मेल्पुत्तूर् भट्टपादं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


मेल्पुत्तूर् नारायणभट्टपादः [सम्पादयतु]

मेल्पुत्तूर् नारायणभट्टपादः (Melputtur Narayanabhattapada) संस्कृतभाषायां महापण्डितः आसीत् । केरलस्य उत्तरभागे निलानद्या: उत्तरतीरे चन्दनक्कावुनामकग्रामे मेल्पुत्तूर् इति प्रतिथे नम्पूतिरिब्राह्मणकुले नारायणभट्टस्य जन्म अभवत्। तस्य पिता मातृदत्तः, माता पय्यूर् द्विजकुलान्तर्गतैका च आस्ताम्। मातृदत्ततः बहुशिष्यसम्पन्नतः वेदपण्डिततःआसीत्। स्वकीयान्तर्गतश्लोके भट्टपादेन स्वजीवनविषयतः सूचिततः। तद्यदा -

भूखण्डे केरलाख्ये सरितमिह निलामुत्तरेणैव नावा-
क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि सवधाम्नि।
धर्मिष्ठाद् भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-
ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम्। इति।

अस्य जीवनकालविषये प्रमाणानि उद्धृत्य डा.के कुञ्जुण्णिराजामहोदयेन उक्तं यद् श्रीमन्नरायणभट्टपादतः १५६० तमवर्षततः १६६६ तमवर्षं यावद् जीवितवानिति। मीमांसादिशास्त्राणि स्वपितुतः सकाशात्, वेदशास्त्रं माधवाचार्यात्, तर्कशास्त्रं दामोदरार्यात्, व्याकरणशास्त्रम् अच्युतपिषारकात् च अधीतवान् इति प्रक्रियासर्वस्वश्लोकात् ज्ञातुं शक्यते।

नारायणभट्टपादस्य कृतयः[सम्पादयतु]

महापण्डितेन तेन प्रक्रियासर्वस्वम्, धातुकाव्यम्, अपाणिनीयप्रामाण्यसाधनम् इति त्रयः संसकृतव्याकरणग्रन्थाः विरचिता:। तन्त्रवार्त्तिकनिबन्धनम्, मानमेयोदयम् इति द्वौ पूर्वमीमांसाग्रन्थौ, श्रीमन्नारायणीयम्, श्रीपादसप्ततिः, गुरुवायुपुरेशस्तवम्, सूक्तश्लोकाः, इत्याद्याः स्तोत्रग्रन्थाः, राजसूयम्, दूतकाव्यम्, अष्टमीप्रबन्धः, कोटिविरहप्रबन्धः, निरनुनासिकप्रबन्धः, वामनावतारप्रबन्धः, दक्षयागप्रबन्धः, सन्तानगोपालचम्पू, कुचेलवृत्तचम्पू, स्वाहासुधाकरचम्पू, मत्स्यावतारचम्पू, सुभद्राहरणचम्पू, पाञ्चालीस्वयंवरचम्पू, इत्याद्यनेके प्रबन्धाः, गोश्रीनगरवर्णना, वीरकेरलप्रशस्तिः, देवनारायणप्रशस्तिः, बिंबलीशगोदवर्मप्रशस्तिः, मानविक्रमप्रशस्तिः इत्याद्यनेकाः प्रशस्तयः, आश्वलायनक्रियाक्रमम्, चतुरंगाष्टकम्, मुक्तकश्लोकाः इत्यादयः नारायणभट्टपादेन विरचिताः केचन प्रशस्तग्रन्थाः। नारायणभट्टपादस्य सर्वासु कृतिषु विशेषप्रयोगेषु काव्यशोभा इव व्याकरणपाटवमपि समीचीनरीत्या द्रष्टुं शक्नुमः। तेन विरचिताः त्रयः व्याकरणग्रन्थाः तस्य व्याकरणपाण्डित्यप्रतिपादकाः भवन्ति।

प्रक्रियासर्वस्वम्[सम्पादयतु]

नारायणभट्टपादस्य कृतिषु प्रधानस्थानं वहति पाणिनीयसूत्राणां सम्पूर्णव्याख्यानात्मकं प्रक्रियासर्वस्वम्। चम्पकश्शेरी देवनारायणराज्ञः आज्ञया भट्टपादेन प्रक्रियासर्वस्वस्य रचना कृता। ग्रन्थनाम तथा खण्डाविभागाः, तेषां नामानि च देवनारायणेन निर्दिष्टानि। तदाज्ञानुसारेणैव ग्रन्थरचनां कृतवान् नारायणभट्टपादः। अस्मिन् ग्रन्थे विषयविभागमनुसृत्य देवनारायणेन निर्दिष्टाः विंशतिखण्डाः सन्ति। तदुक्तम्

इह संज्ञा परिभाषा सन्धिः कृत्तद्धिताः समासाश्च
स्त्रीप्रत्ययाः सुबर्थाः सुपां विधिश्चात्मनेपदविभागाः।
तिङपि च लार्थविशेषाः सनन्त यङ् यङ्लुकश्च सुब्धातुः
न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशतिः खण्डाः। इति।

एवं विंशतिखण्डात्मकस्यास्य रचनाकालः १६१७ तमे वर्षे आरभ्य १९१९ तमे वर्षे समाप्तिंगतमिति पण्डितानामभिप्राय:।

रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपं
प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्।

इति प्रकृतिप्रत्ययरूपव्याकरणतत्वोदाहरणरूपेन मंगलश्लोके श्रीकृष्णगोपिकामेलनस्मरणेन प्रक्रियासर्वस्वमारभ्यते। प्रथमे संज्ञाखण्डे माहेश्वरसूत्रानन्तरं हलन्त्यमिति प्रथमसूत्रम्। अनन्तरम् आदिरन्त्येन सहेता, तस्य लोपः इति क्रमेण सूत्राणि घटितानि। अष्टाध्यायीक्रमं परित्यज्य सूत्राणि प्रक्रियासौकर्यार्थं विषयक्रमेण कथितानि। सूत्राणां विषयक्रमे प्रक्रियाकौमुदी एव मार्गदर्शिका।

अस्मिन् ग्रन्थे पाणिनीयसूत्राणां, वार्त्तिकानां, परिभाषाणां, गणानां, धातूनाम्, उणादीनां च प्रतिपादनमस्ति। यथायोग्यं वार्त्तिकानि उदाहृतानि। सूत्ररूपेण पाणिनिना स्वीकृताः परिभाषाः परिभाषाखण्डे निबद्धाः। ज्ञापकन्यायरूपेण परिगणिताः परिभाषाः समाहृत्य न्यायखण्डे प्रतिपादिताः च। माधवीयधातुवृत्तिमनुसृत्य सर्वे धातवः धातुखण्डे उदाहृताः । सूत्राणां व्याख्यानावसरे यथाक्रमं गणान्तर्गतानि पदानि सम्पूर्णतया उदाहृतानि। 'इष्टादिभ्यश्च' इतीष्टादिगणगतशब्देभ्यो विहितमिनिप्रत्ययं भट्टपादः देवनारायणस्तुतिपराभ्यां "इष्टी सर्वमुखे, श्रुती श्रुतिशते तत्वे गृहीत्यर्चिती"१ इत्यारभ्य द्वाभ्यां पद्याभ्याम् उदाहरति। तत्र इष्टादिगणीयान् सर्वान् शब्दान् उदाहृताः। अव्ययानि अपि सुबन्तप्रतिरूपाव्ययानि, तद्धितप्रतिरूपाव्ययानि इत्येवंविधं यथायोग्यमुदाहृतानि।

अपाणिनीयप्रामाण्यसाधनम्[सम्पादयतु]

व्याकरणशास्त्रे नारायणभट्टपादस्य अतिमहदेका सम्भावना भवति अपाणिनीयप्रामाण्यसाधनम् इत्याख्यमेकं क्रोडपत्रम्। पाणिनीयानुसारी केचित् वैयाकरणा: केचन शब्दाः अपाणिनीयप्रयोगाः इति निन्दन्ति। पाणिनेः अर्वाचीनाः चन्द्रभोजादयः तेषां व्युत्पादनं प्रयोगं च कृतवन्तः। तेषां स्वीकारेण मुनित्रयसिद्धान्तविरोधः न भविष्यन्तीति चिन्ता सयुक्तिकं प्रतिपादयति नारायणभट्टपादः अस्मिन् क्रोडपत्रे। प्रक्रियासर्वस्वे अनेन प्रयुक्तानाम् अपाणिनीयप्रयोगानां विमर्शनं चोलदेशीयैकेन वैनतेयपण्डितेन कृतम्। अस्य विमर्शनमवखण्ड्य सुदर्शननामकपण्डितः नारायणभट्टस्य मतं समर्थितवान्। एतं विषयमवलम्ब्य

सुदर्शनसमालम्बी सोऽपि नारायणोऽधुना
वैनतेयभवत्पक्षमाक्रम्य स्थातुमारभे।

इति श्लोकेन क्रोडपत्रमारभ्यते। अस्य उपक्रमे एव तेन एवमुक्तम् -

पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्र भोजादिसूत्रं?
तेऽप्याहुर्यल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम्।
बह्वङ्गीकारभेदो भवति गुणवशात् पाणिनेः प्राक्कथं वा,
पूर्वोक्तिं पाणिनिश्चाप्यनुवदति, विरोधेऽपि कल्प्यो विकल्पः।।

पाणिनीयव्याकरणस्य बहुभिः अङ्गीकरणे कारणं तस्य गुणविशेषः एव। किन्तु बहुज्ञानां चन्द्रभोजादीनां वचनं कथम् अप्रमाणं भवेत्? पाणिनेः पूर्वमपि वैयाकरणाः आसन्, तेषां वचनानि पाणिनिः अपि उद्धरति। पाणिनिना अनुक्ताः केचन शब्दाः कात्यायनेन पतञ्जलिना च उक्ताः। तैः अनुक्ताः शब्दाः भोजाद्यन्यैः वैयाकरणैः उक्ताः। तेऽपि महापण्डिताः आसन्, निर्मूलं किञ्चित् ते न वदेयुः। तस्मात् तेषां वचनानि च प्रमाणान्येव। पाणिनेः अन्येषां वैयाकरणानां च वचनानां परस्परं यत्र वैरुध्यं दृश्यते, तत्र अन्यतरस्य स्वीकरणमुचितम्, इति व्याकरणविषये आधुनिकानामप्यङ्गीकार्या विधिः नारायणभट्टपादेन स्वीकृता। एवं वैनतेयेन ये ये वादाः उन्नीता: तान् सर्वान् युक्तियुक्तं प्रतिपक्षबहुमानेन सह खण्डयति भट्टपादः।

ततोऽन्यग्रन्थसन्दोहैर्मदुक्तान्येव साधयन्
वैनतेयो ममात्यन्तं बन्धुरेवेति शोभनम्।।

एवं, वैनतेयः अन्यग्रन्थानुद्धृत्य मम वादगतिमेव समर्थयति। तस्मात् तत्रभवान् ममबन्धुरेवेति उक्त्वा सः क्रोडपत्रम् उपसंहरति।

धातुकाव्यम्[सम्पादयतु]

सरसस्य कस्यचित् इतिवृत्तस्य प्रतिपादनेन सह यत्किञ्जित् शास्त्रमपि उदाहरन्ति चेत् तत् शास्त्रकाव्यमिति प्रसिद्धम्। नारायणभट्टपादेन कृतं एकं व्याकरणशास्त्रकाव्यं भवति धातुकाव्यम् । केरलीयेन केनचित् वासुदेवेन वासुदेवविजयम् इति व्याकरणशास्त्रकाव्यं रचितवान्, अस्य अनुबन्धत्वेन विरचितं भवति इदम् । वासुदेवविजयस्योपरि माधवेन विरचितं धातुवृत्तिग्रन्थमाश्रित्य भीमप्रणीतधातुपाठान्तर्गतान् धातून् तदीयक्रमेण अस्मिन्नुदाहरति।

उदाहृतं पाणिनिसूत्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपरः।
उदाहरत्यद्य वृकोदरोदितान्, धातून् क्रमेणैव हि माधवाश्रयात्।।

इति श्लोकेन धातुकाव्यमारभ्यते। कंसदूतस्य अक्रूरस्य गोकुलयात्रादारभ्य कंसवधान्ता श्रीमद्भागवतकथा अस्य काव्यस्य इतिवृत्तम्। सर्गत्रयात्मकेऽस्मिन् काव्ये श्रीकृष्णलीला वर्णिता।

स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्।
द्रक्ष्यन् हरिं नाधितलोकनाथकं देधे मुदास्कुन्दितमन्तरिन्द्रियम्।।

इति द्वितीयश्लोके भू सत्तायाम्, एध वृद्धौ, स्पर्ध संघर्षे, गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च, बाधृ लोडने, नाधृनाथृ याच्ञोपतायैश्वर्यादिष्षु, दध धारणे, स्कुदि आप्रवणे इत्येवं धातुपाठस्यादिमनवधातून् क्रमेणोदाहरति। धातूनां तिङन्तरूपाणि कृदन्तरूपाणि चोदाहरणरूपेण प्रदर्शितानि। प्रायेण एकस्य धातोः एकमुदाहरणमिति रूपेण प्रदर्शितवान्, किन्तु कदाचित् धातूनामर्थभेदं सूचयितुं पदभेदं प्रकाशयितुं च अधिकरूपाणि उदाहर्तुं सः विमुखः नासीत्। द्विनवतिपद्यात्मकप्रथमसर्गं सम्पूर्णं तथा द्वितीयसर्गस्य त्रिचत्वारिंशत्पद्यानि च भ्वादिगणधातूनामुदाहरणानां प्रदर्शनाय उपयुक्तवान्। अदादि-जुहोत्यादि-दिवादि-स्वादि-तुदादि-रुधादिगणधातूनि द्वितीयसर्गस्य त्रिचत्वारिंशत् पद्येषु उदाहृतानि। तृतीयसर्गस्य षट्षष्टिपद्येषु तनादि-क्र्यादि-चुरादिगणान्तर्गतधातूनि उदाहृतानि। एवम् आहत्य चतुश्चत्वारिंशदधिकद्विशत(२४४)पद्यानि धातुकाव्ये सन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]