भट्टनारायणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भट्ट्नारायणः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

'वेणीसंहार'नामकस्य प्रसिद्धस्य नाटकस्य रचयिता भट्ट्नारायणः (Bhattanaraya) । एषः अष्टमे शतके आसीत् इति पण्डिताः अभिप्रयन्ति । एषः कान्यकुब्जप्रदेशे जातः इत्यत्र तु न कस्यापि विमतिः ।

स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृतसाहित्येऽतितरां प्रख्यातः । किंवदन्ती प्रसिध्दा यद् गौडदेशशासकेन आदिशूरेण ब्राह्मणधर्म्मुत्रेतुं कान्यकुब्जदेशादानीय निवासितेषु ब्राह्मणेष्वयमत्येक इति । आदिशूरः पालवंशोत्थानतः पूर्ववर्त्ती राजेति तस्य समयः सप्तमशताब्द्या उत्तरार्धमास्थातुं युक्तम् । दशमशतकोत्पन्नओ धनिको वेणीसंहारमुध्दरति, आनन्दवर्धनोऽपि ध्वन्यालोके 'कर्त्ता द्यूतच्छलानामित्यादि पद्यमुद्धृतवान्, वामनोऽपि महताऽऽदरेण वेणीसंहारगतं पद्यम्- 'पतितं वेत्स्यसि क्षितौ’ इति समुदधृत्य मीमांसा चक्रे । एतत्सर्वमालोच्यन्तो विद्वांसो भट्टनारायणस्य समयमष्टशतकमध्यभाग निर्णयन्ति ।

धर्मकीर्त्तिकृताया रुपाक्तारस्य नीवीनामिकायाष्टीकाया हस्तलिखितप्रतेरेकस्या अवगम्यते यद् बाणप्रेरणया भट्टानारायणः कस्यचिद् बौध्दभिक्षोः शिष्यो जातः । तदनन्तरं भट्टनारायणो धर्मकीर्तिश्च मिलित्वा रुपावतारमलिखताम् । एतेनापि भट्टनारायणस्य बाणभट्टसमकालिकत्वं प्रतीयते । अस्य कान्यकुब्जाभिजनत्वं प्रति तु न कस्यापि विमतिः ।

परिचायकम्[सम्पादयतु]

पुरा वङ्गदेशे बल्लालसेनो नाम राजा बभूव । तस्मात् द्वाविंशतितमः पुरुष एव आदिसूरः अस्य कवेः आश्रयदाता आसीत् । वीररसप्रधानस्य वेणीसंहारमनामकस्य प्रासिद्धस्य नाटकस्य रचयिता भट्टनारायणः । अयं कान्यकुब्ज(कनौज्)देशीयः काश्यपगोत्रजन्मा ब्राह्मणः । एतस्य जननीजनकयोः विचारे कापि किंवदन्ती न श्रूयते । वेणीसंहारनाटके सूत्रधारस्य तदिदं कवेर्मृगराजलक्ष्मणो ’भट्टनारायणस्य’ कृतिः ’वेणीसंहारम्’... इत्यस्मात् भट्टनारायणस्य ’मृगराजलक्ष्मा’ इति बिरुदम् आसीत् इति ज्ञायते । अपि च अयं वङ्गदेशीयः । तत्रत्यया कथया अवगम्यते यत्- "तत्समये वङ्गदेशे राज्यं कुर्वतः आदिसूरनाम्नः राज्ञः प्रार्थनया स्वदेशात् वङ्गदेशं गत्वा तत्रैव बहुकालम् उषित्वा वङ्गीयब्राह्मणानां मूलपुरुषो बभूव" इति । वेणीसंहारस्य भूमिकयापि अयमेवार्थः प्रतिपाद्यते । एते राजकुलीनाः भागवतसम्प्रदायम् अनुसरन्ति स्म ।

कविकालविचारः[सम्पादयतु]

पाश्चात्यानां प्राच्यानां च पण्डितानाम् अभिप्रायेण भट्टनारायणः क्रि.श.८मे शतमाने अवर्तत । तथा च अष्टमशतकस्य अन्त्यभागे लब्धकीर्तिः वामनः भट्टनारायणकवेः वेणीसंहारात् कांश्चन श्लोकान् उदाहरति । अतः अयं कविः अष्टमशतकस्य पूर्वार्धे आसीदिति निश्चयेन वक्तुं शक्यते ।

वेणीसंहारम्[सम्पादयतु]

