प्रज्ञासूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रज्ञा सूत्र इत्यस्मात् पुनर्निर्दिष्टम्)

प्रज्ञासूत्रम् इदं सुभाष काकेन विरचितम् आधुनिकसूत्रम् अस्ति।

बन्धु-परोक्ष-यज्ञाः विज्ञानस्य त्रिपादाः ।१।

देव-भूत-जीवात्मानोऽन्तरेण बन्धुः ।२।

मनसि प्रतिबिम्बितं ब्रह्माण्डम् ।३।

चिदाकाशस्य तदीयौ सूर्य-चन्द्रौ ।४।

सूर्य-चन्द्राव्-अष्टोत्तर-शत-अंशात्मकौ ।५।

सामान्य-आधारितं-ज्ञानम् ।६।

शब्दः बन्धः ।७।

भाषा अपरा ।८।

विरुद्धानि इव अपि दर्शनानि परस्पर-पूरकानि ।९।

आन्तरिक-स्थितयः परिसंख्या-योग्याः ।१०।

भाषा-लोक-विरुद्ध-आभास-अतीतं विज्ञानम् ।११।

यज्ञात् प्रज्ञा आविर्भवति ।१२।

चित्तम्-आव्रियते वर्णैः ।१३।

पशु-आसुर-राक्षसा आत्मनि निवसन्ति ।१४।

पशुत्वस्य नाशनम् एव मुक्तिः ।१५।

यज्ञो योगः परिणामः परिवर्तनं च ।१६।

शरीर-मनसि असम्भूति-सम्भूती अविद्या-विद्ये पक्षाविव ।१७।

प्रज्ञा ऐश्वर्यं पक्षिणः उड्डयनम् ।१८।

"https://sa.wikipedia.org/w/index.php?title=प्रज्ञासूत्रम्&oldid=341795" इत्यस्माद् प्रतिप्राप्तम्