फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(फलकम्:मुख्यपृष्ठं/ सुभाषितम् इत्यस्मात् पुनर्निर्दिष्टम्)
मार्च् २०२४
गुरुवासरः
२८
०९:५६ UTC
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

जीवने सर्वदा विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः। कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति। किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति। तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति।