पादकन्दुकक्रीडा
पादकन्दुकक्रीडा(Football) कन्दुकक्रीडायाम् एका प्रसिद्धा क्रीडा ।
पादकन्दुकक्रीडा/Football | |
---|---|
नियामकगणः | FIFA |
उपनाम(नि) | Football, soccer, footy/footie, the beautiful game |
प्रथमक्रीडा | 19 December 1863 |
वैशिष्ट्यसमूहः | |
सम्पर्कः | Yes |
गणसदस्याः | 11 per side |
उभयलिङ्गम् | Yes, separate competitions |
वर्गीकरणम् | Team sport, ball sport |
उपकरणम् | Football (or soccer ball) |
स्थलम् | Football pitch (also known as "football ground", "soccer field", "soccer pitch", or simply "pitch") |
उपस्थितिः | |
ओलिम्पिक् | Yes, since the 1900 Olympics |
विशेषोलिम्पिक् | Yes, 5-a-side since 2004 and 7-a-side since 1984 |
देशः/प्रदेशः | Worldwide |
ऐतिहासिकी पृष्ठभूमिः
[सम्पादयतु]क्रिस्तोः पूर्वं द्विशतं वर्षेभ्यः चीनदेशे द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञः जन्मदिने राजप्रासादस्याग्रे द्वौ विरुद्धदलयोः मध्ये जनानां रञ्जनाय क्रीडन्ति स्म । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषकत्वेन दीयन्ते स्म । तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडायाः स्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं 'सुचु’(TSUCHUE) अथवा 'किक्-बाल' (KICK BALL) इत्यासीत् ।
इतिहासाधारेणेयं क्रीडा ईसातः ५०० वर्षपूर्वं यूनानदेशस्य 'स्पार्टा’ नाम्नि स्थाने सर्वप्रथममभवत् । तत्र हस्तयोः प्रयोगोऽपि प्राचलत् । तदाऽस्य नाम हारपेस्टन (HARPASTON) इत्यभूत् । ततः परमिटलीदेशे क्रीडेयं प्रावर्तत ।
तत्रास्याख्या 'फोलिस्’ (FOLLIS) इत्यवर्तत । दद्देशीयैः केचन नियमा अपि निर्धारिता अथ च यूनानैः सह प्रतिस्पर्धितमपि । ईसातो २८ वर्षपूर्वं रोम सम्राजा स्वसेनायामस्याः क्रीडायाः खेलनं निषिद्धं यतो हि स स्वसैनिकान् युद्धाय सज्जयितुमैच्छत् । इंग्लैण्डस्य रोमदेशेऽधिकारानन्तरं तत्रापि क्रीडनमिदमारभत । पञ्चम्यां शत्यां जापानदेशे 'किमारी’ (KIMARI) नाम्ना क्रीडेयमक्रीडयत । नवमशतकात् सप्तदशशतकं यावद् नानाविधाभिः प्रक्रियाभिर्वर्धमानं क्रीडनमिदं प्रचरद् १८०१ वत्सरे 'किकिंग-गेम' नाम्ना नियमानुसारं हस्तप्रयोगवर्जं दलद्वययुतमिङ्ग्लैण्डस्य ग्रामेषु प्रवृत्तम् । ततः परमद्य यावत् समग्रे संसारे 'पाद-कन्दुक-क्रीडायाः समानः प्रचारो व्यवहारश्च समजायत तथा नियमाः स्थिरत्वेन निरधार्यन्ते ।
क्रीडाङ्गणं क्रीडोपकरणं च
[सम्पादयतु](१) क्रीडाङ्गणास्यायाम-विस्तार-रेखा-विधानानि
