सदस्यः:SHREERAKSHA.M.S/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Indian postal Pin code Map
Indian Postal Service - Munshi
                        पत्रसेवासाैकर्यम्                                       
        देशे विविधभागेषु स्थितानामं जनानां परस्परसम्पर्कसाैकर्यं बहोः कालात्
पत्रसेवाव्यवस्थया प्रचलितम् इति सर्वविदितमेव। दुरवाणीओयवस्था, दूरसम्पर्क 
सौकर्य व्यवस्था, इन्टर्नेट् सम्पर्कव्यवस्था इत्यादीनां नूतननूतनोपक्रमाणां अचिरात् 
विशेषाविर्भावे भवति सत्यपि,पत्रसेवासाैकर्यस्य लोकप्रियता, सामान्यजनोपादेयता,
देशस्य सर्वकोणेष्वपि सुलभोपलब्धिः इत्यादीनि  पत्रसम्पर्कसेवाव्यवस्थां विशिंषन्ति।                      
       
        देशस्य स्वातन्त्र्यप्राप्तिसमये १९४७ तमे वर्षे, देशे केवलं प्रायः २२
सहस्त्रसंख्याकाः पत्रसेवाकार्यालयाः आसन्। १९९८ वर्षे यावत् देशे १.५३
लक्षसंख्याकाः पत्रसेवाकार्यालयाः स्थापिताः  वर्तन्ते। एतेषु ९०।००% मिताः
कार्यालयाकाः ग्रामप्रदेशेषु वर्तन्ते इत्ययं गमनार्हो विषयः। सामान्यतः एकः पत्रसम्पर्कसेवाकार्यालयः
१९.४८ वर्ग किलोमीटर प्रदेशस्य कृते,५५१८ संख्याकस्य
जनसमुदायस्य कृते पत्रसम्पर्कसेवाः प्रददाति इति अनुमान्यते। प्रत्यग्रकाले पञ्चायतसंचारसेवायोजना
इति आख्यायिता पञ्चायतप्रदेशेषु पत्रसम्पर्कसेवासाैकर्यस्य
विस्तारार्थं एकः नूतनोपक्रमः प्रारब्धः वर्तते। देशस्य विविधभागेषु पञ्चायतप्रदेशेषु
पञ्चायतसञचारसेवाकेन्द्राणि प्रस्थापितानि वर्तन्ते।


       पत्रसम्पर्कसेवाकेन्द्रेषु अल्पधनसञ्चयनिक्षेपसाैकर्यं, पत्रसेवाकेन्द्रप्रचालितजीवनयोगक्षेमसाैकर्यं 
इत्यादीनि विविधसाैकर्याणि जनेभ्यः उपलभ्यन्ते। देशे पत्रसम्पर्कसेवाव्यवस्था नूनं 
जनसामान्यस्य साैलभ्याय समाजकल्याणाभिवृद्धये च विशेषं योगदानं विदधती प्रशंसार्हा चकास्ति।
road transport image
Access road to a stalled development
                     मार्गरचना मार्गपरिवहनसाैकर्यं च
       उत्पादनव्यवसायानाम् उत्पादनदनदक्षता, आदायार्जनक्षमता,विनाऽन्तरायं 
प्रचलसाद्गुण्यं इत्यादयः गुणाः उत्पादनव्यवसायकेन्द्रस्य निकटे उपलभ्यमानानि
मार्गसौकर्य, मार्गपरिवहनसौकर्य, सौकर्याणां निर्वहण्सौष्टवं इत्यदीनि अवम-
म्बन्ते। मार्गसौकर्यस्य मार्गपरिवहनसौकर्यस्य च सौष्ठवे उपमभ्यमाने सात्येव,
उत्पदनसामग्रीणां अधेसंस्कारितवस्तूनांं च पण्येभ्यः उत्पादनकेन्द्राणि प्रति आन-
यनं, तथा च उत्पादनानन्तरम् उत्पदितवस्तुनां पन्यनि प्रति, निर्यातप्रसढे नौकाश्र-
यस्तानं प्रति, विमानाश्रयस्थानं प्रति वा नयनम् इत्यादयः उपक्रमाः सुकरतया
साम्पाधन्ते। तथैव कृषिरड्गे उत्पादिनानां धान्यादिवस्तूनां पण्यस्थानानि प्रति प्रापणं
पण्यस्थानेभ्यः बीजारासायनिकप्पुरीषादिपदार्थोनां कृषिस्थानं यावत् आनयनम्
इत्याधुपक्रमाः मार्गव्यवस्थायाः मार्गपरिवहनसौकर्यस्य च सौष्ठवे सुकार-
साध्याः भवनति। भारतदेशे ग्रामस्थमार्गव्यवस्था, नमरान्नगरगमनस्य राज-
मार्गव्यस्था च समीचीने न वर्तेते। मार्गाणां क्षमतापरिरक्षणार्थ वारं वारं
पूर्ववक्तरणनवीकरणाधुप्क्रमाः आवश्यकाः वर्त्तते। परं समग्रदेशे मार्गाणां
सुस्थितिः तावत्समाधानकरी न विद्यते इति चिन्ताकरो विषयः।
      देशे स्थिताः राष्ट्रियराजमार्गाः तावत् सुस्थितिसम्प्न्नाः नैव विद्यन्ते। तेषां
नवीकरणादिकार्यक्रमाणां शीघ्रतया सम्पादानम् अपि आवश्यकं वर्त्तते।
      राष्ट्रियराजमार्गाः राष्ट्रस्य सर्वप्रदेशेषु प्रसृताः सन्तः ४९,६०० किलोमीटर
दूरं क्रमन्ति। समग्रमार्गपरिवहनप्रमाणस्य ४०।००% भागांशः राष्ट्रियराजमार्गाणां
उपयोगं करोति। एतावत्प्रमाणकः राष्ट्रियराजमार्गः समग्रपरिवहनार्थनस्य कृते 
अपर्याप्त इव तिष्ठति। राजमार्गाणां विस्तारः प्रभूतप्रमाणेन सम्पादयितव्यः वर्तते।
अपेक्षितस्य राजमार्गाविस्तारस्य आवश्यकस्य मार्गाणां परस्परजालस्य च प्रतिष्ठापनार्थं
७४५०० कोटिरूप्यकमितस्य मूलधनस्य आवश्यकता वर्तते इति
योजनाऽऽयोगेन संयोजितया तग्नसमित्या अनुमानितं वर्तते।