नवग्रहाः
गृह्णाति - ग्रह(उपादाने) अच् (३-१-१४३) ।
- नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसव रात्रिः - रघु ६-२२
गृह्णाति इति ग्रहः । स्वं परितः विद्यमानम् अयस्कान्त-कान्तिक्षेत्राणां प्रभावं गृह्णन्तः स्वस्य प्रभावं संयोज्य परावर्तनस्य आनयनतत्त्वं भवति ग्रहाणाम् । सर्वेषां ग्रहाणाम् इदमेव तत्त्वं भवति चेदपि भूमौ स्थित्वा यः परिशीलयति तेन तु भूग्रहस्य उपरि अन्येषां ग्रहाणां प्रभावः कः इति ज्ञातव्यं भवति । भूमेः उपरि विभिनसमयेषु विभिन्नग्रहाणां प्रभावः कीदृशः इति यदि अवगम्येत तर्हि भूवातावरणस्य स्थितिः ज्ञातुं शक्या । इदं वातावरणं सामूहिकप्रभावं यदि दर्शयेत् तर्हि तस्य तीव्रता अधिका इति ज्ञातुं शक्यते ।
सौरकुटुम्बव्यवस्था
[सम्पादयतु]सूर्यः, सूर्यं परितः भ्रमन्तः ग्रहाः, उपग्रहाः, धूमकेतवः.... इत्यादयः सौरकुटुम्बव्यवस्थायाः भागाः । विश्वस्य अयं कञ्चन लघुः भागमात्रम् । अस्माकं वासस्थानम् इयं भूमिः सौरकुटुम्बस्था एव । सूर्यनामकस्य नक्षत्रस्य परितः विविधासु कक्षासु एते ग्रहाः परिभ्रमन्ति इत्यतः अस्य सौरकुटुम्बव्यवस्था इति निर्दिश्यते । अस्याः व्यवस्थायाः प्रकाशदाता अस्ति सूर्यः । सूर्यं परितः भ्रमन्तः सर्वे ग्रहाः अपि कान्तिहीनाः एव । सर्वेषाम् उपग्रहाणां लघुग्रहाणां धूमकेतूनां कान्तिविषयकः आधारः अस्ति सूर्यः एव । केन्द्रे विद्यमानं सूर्यं परितः दीर्घवृत्ताकारकक्षासु ग्रहाः अन्ये खगोलपदार्थाः च सञ्चरन्तः भवन्ति । खगोलशास्त्ररीत्या नव ग्रहाः निर्दिष्टाः सन्ति ।
नवग्रहाः
[सम्पादयतु]रविः, चन्द्रः, कुजः, बुधः, गुरुः, शुक्रः, शनिः, राहुः, केतुश्च नवग्रहाः ।
रवितः भूकक्षायाः मध्यभागे विद्यमानाः ग्रहाः अन्तर्ग्रहाः इति निर्दिश्यन्ते । बुधः शुक्रश्च एषु अन्तर्भवन्ति । भूकक्षायाः अनन्तरं विद्यमानाः बाह्यग्रहाः इति निर्दिश्यन्ते । कुजतः अनन्तरं विद्यमानाः अत्र अन्तर्भवन्ति । खगोलशास्त्ररीत्या एते नव ग्रहाः इति निर्दिश्यन्ते - बुधः, शुक्रः, भूमिः, कुजः, गुरुः, शनिः, इन्द्रः (युरेनस्), वरुणः (नेप्चून्), यमः (प्लूटो) ।
क्रूर-सौम्यग्रहाः
[सम्पादयतु]रविः, कुजः, शनिः, राहुः, केतुश्च क्रूरग्रहाः
चन्द्रः, बुधः, गुरुः, शुक्रश्च सौम्यग्रहाः
पुरुष-स्त्री-नपुंसकग्रहाः
[सम्पादयतु]रविः, कुजः, गुरुश्च पुरुषग्रहाः
चन्द्रः, शुक्रः, राहुश्च स्त्रीग्रहाः
बुधः, शनिः, केतुश्च नपुंसकग्रहाः
ग्रहगतयः
[सम्पादयतु]ग्रहणां चलनम् अनुसृत्य केचन विशेषांशाः सूच्यन्ते । बिम्बग्रहयोः रविचन्द्रयोः वक्रगतिः विद्यते । छायाग्रहयोः राहुकेत्वोः ऋजुगतिः न विद्यते । ताराग्रहाणां कुज-गुरु-शुक्र-शनिग्रहाणां वक्र-अतिचार-स्तम्भनगतयः भवन्ति । एते वस्तुतः वक्रमार्गेण न सञ्चरन्ति । भूमिः अपि सञ्चरति इत्यतः भूमौ स्थित्वा यः परिशीलयति तस्य दृष्ट्या विभिन्नाः ग्रहाः विभिन्नगतियुक्ताः इव दृश्यन्ते ।
ग्रहाणाम् दश अवस्थाः
[सम्पादयतु]स्वस्थावस्था
[सम्पादयतु]स्वक्षेत्रे विद्यमानः ग्रहः स्वस्थावस्थां विन्दति ।
दीप्तावस्था
[सम्पादयतु]उच्चक्षेत्रे विद्यमानः ग्रहः दीप्तावस्थां विन्दति ।
मुदितावस्था
[सम्पादयतु]मित्रक्षेत्रे विद्यमानस्य ग्रहस्य अवस्था ।
शान्तावस्था
[सम्पादयतु]समक्षेत्रे विद्यमानस्य ग्रहस्य अवस्था ।
शक्तावस्था
[सम्पादयतु]वक्रग्रहस्य अवस्था ।
पीडावस्था
[सम्पादयतु]राशौ ९ पादे विद्यमानस्य ग्रहस्य अवस्था ।
दीनावस्था
[सम्पादयतु]शत्रुक्षेत्रे ग्रहस्य अवस्था ।
विकलावस्था
[सम्पादयतु]अस्तङ्गतस्य ग्रहस्य अवस्था ।
खलावस्था
[सम्पादयतु]नीचस्थाने विद्यमानस्य ग्रहस्य अवस्था ।
भीतावस्था
[सम्पादयतु]अतिचारस्थाने विद्यमानस्य ग्रहस्य अवस्था ।
स्वस्थ-दीप्त-मुदित-शान्तावस्थासु विद्यमानाः ग्रहाः शुभफलानि यच्छन्ति ।
शक्तावस्थायां शुभग्रहाः वक्राः भवन्ति चेत् शुभफलम्, अशुभग्रहाः वक्राः भवन्ति चेत् पीडादीनि अशुभफलानि यच्छन्ति ।
पीड-दीन-विकल-खल-भीतावस्थासु विद्यमानाः ग्रहाः अशुभफलानि यथा न यच्छेयुः, घटनाः पूर्णाः यथा स्युः तथा कुर्वन्ति ।