[सम्पादयतु]- (क) क्रीडाङ्गणम् -सन् १८८३ वत्सरे पादकन्दुक-क्रीडाया नियमान निश्चिन्वद्भः क्रीडाङ्गणस्यायामः १२०गजमितो विस्तारश्च ८० गजमितः स्वीकृतः । सम्प्रति १०० गजतः १३० गजमानं यावदायतं तथा ५० तः १०० गजमितं विस्तृतं क्रीडाङ्गणं समुचितं मन्वते । इदमायताकृतिकं भवति ।
- (ख) रेखाः -अत्र -रेखाः ३" विस्तृता विधीयन्ते चतुर्षु कोणेषु च ४ फुट्-मानेनोन्नताः पताकिका आरोप्यन्ते । आयता रेखाः स्पर्श-रेखाः (टच-लाइन) विस्तृता रेखाश्च सीम-प्रवेश-रेखाः (गोललाइन) कथ्यन्ते । क्षेत्रस्य मध्ये एका रेखा दीयते सा च द्वयोः समानयोर्भागयोर्विभज्यते । इयं रेखा प्रर्धमार्गरेखा (हाफ वे लाइन) अथवा मध्यरेखा (सेण्टर् लाइन) निगद्यते । मध्यरेखाया मध्ये एवं २० गजमित्व्यासशालि वृत्तं भवति । सीम-प्रवेशरेखायाः सर्वथा मध्ये ८ गजान्तराले द्वौ स्तम्भौ निखन्येते यौ भूमेः ८ फुटमितावुन्नतौ भवतः, तयोरुपर्येका यष्टिर्दीयते । गोल-सीम्नः पृष्ठे जालिकां बधनन्ति यतः कन्दुको दूरे न गच्छेत् । 'गोलपोस्ट' नाम्ना ख्यातयोर्द्वयोरपि स्तम्भयोः ६ गजदूरे काश्चन रेखा आकृष्यन्ते ताः सीम-प्रवेश-स्थल (गोल्-एरिया) नाम्ना व्यपदिशन्ति । स्तम्भयोरुभयतः सीमरेखयोः १८ गज मिते दूरप्रदेशे द्वे रेखे विधाय ते योज्येते । तदनन्तरं स्तम्भयोर्मध्ये १२ गजमितेऽन्तराले चिह्नमेकं कृत्वा १० गजमितार्धव्यासेनैकमर्धवृत्तं विधीयते यत् सीम- प्रवेशरेखातो १८ गजमितान्तराले समाकृष्टयो रेखयोरुभयतो मिलति । अस्यान्तर्वर्तिस्थलं दण्ड-भूमिः (पेनल्टी एरिया) निगद्यते ।
(ख) क्रीडोपकरणम्
[सम्पादयतु]१-पाद-कन्दुकः अयं कन्दुकश्चर्मनिर्मितो भवति । अस्य परिधिः २८ इंचमितो भवति । वर्तुलाकृतिके चर्म-कन्दुके रबर्-निर्मितोऽन्यं कन्दुको (ब्लैडर्) निक्षिप्यते यस्मिन् वायुं पूरयन्ति, पूरिते च वायौ तस्य भारः १४ तः १६ औसपर्यन्तौ भवति ।
क्रीडकाः क्रीडाविधयश्च
[सम्पादयतु]१. क्रीडकास्तेषां नियमाश्च
[सम्पादयतु]- (क) क्रीडकसंख्या -पादकन्दुक्-क्रीडा द्वयोएदलयोर्मध्ये भवति । तत्र प्रतिदलं क्रीडकानां संख्याऽधिकाधिकमेकादश ११ मिता समुचिता मन्यते । एतेषु क्रीड्केष्वेकः सीमरक्षको (गोल-कीपरः० भवति । सामान्यक्रीडावसरे द्वौ प्रतिनिधि-क्रीडकावपि भवतः परं प्रतिस्पर्धारुपिण्यां क्रीडायां सम्बद्ध-संस्थाया अनुमतिरपेक्षिताऽस्ति । दलस्यैको नायको भवति, यः स्वस्य दलस्य व्यवस्थापने समयानुसारं क्रीडकस्य स्थानपरिवर्तने च समर्थो भवति । यदा कदा क्रीडकसंख्या न्यूनाऽपि भवितुमर्हति ।
- (ख) क्रीडकदलयोर्वस्त्रोपवस्त्रे -पृथग् पृथग् वर्णशालिना भवतः ययाराधारेण कस्य दलस्य क्रीडकेन किमाचरितमिति प्रेक्षणे सौविध्यं भवति । ऊर्ध्ववस्त्रं कञ्चुकं (कमीज) तथाऽधोवस्त्रं जानुपर्यन्तं (निकर), पादाच्छादने (जुराबे) उपानहौ च क्रीडकस्य सज्जायै स्वीक्रियन्ते ।
