पलाशवृक्षः
पलाशः | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Butea monosperma (Lam.) Taub. | ||||||||||||||||
पर्यायपदानि | ||||||||||||||||
Butea frondosa Roxb. ex Willd. | ||||||||||||||||
अयं पलाशवृक्षः भारतस्य कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । अयं पलाशवृक्षः १२ – १५ मीटर् यावत् उन्नतः भवति । अस्य त्वक् धूसरवर्णीयं, रूक्षं चापि । अस्य पर्णानि रक्तवर्णीयानि, १५ से.मीयावत् दीर्घाणि च भवन्ति । अस्य फलानाम् अन्तः एकं बीजं भवति । अस्मिन् बाल्सिनिन्, किनोट्योनिक् आसिड् इत्यादयः अंशाः भवन्ति । अस्य वृक्षस्य त्वक्, पुष्पं, फलं, पर्णं, मूलं चापि औषधत्वेन उपयुज्यन्ते ।
इतरभाषासु अस्य पलाशवृक्षस्य नामानि
[सम्पादयतु]अयं पलाशवृक्षः आङ्ग्लभाषया Butea Monosperma, flame of the forest, parrot tree इति उच्यते । हिन्दीभाषया “पलाश्” इति, तेलुगुभाषया “पलाडुलु” इति, तमिळ्भाषया “मुरुक्कन् मारम्” इति, मलयाळभाषया “पैलाचम्” इति, कन्नडभाषया "मुत्तुग", “मुत्तुगद मर” इति च उच्यते ।
अपिच हिन्दीभाषायां अस्य पुष्पस्य नाम "किंशुक्","किंशुकपुष्प्" इत्युच्यते ।
आयुर्वेदस्य अनुसारम् अस्य पलाशवृक्षस्य प्रयोजनानि
[सम्पादयतु]अस्य पलाशवृक्षस्य त्वक् लघु रूक्षं चापि । त्वचः रसः कटुः, तिक्तः च, विपाके मधुरः भवति । त्वक् उष्णवीर्ययुक्तम् । अस्य पुष्पस्य रसः तिक्तः, विपाके मधुरः भवति । पुष्पं स्निग्धगुणयुक्तं, शीतवीर्ययुक्तं चापि ।
- १. अस्य पलाशवृक्षस्य पुष्पाणि दाहं (पिपासां), चर्मरोगं, नेत्ररोगं चापि निवारयन्ति ।
- २. अस्य बीजानि उदरे कीटबाधायाम्, अतिसारे च उपयुज्यन्ते । अस्मिन् विद्यमानः “बास्लिनिन्” नामकः अंशः क्रिमिनाशकत्वेन कार्यं करोति ।
- ३. अस्य त्वक्, निर्यासः च मधुमेहं, रक्तपित्तं, मूलव्याधिं चापि परिहरतः ।
- ४. स्त्रीणां मासिकसमस्यासु, गर्भकोशस्य विकारेषु च अयं हितकरः ।
- ५. अस्य वृक्षस्य पञ्च अपि अङ्गानि औषधत्वेन उपयुज्यन्ते । अस्य पुष्पाणां चूर्णं ३ -६ ग्रां यावत् सेवनीयम् ।
- ६. अनेन निर्मितानि “पलाशक्षरघृतं”, “पलाशबीजादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।