन्दकाव्यम्’ नाम्ना सुरेन्द्रनगरगुरुकुलस्य 'शा.श्रीनारायणदासः' स्वामी प्राकाशयत् ।
जन्म, शिक्षणं, प्रभुमेलनं च
[सम्पादयतु]देवानन्दस्वामी सम्भवतः 'मूली'ग्रामे निवसति स्म । बावळा-लीम्बडीग्रामयोः मध्ये राजमार्गे, बगोदरातः ८ कि.मी. दूरे भालप्रदेशे १८०३ तमे वर्षे बळोलग्रामे, शिवभक्तस्य शम्भुदानस्य गृहे तेजस्वी बालकः अवतीर्णः । तस्य नाम आसीत् 'देवीदानः गढवी' । बाल्यकालादेव तस्मै अध्यात्मज्ञानं रोचते स्म । कुटुम्बे भगवतः शम्भोः भक्तेः परम्परा आसीत् । पारम्परिकतया एव भक्तिरचना तस्य हस्तगता अभवत् । सः पितुः समीपे न्यूनम् अध्ययनं करोति स्म । अधिकं कालं तु सः ईश्वरनामस्मरणं कृत्वा यापयति स्म । शम्भुदानः गढवी एकस्मिन् मन्दिरे पूजकः आसीत् । देवीदानोऽपि तेन सह बहुवारं पूजायै गच्छति स्म । तत्र सः शम्भोः ध्याने मग्नो भवति स्म । श्रूयते यत् रामायणकालिनेन अत्रिमुनिना तस्य मन्दिरस्य स्थापना कृता आसीत् । देवीदानः बाल्यात् एव प्रभुदर्शनं काङ्क्षते स्म । एकवारं तु सः ईश्वरदर्शनाय स्वीयं मस्तकम् अर्पयितुम् इच्छाम् अकरोत् । बालकस्य अनेन हठेन आकाशवाणी अभवत् - ‘आत्मधातं मा कुरु वत्स ! प्रभुं निश्चयेन प्राप्स्यसे त्वम् ।’ बालकोऽपि प्रत्यवदत्-’ कुत्र कथञ्च ? आकाशवाणी अभवत् ‘तव ग्राममेव ईश्वरः समागमिष्यति ।’ देवीदानः स्वामिनारायणसम्प्रदायस्य दीक्षां प्राप्य देवान्दः स्वामी इति सन्यासाश्रमानुकूलं नामाभिधानं कृतवान् ।