- (ग) उपानद-विषये विशिष्यैष नियमोऽस्ति यत् तयोर्निर्माणे कोमलस्य चर्मणः प्रयोगो भवेत्, कीलिका बहिर्निः सृता न भवेयुः, तलभागे प्राम्बचर्मखण्डाः (बार Barr) अथवा स्टड (Stud) अवरोधक्रीडाक्युताश्चर्मखण्डाः प्रयुज्येरन् । अग्रभागस्तीक्षणो नोचितः । कस्यापि धातोः प्रयोगेण च भवितव्यम् । उपानहोर्व्यासोऽर्ध-इंचमितस्तया पार्ष्णभागस्योच्चता पादोन-इंचतोऽधिका न कर्तव्या ।
- (घ) क्षेत्र-व्यूह-रचनायां
क्रीडकानां विभागोऽप्यत्र विशेषतया क्रियते । यथा-१-सीमरक्षकः, २-दक्षरक्षकः ३, वामरक्षकः, ४-दक्षार्धरक्षकः ५-मध्यार्धरक्षकः, ६- वामार्धरक्षकः, ७- अन्तर्वर्ती पार्श्वरक्षकः, ८-अन्तर्दक्षरक्षकः ९-बाह्यदक्षरक्षकः, १०-बाह्यवामरक्षकस्तथा ११-मध्याग्ररक्षकः । एतेषां स्थानान्यपि निशिचतानि भवन्ति यतःअ क्रीडने सौविध्यं भवति ।
- (ङ) क्रीडकानां नियमाः -१-२-३-२-३ इति नियमेन क्षत्र वतमानाः क्रीडार्थिनः कन्दुकं प्रत्याक्रमणाद्वारयितुं विपक्षसीम्नि प्रवेशयितुं च यतन्ते । तत्र प्रथमः सीमत्राता (गोलकीपरः) येन केनापि प्रकारेण कन्दुकं सीमप्रवेशाद् वारयति । तस्मै सर्वेषां शरीरावयवानां प्रयोग उचितो मन्यते । दण्डक्षेत्रमध्ये स्थितः स हस्ताभ्यां कन्दुकं स्प्र्ष्टुं शक्नोति किञ्च रक्षास्थले प्रविशन्तं प्रवेशयन्तं वा कन्दुकं सीमसम्भयोर्मध्ये स्थित्वा वारयति । एतदर्थं तस्मिन् प्रबुद्धता-दूरदर्शिता -स्फरत्ताशीघ्रकारिता -विरोधि-गति-विज्ञतादिगुणानां स्थितरावश्यकी वर्तते ।
- (च) रक्षक-क्रीडका
आक्रमण- विधाने परस्परं सहयोगकरणे मिथश्च कन्दुकप्रापणे दक्षा भवेयुः । मध्यक्रीडका आक्रामकाणां सहायका भवन्ति । ते गतागतं कुर्वन्तः सावधानतया कन्दुकमाक्रामकेभ्यः प्रापयितुं सर्वथा यतन्ते ।
- (छ) आक्रान्तारः क्रीडका-
योजनापूर्वकं कन्दुकं ताडयन्ति, अन्येषां सहयोगिनां योजनानां क्रियान्वयने सयत्नाश्च भवन्ति ।
(२) क्रीडा-नियमा विधयश्च
[सम्पादयतु]- (क) सर्वप्रथमं द्वे अपि दले क्रीडारम्भस्य निर्णयाय मुद्रोच्छालनं कुरुतः । तदानुसारं यस्य पक्षे निर्णयो भवति तददलं क्रीडामारभते । आरम्भकदलस्यायमधिकारोऽस्ति यत् स स्वेच्छया क्रीडाङ्गणाभागं चिनुयात् परमेवं करणेन प्रथमप्रहाराधिकारो विपक्षस्य हस्ते समायाति । निर्णायकस्य शुषिरिकां (सीटी) श्रुत्वा प्रारम्भकः क्षेत्रस्य सर्वथा मध्ये स्थापितं कन्दुकं पादेन सन्ताडय विपक्षक्षेत्रे प्रक्षेप्स्यति प्रतिक्रीडकस्य कस्यापि यावत् तेन कन्दुकेन स्पर्शो न भवति तावत् पूर्वपक्षीयः पुनस्तं न स्पृशति । प्रतिपक्षि क्रीडकाः १० गजमितेन्तश्च स्थिताः परिधितो बहिर्निः सृतं कन्दुकं क्रीडन्तस्ताडयन्त उच्छालयन्तश्च मिथः सीमक्षेत्रं प्रापयितुं चेष्टन्ते । सीमप्रापण (गोल्)स्य गणनाधिक्येन विजयघोषणं क्रियते ।
