मानसिकरोगः
मानसिकरोगः रोगेषु अन्यतमः । मानसिकव्यत्ययः अधिकप्रमाणेन भवति चेत् सः मानसिकरोगः भवति । मनुष्यः यदा खिन्नः भवति तदा सः दुःखभावनायुक्तः भवति । अल्पावधिखिन्नस्य मनुष्यस्य चिकित्सा अनपेक्षिता । किन्तु दीर्घावधिं खिन्नतां यः अनुभवेत् तस्य मनुष्यस्य चिकित्सा अपेक्षिता भवति । खिन्नता सप्ताहद्वयं यावत् तिष्ठेत् तर्हि सा चिन्तनीया भवति । अनेन कारणेन व्यक्तेः कार्येषु , दैनन्दिनक्रियासु, तृप्तिकरसम्बन्धेषु च विपरिणामाः भवन्ति । मानसिकरोगः (खिन्नता) सामान्यतः पुरुषाणाम् अपेक्षया स्त्रीषु अधिकतया दृश्यते । डोपमिन् -सेरोटोनिन्-रासायनिके मस्तिष्के समप्रमाणेन भवेताम् । एते नरवाहकाः न्यूनाः भवन्ति चेत् मानसिकरोगः उत्पत्स्यते ।
चिह्नानि लक्षणानि च | क्लेशाः |
---|---|
१ खिन्नता | १ उदासीनभावः, दुःखस्याभिव्यक्तिः, भावनात्मकक्रियाशीलतायाः न्यूनता, रोदनम्, असङ्गतवाक्यानां प्रयोगकरणम् । |
२ क्रियासु अनासक्तिः | २ कार्येषु भागग्रहाणाय अनासक्तिः । विरामसमयेषु अपि कार्येषु भागग्रहणाय तिरस्कारभावप्रकटनम् । सन्तोषप्रकटने अशक्तता । |
३शरीरभारस्य न्यूनता बुभुक्षायाः न्यूनाल्पताच | ३ अहारसेवनाय अनासक्तिः । |
४ अनिद्रा अतिनिद्रा च | ४ निद्रायाः अनागमनम्, विलम्बेन उत्थानम् उत शीघ्रोत्थानम् । दिवा निद्राकरणम्। |
५ अलोचना अनालोचना च | ५ अतीव क्रियाशीलता । शक्तेः न्यूनता, अधिकतया वदनम् । |
६ आयासः निश्शक्तिः च | ६ स्वल्पे काले निश्यक्तताभावप्रकटनम् । नित्यजीवनविषयेषु अनासक्तिः। कार्येषु असमर्थता । |
७ भावनासु तुमुलः | ७ अहम् अज्ञानि, निष्प्रयोजकः, मां कोऽपि नेच्छति इत्यादि स्वात्मकथनम् । स्वनिराशां प्रकटयितुम् अशक्तता । |
८ एकाग्रतायाः न्यूनता | ८ कार्येषु दक्षता न भवति । व्यसनेषु अभ्यासेषु च परिवर्तनानि । व्यक्तिगतानि कौशलानि न्यूनानि भवन्ति । |
९ पुनः पुनः मरणस्य चिन्तनम्। अत्महत्यायत्नः आत्महत्यायाः विषये कथनम् । | ९ मरणस्य विषये एव कथनम् । आत्महत्यायाः विषये चिन्तनं कथनञ्च । |
मानसिकरोगिणः लक्षणानि
[सम्पादयतु]मानसिकास्वस्थः मन्दगत्या चलति । अलोचने अपि मन्दगतिः भवति । वैयक्तिकशुचित्वस्य आरोग्यस्य विषये च निरासक्तिः । दुःखसहितः भवति । सुलभतया अश्रूणि स्रावयति । अल्पमानसिकास्वस्थस्य कदाचित् अश्रूणि नागच्छेयुः । स्वालोचनासु विश्वासः न भवति । असहायकता व्यक्तिषु दरीदृश्यते ।
मानसिकरोगस्य कारणानि
[सम्पादयतु]मानसिकरोगोत्पत्तये नैकानि कारणानि विद्यन्ते । तेषु जैविक-मानसिक-सामाजिकानि कारणानि भवन्ति । एतैः सह शारीरकरोगाः, कौशलानां न्यूनतादीनि अपि कारणानि भवन्ति । व्यक्तिषु लभ्यानि अन्यानि कारणानि अधो निर्दिष्टानि-
- कुटुम्बे मानसिकक्लेशाः सन्ति चेत् मानसिकरोगाः भवन्ति ।
- सम्बन्धेषु उत्पत्स्यमानाः वियोगाः ।
- द्वन्द्वयुक्तमतिः । द्वन्द्वजीवनम्।
- पुनः पुनः उद्योगस्य परिवर्तनम् ।
- भावोद्वेगः आतङ्कश्च ।
- बाल्ये घटिताः दुर्घटनाः एवं लैङ्गिकदौर्जन्यम् ।
- दारिद्र्यम् ।
- (हननम् इत्यादि) अपराधी चेत् मानसिकास्वस्थः भवति ।
- उद्योगवञ्चितः चेत् व्यक्तिः मानसिकास्वस्थः भवति ।
- दीर्घकालीनव्याधियुक्ता व्यक्तिः मानसिकास्वस्थः भवति ।
- मादकपदार्थव्यसनशीलः मानसिकास्वस्थः भवति ।
- न्यूनात्माभिमानयुक्तः चेत् मानसिकास्वस्थः भवति ।
उपायाः
[सम्पादयतु]मानसिकरोगस्य निवारणोपायाः उक्ताः सन्ति ।
- मानसिकरोगनिवारकानि योगासनानि करणीयानि । योगासनैः स्वस्थः भविष्यति ।
- सन्तोषदायककार्येषु भागग्रही भवेत् तेन मानसिकस्वस्थता न भवति । ध्यानप्रार्थनादिषु प्रवृत्तिः भवेत् ।
- उत्तमैः जनैः सह मेलनम्।
- मानसिकसमस्याः भवन्ति चेत् मनोवैद्यस्य साहाय्यं स्वीकर्तव्यम् ।
बाह्यानुबन्धः
[सम्पादयतु]- NIMH.NIH.gov - National Institute of Mental Health
- International Committee of Women Leaders on Mental Health Archived २००८-१०-३० at the Wayback Machine
- Psychology Dictionary
- Mental Illness Watch
- Metapsychology Online Reviews: Mental Health Archived २०१३-१०-१५ at the Wayback Machine
- The New York Times: Mental Health & Disorders
- The Guardian: Mental Health
- Mental Illness (Stanford Encyclopedia of Philosophy)