भूगोलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(भूगोल इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

भूगोलशास्त्रं पृथिव्याः विषयकं ज्ञानम् अस्‍ति । पृथिव्यां सप्त महाद्वीपा: सन्‍ति -- एशिया, यूरोप, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्क्टिका

भूमेः उद्भवस्य अनन्तरं कति वर्षाणि अतीतानि ? इत्येषः अत्यन्तं स्वारस्यपूर्णः प्रश्नः । भूमेः वयः शतशब्देन सहस्रशब्देन अथवा लक्षशब्देन वा गणयितुं न शक्यते । यतः भूमिः अत्यन्तं पुरातना । भूमेः उद्भवस्य अनन्तरं कतिपयकोटिवर्षाणि एव अतीतानि सन्ति । तथापि विज्ञानक्षेत्रे भूमेः वयसः विषये निर्दिष्टानि कतिपय वैज्ञानिकानि संशोधनानि प्राचलन् एव ।

विभिन्नानाम् अभिप्रायाः[सम्पादयतु]

क्रैस्तमतस्य अतिपुरातने ग्रन्थे पुरातनमृत्पत्रे (old Testament) भूमिः केवलं षट्सु दिनेषु निर्मिता इति उक्तम् अस्ति । क्रि. श. १६५० तमे वर्षे आर्च बिषप् उषर् नामकः भूमेः वयः प्रायः ८००० वर्षाणि स्युः इति उक्तवान् आसीत् । १८ शतकस्य मध्यभागे कम्टे डि. बुफान् (compte.de.buffon) इत्याख्यः तदा लभ्यमानानां विवरणानाम् आधारेण भूमेः वयः ७५०० वर्षाणि स्युः इति निर्णीतवान् आसीत् । अन्यासां प्राचीनसंस्कृतीनां चिन्तकैः सह तोलयामः चेत् भारतीयानां चिन्तकानां भूमेः तथा अन्येषाम् आकाशकायानां विषये अधिकं वैज्ञानिकं ज्ञानम् आसीत् इति वक्तुं शक्यते । आधुनिकस्य विज्ञानस्य पितामहाः इति उच्यमानानां कोपर्निकस् तथा गेलिलियो इत्येतेषां कालपर्यन्तम् अपि तन्नाम १५ – १६ शतकस्य पर्यन्तम् अपि पाश्चात्याः भूमिः आनताकारिका (Flat), अन्ये सर्वे ग्रहाः भूमिं परितः भ्रमन्ति इति च चिन्तितवन्तः आसन् । किन्तु भारतीयाः प्रचीनाः चिन्तकाः भूमिः गोलाकारिकः कश्चन आकाशकायः अस्ति इति ज्ञात्वा एव भूगोलः इति नामकरणं कृतवन्तः आसन् । अण्डाकारस्य तारामण्डलं ते ब्रह्माण्डम् इति उक्तवन्तः आसन् । टेलिसोपसदृशाणाम् उपकरणानां साहाय्यं विना अपि ते बहूनां नक्षत्राणाम्, आकाशगङ्गानां च परिचयं प्राप्तवन्तः आसन् ।

भारतीयचिन्तनम्[सम्पादयतु]

