मराठासाम्राज्यम्
मराठासाम्राज्यं भारते १६७४तः १८१८पर्यन्तम् आसीत् । मराठासाम्राज्यस्य सुवर्णकाले तत् साम्राज्यं २५० दसलक्ष-एकरे यावत् विस्तृतम् आसीत् (१ दशलक्ष चकिमी) । तन्नाम दक्षिण-एषियायाः विस्तीर्णस्य त्रिषु एकः भागः आसीत् मराठासाम्राज्यम् ।
एतत् साम्राज्यं छत्रपतिशिवाजिमहाराजेन १६७४ तमे वर्षे संस्थापितम् । शिवाजिः तु बिजापुरस्य आदिलशाहेन सह तथा च मुघल्चक्रवर्तिना औरङ्गजेबेन सह च आजीवनं गेरिल्लायुद्धम् अन्यानि साहसयुक्तानि युद्धानि अकरोत् । तस्य राजधानी आसीत् रायघढनगरम् । १६८२ तः १७०७ पर्यन्तं २५ वर्षाणि यावत् मोघघल्जनाः य्द्यपि दीर्घं युद्धं कृतवन्तः तथापि ते जयं प्राप्तुं न शक्तवन्तः । शिवाजेः पौत्रः शाहुः १७४९ पर्यन्तं शासनम् अकरोत् । स्वस्य अधिकारावधौ शाहुः पेश्वेजनमेव (प्रधानमन्त्रिणमेव) सर्वाकारस्य प्रमुखरूपेण नियुक्तवान् । शाहुसम्राजः मरणानन्तरं १७४९ तः १७६१ पर्यन्तं पेश्वेजनाः एव वस्तुतः साम्राज्यस्य अधिपतयः जाताः । शिवाजेः अनन्तरम् अधिकारं प्रप्तवन्तः सर्वेपि राजानः नाममात्रं राजानः आसन् ।
भारतस्य भूभागे बहुभागं व्याप्तम् एतत् साम्राज्यं १८ शतकपर्यन्तं ब्रिटिषसाम्राज्यस्य वर्धनस्य अवरोधम् अकरोत् । यावत् पेश्वेजनानाम् ऐक्यं न भिन्नं तावत्पर्यन्तं मराठासाम्राज्यम् अत्यन्तं प्रबलं साम्राज्यम् आसीत् । १८ श्तके राज्ञः शाहोः तथा प्रथमस्य बाजिरावस्य काले माराठासाम्राज्यस्य अधःपतनम् आरब्धम् । १७६१ तमे वर्षे प्रवृत्ते तृतीयपाणिपत्युद्धे प्राप्तः पराजयः साम्राज्यविस्तारस्य अवरोधकः जातः । तदा पेश्वेजनानाम् अधिकरः अपि न्यूनः जातः । राज्यस्य उपरि विद्यमानं नियन्त्रणमपि शिथिलं जातम् । तदा शिन्धे, गायक्वाड्, होळ्कर्, नेवळ्कर्, पन्तप्रतिनिधयः स्वप्रदेशानाम् अधिकारं प्राप्तवन्तः । अधिकरः पञ्चषु वंशेषु विभक्तः । पुणेस्थाः पेश्वेजनाः, मालव-ग्वालियर्प्रदेशस्थाः सिन्धियार्जनाः (शिन्धेजनाः), इन्दूरस्थाः होळ्करजनाः, नागपुरस्थाः भोंस्लेजनाः, बरोडस्थाः गायक्वाडजनाः च अधिकारं प्राप्तवन्तः । १९ शतकस्य आरम्भे सिन्धिया-होळ्करजनानां मध्ये जातं वैरत्वं ब्रिटिषजनानां प्राबल्यस्य कारणं जातम् । ब्रिटिषजनानाम् ईष्ट्-इण्डिया-कम्पेनि इत्यनेन सह प्रवृत्तानि त्रीणी आङ्ग्लोमराठायुद्धानि तदानीन्तनानि प्रमुखयुद्धानि । १८१८ तमे वर्षे प्रवृत्ते तृतीये आङ्ग्लोमराठायुद्धे अन्तिमः पेश्वे द्वितीयः बाजीरायः पराजयं प्राप्नोत् । तदनन्तरं मराठासाम्राज्यस्य बहुभागः ब्रिटिषसाम्राज्ये विलीनः जातः । तथापि १९४७ तमे वर्षे स्वातन्त्र्यप्राप्तिपर्यन्तमपि मराठासाम्राज्यस्य कतिपयभागाः अर्धस्वतन्त्राः एव अतिष्ठन् ।
छत्रपतिशिवाजिवंशजाः
[सम्पादयतु]- छत्रपतिछत्रपतिशिवाजिः (1630-1680)
- छत्रपतिसम्भाजिः (1657-1689)
- छत्रपतिराजारामः (1670-1700)
- छत्रपतिशाहुः
- छत्रपतिरामराजः
कोल्हापुरवंशजाः
[सम्पादयतु]- महाराज्ञी ताराबाई
- छत्रपतिसम्भाजिः
- छत्रपतिशाहुः ४ (कोल्हापुर)
पेशवाः
[सम्पादयतु]- बालाजीविश्वनाथः
- बाजीरावः
- बालाजीबाजीरावः
- पेशवामाधवरावः
- नारायणराव पेशवा
- रघुनाथराव पेशवा
- सवाई माधवराव पेशवा
- बाजीरावः २
- अमृतराव पेशवा
- नाना साहिब पेशवा