- (ख)प्रति सीमप्रवेशानन्तरं क्रीडारम्भस्तयैव भवति परं प्रथमप्रवर्तनाधिकारस्तस्य भवति यस्य सीम्न कन्दुकः प्रविष्टः ।
- (ग) मध्यावकाशानन्तरं प्रथमारम्भकदलादन्यद दलं क्रीडारम्भंअ करोति ।
- (घ) कस्याप्यस्थायिनोऽवरोधात् परं निर्णेता पुनः कन्दुकं तत्रैव स्थापयति यतस्स बहिर्गतो भवति ।
(३) पादताडन-(किक्) पद्धतयः
[सम्पादयतु]कन्दुकं स्वसहयोगिभ्यो दातुं विपक्षसीम्नि प्रवेष्टु च यानि पादताडनानि भवन्ति तानि 'किक्’ नामभिः सम्बोध्यन्ते । तेषां प्रकार-नामानि यथा -
- (क) प्रलम्बताडनम् (टोइ किक) शान्तस्य कन्दुकस्योच्चैरथवा दूरे प्रेषणाय ।
- (ख) बाह्यस्तरताडनम् (आउटस्टेप किक्)-अस्य प्रयोगेणा कन्दुकोऽन्तेऽर्धव्यासरुपेणाग्रे वर्धते ।
- (ग) अधस्तात् ताडनम् (लो किक) -लक्ष्यानुसारमधोगतये शक्तिशालि ताडनम् ।
- (घ) स्वतन्त्र-ताडनम् (फ्री किक) -प्रत्यक्षाप्रत्यक्षरुपाभ्यामिदं ताडनं विभज्यते । प्रत्यक्षताडनेन कन्दुकस्य-सीम-प्रवेशो भवितुं शक्नोति किन्त्वप्रतक्षताडनेन लक्ष्य-दण्डक्षेत्रात् स्वतन्त्रताडनसमये विरोधिनः १० गजमितेऽन्तराले तिष्ठन्ति परं नियमोऽयं क्रीडकानां सीमस्तम्भयोर्मध्यगरेखायां स्थितावेव पाल्यते ।
- (ङ) दण्डरेखातस्ताडनम् (पैनल्टी किक)-दण्डक्षेत्रस्य रेखात इदं भवति । समयेऽस्मिन् ताडकं विरोधिनां सीमरक्षकं विमुच्यान्ये सर्वेऽपि क्रीडका दण्डक्षेत्राद बहिस्तिष्ठन्ति । सीमरक्षस्तं कन्दुकं तावन्न स्पृशति यावदन्यः कोऽप्यन्यः क्रीडको न स्पृशति ।
- (च) सीम -ताडनम्(गोल किक) प्रतिक्रीडकदलस्य ताडितः कन्दुको यथाकथमपि स्थित्या सीमरेखां पारयति तथान्तिमावस्थायां विपक्षक्रीडकेन स्पृष्टो भवति तदा सीमक्षेत्रस्यार्घभागे यस्माद् भागात् कन्दुको बहिर्गच्छति तत एव रक्षक दलस्य क्रीडकः कन्दुकं सन्ताडय क्षेत्रे प्रक्षिपति । विरोधिनो दण्डक्षेत्राद् बहिस्तिष्ठन्ति स्वतन्त्ररुपेण कद्नुकस्य सीमप्रवेशो न विधीयते न च सीमरक्षकः पूर्ववद् विरोदिना अस्पृष्टं कन्दुकं स्पृशति ।
- (छ) कोण -ताडनम् (कार्नर किक) -कन्दुको यदा सीमस्तम्भयोर्मध्यस्थानं त्यक्त्वा येन केनापि रुपेण् सीमरेखां पारयति, अन्तिमस्थितौ च स विपक्षक्रीडकेन स्पृष्टो भवति तदा रक्षकदलस्य क्रीडार्थी ताडनमिदं करोति । एतत्समये कन्दुकं तत्कोणे निर्धारित-मध्यस्थलस्य चतुर्थांशक्षेत्रे संस्थाप्य ताडयति कोणताडनेन कन्दुकः साक्षात् सीम-प्रवेशमर्हति । अन्ये नियमाः पूर्ववदेव स्न्ति ।
केचन विशिष्टा निर्देशाः शब्दाश्च