तथैव भूमेः वयः अपि तैः प्राचिनैः भारतीयैः चिन्तकैः निर्दिष्टम् आसीत् । जगति अन्यस्यां कस्याम् अपि संस्कृत्यां, तत्रत्यानां चिन्तकानां च भूमेः अगाधस्य वयसः विषये कल्पना एव न आसीत् । तदा एव भारतीयाः चिन्तकाः भूमेः महाकालमानस्य विषये वास्तविकं ज्ञानं प्राप्तवन्तः आसन् । ते समग्रं कालमानं घटिका, तिथिः, पक्षः, मासः, ऋतुः, संवत्सरः, युगं, महायुगं, मन्वन्तरं, कल्पं, परम् इत्येतेन क्रमेण विभक्तवन्तः आसन् । अस्य क्रमस्य व्यतिरिक्तरूपेण पाश्चात्याः समग्रं कालमानं सेकेण्ड्, मिनिट्, दिनं, मासः, वर्षम् इति षड्धा विभक्तवन्तः सन्ति । भारतीयानां कृतादीनां चतुर्णां युगानाम् एकस्य चक्रस्य कालः विंशतिसहस्रोत्तरत्रिचत्वारिंशत् (४३,२०,०००) वर्षाणि । एतादृशम् एकं चक्रं ब्रह्मणः एकं दिनम् । तादृशानि ३६० दिनानि ब्रह्मणः एकं वर्षम् । सृष्टेः एतादृशानि ५० वर्षाणि एतावता अतीतानि सन्ति । तन्नाम प्रथमं परार्धं समाप्य इदानीं द्वितीयं परार्धं प्रचलति । अस्य क्रमस्य अनुसारं यदि गुणाकारं कुर्मः तर्हि ब्रह्माण्डस्य वयः सार्धसप्तसहस्रकोटि (७५००,००,००,०००) वर्षाणि । भूमिः ब्रह्माण्डस्य कश्चन शिशुः । ब्रह्माण्डस्य उद्भवस्य बहूनां वर्षाणाम् अनन्तरं भूमेः उद्भवः जातः स्यात् । तथापि भूमेः वयसः विषये एतावता आर्षरूपेण अन्यासां संस्कृतीनां कोऽपि चिन्तकः कल्पनाम् अपि न अकरोत् तस्मिन् काले ।

