बि एम् श्रीकण्ठय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बि. यम्. श्रीकण्ठय्यः इत्यस्मात् पुनर्निर्दिष्टम्)
Belluru Mylaraiyya Srikantaiah
जननम् 3 January 1884
Turuvekere, Tumkur District, Karnataka
मरणम् 5 January 1946
Bangalore, Karnataka
वृत्तिः Poet, writer, professor
राष्ट्रीयता India
प्रकारः Fiction
साहित्यकान्दोलनम् Navodaya


परिचयः[सम्पादयतु]

'कन्नडस्य कण्वः' इत्येव प्रसिद्धः बेल्लूरु मैलारय्य श्रीकण्ठय्यः(Belluru Mylaraiyya Srikantaiah) विच्छिद्रस्य कर्णाटकस्य एकीकरणाय, तस्य अभिवृद्धये च महान्तं परिश्रमम् अकरोत् । अयं १८८४ तमे वर्षे जनवरिमासस्य ३ दिनाङ्के तुमकूरुमण्डलस्य सम्पिगेग्रामे जन्म प्राप्तवान् । अस्य पिता मैलारय्यः, माता भागीरथम्मा च । अयं वृत्त्या अध्यापकः । मैसूरुविश्वविद्यालयः कवेः कार्यक्षेत्रम् ।

साहित्यकृषिः[सम्पादयतु]

कविः नवोदयसाहित्यस्य प्रवर्तकः आसीत् । एतस्य आङ्ग्लगीतेषु सामान्यजनानां भावनाः तथा सुखदुखयोः विविधानि रूपाणि च स्पष्टं वयं द्रष्टुं शक्नुमः । गदायुद्धनाटकं, अश्वथामन्, पारसीकरु, होङ्गनसुगलु, कन्नडिगरिगे ओल्लेय साहित्यगलु (कन्नडजनानां कृते उत्तमसाहित्यानि), एताः कवेः कृतयः । कर्णाटकस्य तथा कन्नडभाषायाः कृते कवेः सेवा अपारा । एषः गुल्बर्गनगरे १९२८ तमे वर्षे प्रचलिते कन्नडसाहित्यसम्मेलने अध्यक्षस्थानम् अलङ्कृतवान् आसीत् । मैसूरुमाहाराजेन १९३८ तमे वर्षे राजसेवासक्ता इति बिरुदं प्राप्तवान् । कविः बि. यम्. श्रीकण्ठय्यः स्वस्य 'काणिके' इत्येतस्मिन् गीते पाश्चात्यगीतानां सौन्दर्यं कन्नडकाव्यकलया सह तोलयन् तस्य वैशिष्ट्यं दर्शितवान् अस्ति । आङ्लगीतानां कन्नडरूपं पठामश्चेत् तस्य कथनस्य सत्यांशः अस्माभिः ज्ञायते ।

तदीयः सन्देशः[सम्पादयतु]

अस्माकं साहित्यभाण्डारं विमर्शात्मकदृष्ट्या परिशील्य तस्मिन् विद्यमानाः उत्तमांशाः रक्षणीयाः अनुत्तमांशाः परित्यक्तव्याः इत्येषः तस्य आशयः आसीत् । तुलनात्मकदृष्ट्या अन्यासां भाषाणाम् अध्ययनं कुर्वन्तु । अस्माकं भाषाणाम् अभिवृद्धिं साधयन्तु इति कविः कन्नडजनानां कृते सन्देशं दत्तवान् अस्ति ।

बाह्यानुबन्धः[सम्पादयतु]

  • [www.poemhunter.com/b-m-srikantaiah/ बि. यम्. श्रीकण्ठय्यः]
"https://sa.wikipedia.org/w/index.php?title=बि_एम्_श्रीकण्ठय्य&oldid=293584" इत्यस्माद् प्रतिप्राप्तम्