[सम्पादयतु]पादकन्दुकक्रीडनात् पूर्वं सर्वेरपि क्रीडार्थिभिः क्रीडने प्रयोज्यानामेतेषां विधीनां ज्ञानं प्राप्तव्यम् -
- (१) अधः प्रहरणम् (लो डाइव) कन्दुकस्याधस्तात् पृथ्व्यमेवाग्रे तीव्र गतये प्रहरणम्
- (२) उच्चैरुत्पातनम् (क्लियरेन्स बौली)-कन्दुक उच्चैरुत्यतेदथ च दूरे गच्छेत तादृशं प्रहरणम् ।
- (३)शिरसोच्चैरुत्पातनमुच्चैरेव प्रतिक्षेपणम् (हैडिंग-डिफेन्सिवक्लियरिंग)--उच्चभागादगतं कन्दुकं शिरसा सन्ताड्य् पुनरुच्चैरेव परावर्तनम् ।
- (४)शिरसाऽधः पातनम् (हैगिंग-डाउनवर्ड)-उच्चैर्भागादागतं कन्दुकं शिरसा सन्ताड्य नीचैः पातनम् ।
- (५) कन्दुक-नियन्त्रणम् (बाल-कन्ट्रोल)-(क) कन्दुकं पादत्राणेनावरुद्धय् यथेच्छं प्रेषयितुं ताडनम् । (ख)यदि कन्दुकमूर्ध्वभागादागच्छेत तदा स्वशरीरादवरुद्धय् स्वेच्छानुरुपं प्रेषयितुं ताडनम् ।
- (६) अन्तःअ प्रक्षेपणम् (थ्रो-इन)-यदि विपक्षक्रीडकस्य ताडनानन्तरमथवा तस्मात् सङ्घट्टय कन्दुकः स्पर्श्रेखातो बहिर्गच्छति तदा निर्णायकोऽन्तः प्रक्षेपणावसरं ददाति । तदा कन्दुकं द्वाभ्यामपि हस्ताभ्यां शिरस् उपरि नीत्वा प्रक्षिपन्ति ।
- (७) कन्दुक-नियन्त्रणपूर्वकं पुरो नयनम् ड्रिबलिंग (Dribbling) इति कथ्यते । अस्य् त्रयः प्रकाराः सन्ति -
- (१) स्थिति-परिवर्तन- शिफ्ट पोजीशन (Shift position)
- (२) दिकपरिवर्तनं -जगाल (Jaggle) तथा
- (३) अवयव -चालनं -फैन्ट (Feint) इति । एतैः प्रतिक्रीडकानां वञ्चनपूर्वकं कन्दुकस्याग्रे नयनमुद्दिष्टं भवति ।
- (८)आक्रमणाद् निर्वतनं 'टेकलिंग' (Tackling) कथ्यते । अस्यापि त्रयः प्राकारा विद्यन्ते । यथा (१) पुरोऽवरोधः फ्रन्ट ब्लाक (Front Block), (२) स्कन्धा-क्रमणम् साइड-वे (Side way) तथा (३) कटिवलनावरोधः ब्रैकर ब्लाक(Breaker) इति । इत्यमेव पादेनावरोधप्रक्रियां ट्रेप् (Trap) इति कथयन्ति । इमाः प्रक्रिया नवधा प्रयुज्यन्ते -पादतलेन, पादमध्येन, पादाग्रेण्, पादबाह्यभागेन, जङ्घया, पादभ्यां, वक्षसा, वक्षोभागादधोनयनेन शिरसा च ।सीमरक्षकोऽपि मुष्टया ताडनेन शयनपूर्वकं हस्तद्वारावरोधनेन च वैशिष्ट्यं लभते । एतेषां ज्ञानेन क्रीडकः पादकन्दुकक्रीडायां निपुणो भवति यशश्चार्जयति ।
फुट्बाल्-क्रीडायाः श्लोकः
[सम्पादयतु]- उच्चैः कन्दुकमुत्पतन्तमथवा दूरे व्रजन्तं पुनः
- गत्या तीव्रतयाऽऽगतं पर-दलाक्रान्तं दलक्रीडकाः ।
- यस्यामाशु विपक्षसीम्नि सुधिया हन्त ! प्रवेष्टुं रताः
- पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥
- क्रीडाङ्गणे चरण-कन्दुकमुत्पतन्तं
- क्रीडाकृदाप्य परिखेलति खेलकोऽत्र ।
- धावन पतन्नथ चलत् प्रहरंश्च पदभ्यां
- हर्ष चिरं वितनुते मनुते न दुःखम् ॥
आधारः
[सम्पादयतु]अभिनवक्रीडातरंगिणी