इयं भट्टनारायणस्य कृतिः । वीररसप्रधानं नाटकम् । अस्मिन् षट् अङ्काः विद्यन्ते । कथावस्तु तावत् महाभारते सभापर्वणि यदा दुश्शासनः द्रौपदीम् प्रधृष्य राजसभाम् आनयति, तदा तस्याः वेण्याः बन्धः श्लथते । तदैव भीमसेनः वनवासान्ते युद्धे दुश्शासनस्य शोणितेन द्रौपद्याः कचान् आसिच्य, तस्य अन्त्रेणैव द्रौपद्याः वेणीबन्धम् करिष्यामि इति राजसभायां प्रतिज्ञां करोति । ततः स्वप्रतिज्ञानुगुणं भीमः दुर्योधनस्य ऊरुभङ्गम् कृत्वा तद्रक्तैः आर्द्रीकृत्य पाञ्चाल्याः वेणीं स्वहस्ताभ्यां बध्नाति । ततः युधिष्ठिरस्य राज्याभिषेकेण सह नाटकस्य मङ्गलान्त्यम् करोति । आत्मश्लाघाम् अकुर्वाणः, गम्भीरः, क्षमाशीलः, महासत्वः, धीरोदात्तश्च युधिष्ठिरः अस्य कथानायकः । अप्रग्ल्भादिलक्षणवती द्रौपदी एव अस्याः कथायाः नायिका । अपि च भीमः, दुर्योधनः, भानुमती, अश्वत्थामा, कर्णः, धृतराष्ट्रः, गान्धारी, चार्वाकश्च अत्र पात्राणि भवन्ति । हास्यरसम् शान्तरसं च हित्वा अन्ये सर्वे रसाः अत्र अङ्गत्वेन समावेशिताः दृश्यन्ते । द्वितीयेऽङ्के शृङ्गारः, तृतीयेऽङ्के करुणः, बीभत्सः, रौद्रश्च, चतुर्थेऽङ्के भयानकः, षष्ठेऽङ्के अद्भुतश्च रसाः निरूपिताः ।

वेणीसंहारः भट्टनारायणस्य कृतिरत्नम्। नाटकेस्मिन् षडङ्काः भवन्ति। वेणीसंहारः महाभारतस्य कथाम् आधारीकृत्य लिखितः । संहारः = संहरणम् = एकत्रानयनम् । दुर्योधनादीनां संहारं कृत्वा द्रौपद्याः केशान् भीमः वेणीरूपेण बध्नाति इत्यतः एतस्य नाटकस्य नाम 'वेणीसंहारः' इति ज्ञातम् । एतत् नाटकं वीररसप्रधानम् । समग्रं नाटकं नाटकलक्षणानुगुणम् एव रचितम् अस्ति । अतः लक्षणनिरुपणावसरे बहवः लक्षणकाराः वेणीसंहारस्य श्लोकान् एव अधिकतया उदाहरन्ति । पात्रचित्रणं, तत्रापि भीमाश्वत्थामादीनां चित्रणम् अपूर्वम् अस्ति । भट्ट्नारायणस्य शैली प्रौढा । एतस्य भाषाप्रभुत्वं पाण्डित्यं च श्लाधनीयम् । एकया कृत्या अपि एषः विशेषप्रसिधद्धिं प्राप्तवान् अस्ति ।

कथासरण्यां मूलमहाभारतस्य अस्य वेणीसंहारस्य च केचन भेदाः दृश्यन्ते। यथा भीमेन सुयॊधनस्योरुशोणितेन द्रौपदीकेशसंयमनं, भानुमतीप्रसङ्गः, अश्वत्थाम्ना क्रोधेन यज्ञोपवीतच्छेदनम्, सुन्दरकेण युद्धवर्णनम् चार्वाकप्रसङ्गः इत्यादयः। ऎते चस्य नाटकस्य संविधाने चमत्कारकाः सन्ति।

वेणीसंहारस्य षट्सु अङ्केषु तृतीयाङ्कः श्रेष्ठः इति परिगणितः। अश्वत्थाम्नो व्यक्तित्वस्य विविधमुखानि प्रभावपूर्णतया अत्र चित्रितानि। अत ऎव ऎषः अश्वत्थामाङ्कः इत्येव प्रसिद्धः। अश्वत्थाम्नः पितृवात्सल्यम् तस्य वीरावेशः, कर्णाश्वत्थाम्नो वाग्युद्धम्, अश्वत्थाम्नः अस्त्रत्यागविषये विधेःप्राबल्यम् च अत्र चारूतया प्रप्ञ्चितम्। अत्र च अश्वत्थामा कर्ण्सश्च प्रस्तुतं त्यक्त्वा अप्रस्तुतविषये उद्विग्नौ भवतः। अतः तृतीयाङ्कस्यास्य 'अप्रस्तुतावेगः' इत्येवास्माभिः शीर्षिका दत्ता।

उदाहरणश्लोकाः[सम्पादयतु]

नाटकस्य सारांशम् भीमसेनः एकेनैव शार्दूलविक्रीडितेन वदति यथा -

चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः, सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता ।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलम्, राजन्योपनिमन्त्रणाय रसति स्फीतं यशो दुन्दुभिः ॥

कर्णस्य वीरवचनम् यथा -

दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ।

पितुः द्रोणस्य पराक्रमस्य विचारे अश्वत्थाम्नः वचनम् यथा-

दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्काः, वाता वाता दिशि दिशि न वा सप्तधा सप्तभिन्नाः ।
छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः, पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥

यदा दुर्योधनः भीमेन बाहुबद्धो भवति, तदा भीमः उवाच यत्-

आशैशवादनुदिनं जनितापराधः, क्षीबो मदेन भुजयोर्हतराजपुत्र! ।
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य, जीवन् प्रयासि न पदात्पदमद्य पाप!॥
"https://sa.wikipedia.org/w/index.php?title=भट्टनारायणः&oldid=444061" इत्यस्माद् पुनः प्राप्तिः