भारतीयजीवनरक्षानिगमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतीयजीवविमानिगमः इत्यस्मात् पुनर्निर्दिष्टम्)


भारतीयजीवनविमानिगमःभारतस्य बृहज्जीवनाभिरक्षासमवायेषु अन्यतमः । देशस्य बृतत्तमः निवेशकसमवायः यस्य सम्पत्तिः भारतसर्वकास्य विविधयोजनासु विनियुक्ता भवति । अस्याः जीवनविमासंस्थायाः आरम्भः क्रि.श. १९५६तमे वर्षे अभवत् । अस्य प्रधानकार्यालयः भारतस्य वित्तीयराजध्यान्यां मुम्बैनगरे अस्ति । देशे ८ आञ्चलिककार्यालयाः १०१विभागीयकार्यालयाः, द्विसहस्राधिकशाखाः च विभिन्नराज्येषु सन्ति । अस्य विमानायविक्रयस्य प्रतिनिधयः देशे १०लक्षाधिकाः सन्ति । भारतीयजीविमानिगमः सर्वेषु समवायेषु बृहत्तमः धननिवेशकसमवायः अस्ति । भारतसर्वकारस्य आंशिकस्वामित्वम् अस्मिन् अस्ति । स्वायत्ता स्वतन्त्रा समितिः अस्य प्रशासनं करोति ।

इतिहासः[सम्पादयतु]

ओरियण्टल् जीवनविमा कम्पनी इति भारतस्य सर्वप्रथमा जीवनविमासमवायः क्रि.श. १८१८तमे वर्षे कोलकातानगरे दसगुप्तावर्येण अन्यैः सह मिलित्वा आरब्धः । समकालेन एव बम्बे म्यूचवल् इन्सूरन्स् कम्पनी इति अपि संस्था मुम्बैनगरे आरब्धा । भारतस्य स्वातन्त्र्यात् पूर्वमेव आरब्धाः जीवविमासमवायाः

  • भारतविमकम्पनी -क्रि.श. १८१९
  • युनैटेड् कम्पनी - क्रि.श. १९०६
  • न्याषनल् इण्डियन् - क्रि.श. १९०६
  • को आपरेटिव् इन्सूरन्स् - क्रि.श. १९०६
  • हिन्दुस्तान को आपरेटिव्स् - क्रि.श. १९०७
  • इण्डियन् मर्केण्टाय्ल् ।
  • जनरल् अस्युरंस् ।
  • स्वदेशी लैफ् ।

राष्ट्रीकरणम्[सम्पादयतु]

भारतीयसंसत् क्रि.श. १९५६तमवर्षस्य जून् १९दिनाङ्के भारतीयजीवविमाविधेयकम् अङ्ग्यकरोत् । यस्य नियमानुसारं क्रि.श. १९५६तमवर्षस्य सेप्टम्बर् मासस्य प्रथमदिने भारतीयजीवविमानिगमः अस्तित्वम् अवाप्नोत् । भारतीयजीवविमानिगमस्य विमाव्यापारस्य राष्ट्रीकरणं क्रि.श. १९५६तमवर्षस्य औद्योगिकनित्यनुसारम् अभवत् ।

बाह्यानुवन्धाः[सम्पादयतु]