भूमेः वयसः विषये पाश्चात्यानां चिन्तनः क्रि. श. १५ शतके आरब्धम् इति वक्तुं शक्यते । इटालीदेशस्थः प्रख्यातः कलावित् चिन्तकः च लियोनार्डो ड. विन्सि (१४५२ – १५१५) प्रथमवारं चिन्तनम् अकरोत् । वयं समुद्रतीरेषु एव सामान्यतया शङ्खं, शुक्तिं च पश्यामः । ते तु प्रधानतया सागरजीविनः । तादृश्यः शुक्तयः यदा तेन पर्वतप्रदेशेषु अपि दृष्टाः तदा तस्य मनसि जीवाश्मानां कल्पना प्रथमवारम् आगता । तर्हि जीवाश्मः नाम कः ? आङ्ग्लभाषायां जीवाश्मः Fossil इति उच्यते । तन्नाम बहुभ्यः वर्षेभ्यः पूर्वं जीवितवतां प्राणिनां सस्यानां वा अवशेषाः कासाञ्चन प्रक्रियाणां कारणतः केषुचित् विशिष्टानां जातीनां शिलानां स्तरेषु संश्लिष्टाः भवन्ति । ताः शिलाः खलशिलाः (Sedimentary Rocks) इति उच्यन्ते । तादृशीषु शिलासु सञ्चितानाम् अवशेषाणाम् अध्ययनेन भूमेः इतिहासे सञ्जाताः अनेकाः घटनाः पुनः रचयितुं शक्याः । न केवलं तावत् भूमौ लक्षोपलक्षसु वर्षेषु विकसितानां विविधानां जीविनां विभिन्नानां घट्टानां विषये अपि विवरणं प्राप्तुं शक्यते । तस्य लियोनार्डो ड. विन्सि इत्यस्य चिन्तनानि भूमेः चरित्रस्य रचनायाः निमित्तं प्रमुखाणि विषयवस्तूनि अयच्छन् ।
तदनन्तरं प्रायः १५० वर्षाणाम् अनन्तरं इटालीदेशे वसन् डेन्मार्क् – देशीयः निकोलोस् स्टेनो (१६३८ – १६८७) तादृशान् एव अवशेषान् अपश्यत् । खलशिलाः बहुदूरपर्यन्तम् अपि विसृताः आसन् । तासां शिलानाम् उपरि प्रथमं जातस्य उपरि अनन्तरं जातः स्तरः अपि दृश्यते स्म । तां क्रियां सः “स्तरसरणव्यवस्था” (Layered Structure System) इति अवदत् । कस्मिंश्चित् प्रदेशे दृश्यमानानां स्तरशिलानां वयसः निर्णये अयम् अंशः साहाय्यम् आचरति । निकोलस् स्टेनोस्य अयं सिद्धान्तः विलियं स्मित् इत्यनेन अनुवर्तितः । सः विलियं स्मित् (१७६९ - १८३९) स्तरसरणव्यवस्थायां शिलास्तराः सर्वे अपि एकस्मिन् एव सरणे भवन्ति । कस्यचित् एकस्य निर्दिष्टस्तरस्य अवशेषाः सर्वे अपि निर्दिष्टायाः कस्याश्चित् एकस्याः एव जातेः भवन्ति अपि इत्येतम् अंशं संशोधितवान् । चित्रे यथा दर्शितं तदनुगुणं a b c इत्याख्याः त्रयः शिलास्तराः । A B C इत्येते तेषु शिलास्तरेषु दृश्यमानाः अवशेषाः । जगतः यस्मिन् कस्मिन् प्रदेशे पश्यामः चेदपि a b c शिलास्तराः तेनैव सरणक्रमेण भवन्ति । A B C अवशेषाः अपि कस्मिंश्चित् निर्दिष्टशिलास्तरे एव दृश्यन्ते । २५ वर्षाणि यावत् निरन्तरं कृतस्य परिश्रमस्य फलरूपेण सः विलियं स्मित् १८१५ वर्षे इङ्ग्लेण्ड् तथा वेल्स् राज्यानां मानचित्रं रचितवान् । तस्मिन् मानचित्रे सः विविधानां प्रदेशानां शिलास्तराणां साम्यं प्रदर्शितवान् । तेषु विविधेषु प्रदेशेषु विद्यमानेषु शिलास्तरेषु वयसा ज्येष्ठत्वं कस्य कनिष्ठत्वं कस्य इत्यपि प्रादर्शयत् । विकासवादस्य कर्तुः चार्ल्स डार्विनस्य अपेक्षया ४४ वर्षेभ्यः पूर्वम् एव तेषाम् अवशेषाणाम् आधारेण कस्माश्चित् मूलस्वरूपात् जीविनां विकासः कथं जातः स्यात् इति विवृतवान् आसीत् ।
स्काट्लेण्ड्देशस्थः वैद्यः जेम्स् हटन्(१७२८ – १७९७) एव आधुनिकस्य भूविज्ञानस्य पितामहः । क्रि. श. १७८८ तमे वर्षे सः कस्यचित् पुस्तकस्य प्रकाशनं कृत्वा भूविज्ञानस्य व्यस्थितस्य अध्ययनस्य आधारशिलां निर्मितवान् । शिलास्तराणां निर्माणं कस्याश्चित् निरन्तरप्रक्रियायाः अविभाज्यम् अङ्गम् । अस्यां प्रक्रियायाम् आरम्भस्य अवशेषाः वा अन्त्यस्य भविष्यं वा न भवति इत्यपि सः उक्तवान् । (There are no vestiges of a beginning nor live prospects of ana end ) भूवैज्ञानिकानि परिवर्तनानि किञ्चित् निरन्तरं परिभ्रमत् चक्रम् इव इत्येषा तस्य परिकल्पना वस्तुतः अत्युत्कृष्टा एव । जलस्य तथा वायोः कारणतः शिलास्तराणां शिथिलीकरणं (Erosion)जायते । तस्मात् कारणात् तेषां शिलास्तराणां ..... (weathering) जायते । अस्याः प्रक्रियायाः कारणतः जायमानाः भग्नावशेषाः समुद्रस्य तलं गत्वा तत्र सङ्गृहीताः भवन्ति । तथा सङ्गृहीताः शिलाः भग्नावशेषाणाम् अनन्तरं पुनः शिलारूपं प्राप्नुवन्ति । ताः शिलाः सञ्चितशिलाः (Sedimentary Rocks) इति उच्यन्ते इत्यपि सः प्रत्यपादयत् । एवं सञ्चिताः शिलाः उपरिष्टात् पत्यमानानां नूतनानां सञ्चितानां शिलानां भारस्य परिणामतः सागरतले अधः अधः गच्छन्ति । एवं सञ्चयनक्रिया निरन्तरं प्रचलति इति कारणात् नूतनाः शिलास्तराः निर्मिताः भवन्ति । कालक्रमेण भूतले विद्यमानस्य तापस्य सङ्कुचनशक्तेः च कारणतः तादृशेषु शिलास्तरेषु नूतनानां खनिजानां निर्माणं जायते । कदाचित् ते शिलास्तराः भूतलस्य सङ्कुचनशक्तेः प्रभावेण कागदम् इव पुटीकृताः अपि भवेयुः । तथा पुटीकृताः शिलास्तराः .... इति उच्यन्ते । उदाहरणार्थं हिमालयपर्वताः तेनैव क्रमेण निर्मिताः । एवं निर्मितानां सञ्चितशिलास्तराणां वयसः निर्णयः अपि शक्यते । हटन्नस्य एतादृशाणां मूलभूतचिन्तनानां कारणतः एव भूमेः इतिहासस्य निर्णयस्य क्रमाणां वैज्ञानिकः आधारः प्राप्तः ।

एवं विश्वाद्यन्तं विद्यमानाः सर्वाः सञ्चितशिलाः समग्रतया क्रोढीकृत्य भूमेः इतिहासस्य पुनारचने विज्ञानिनः यशस्विनः अभवन् । एतेषां क्रमाणां कारणतः एव भूमेः उद्भवात् आरभ्य अद्यपर्यनतं घटितानां सर्वासां घटनानां कालक्रमेण योजनं शक्यम् अभवत् । एवं क्रमेण योजिताः घटनाः कोष्टकरूपेण रचिताः । तत् कोष्टकं भूवैज्ञानिकस्तम्भः (Geologic Column) इति उच्यते । भूमौ लब्धाः प्राचीनाः शिलास्तराः कोष्टकस्य अधोभागे इदमिदानीं रूपिताः शिलास्तराः कोष्टकस्य उपरितने भागे च योजिताः सन्ति । तादृशीषु शिलासु प्राप्ताः अवशेषाः अपि जीविनां विकसनक्रियायाः विविधान् स्तरान् प्रदर्शयन्ति ।
एवं भूमेः इतिहासस्य विविधेषु स्तरेषु विकसितानां जीविनाम् (प्राणि-पक्षि-वृक्ष-सस्यानि) आधारेण अयं भूवैज्ञनिकस्तम्भः विभिन्नेषु भागेषु विभक्तः अस्ति । प्रधानतया सः स्तम्भः निर्जीवकल्पं, सजीवकल्पं च इति द्विधा विभक्तः । कोष्टकस्य अधोभागे निर्जीवकल्पम् अस्ति । यतः भूमेः उद्भवस्य अनन्तरं बहुकालपर्यन्तं जीविनां जन्म भूमौ न जातः एव । तत् निर्जीवकल्पं पुनः आर्षेयं तथा आदिमं (बीजभूतम्) च इति द्विधा विभक्तम् अस्ति । अस्मिन् द्वितीये विभागे अपि यद्यपि जीविनाम् उद्भवः स्पष्टतया न जातः तथापि जीविनाम् उद्भवार्थम् अपेक्षिताः कतिपय सूक्ष्माणुजीविनः आसन् । तन्नाम भूमेः उद्भवस्य अनन्तरं कतिपय सहस्रं वर्षाणि यावत् भूमौ जीविनां जीवनार्थम् अपेक्षिता परिस्थितिः न आसीत् । क्रमेण भूमिः शीतला जायमाना जीविनां जीवनार्थम् अनुकूलकरी जाता । वायुः, जलम् इत्यादयः अंशाः अपि सिद्धाः अभवन् । तेन भूमौ जीविनां विकसनम् आरब्धम् ।


सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भूगोलम्&oldid=390070" इत्यस्माद् पुनः प्राप्तिः