सामग्री पर जाएँ

रघूत्तमतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रघूत्तमतीर्थ इत्यस्मात् पुनर्निर्दिष्टम्)

श्रीरघूत्तमतीर्थश्रीपादः भारतीयः तत्त्वज्ञः यतिः च आसीत् | ते भावबोधाचार्यः इति नाम्ना अपि प्रसिद्धः आसन् | असौ द्वैततत्त्वप्रतिपादकः उत्तरादिमठसंस्थानस्य चतुर्दशतमः पीठाधिपतिः आसीत्| अनेन श्रीमन्मध्वाचार्यः श्रीजयतीर्थः आदिभिः विरचितानां ग्रन्थानां उपरि भाष्यानि लिकितानि |


जीवनकालम्

[सम्पादयतु]

श्रीपादमहोदयस्य जन्म कर्णाटकप्रान्तस्य मलखेड् इति ग्रामे एकस्मिन् ब्राह्मणपरिवारे अभवत् | तेषां माता गङ्गाबाई पिता ग्रामस्य भूमिपतिः सुब्बभट्टः च | बाल्ये रामचन्द्रः इति नाम आसीत् महोदयस्य | एकदा उत्तरादिमठसंस्थानस्य पीठाधिपतिः श्रीरघुवर्यतीर्थमहोदयः भिक्षाटनार्थं मण्णूरु ग्रामं आगच्छत् | सुब्बभट्ट-गङ्गाबाई दम्पतिः यादा पुत्रहीनः आसीत् तदा तौ श्रीरघुवर्यतीर्थमहोदयं पूजयित्वा एव असौ सुपुत्रं प्राप्तवन्तौ | एतदर्थं तं रामचन्द्रं श्रीरघुवर्यतीर्थमहोदयं समर्पयन्तः स्म | रघुवर्यतीर्थेन पालितः रामचन्द्रः यदा सप्तवर्षीयः आसीत् तदा उपनयनं कृत्वा सन्यासदीक्षां स्वीकृतवान् | सन्यासाश्रमं प्रविष्य तु महोदयः "रघूत्तमतीर्थः" इति नाम्ना ज्ञायते स्म | अस्मिन् काले महोदयेन श्रीमान् आद्यवरदाचार्यः नाम पण्डितस्य निदेशे उपनिशत् , वेदान्तः, न्यायसुधादि ग्रन्थाः प्राधिगताः |

१५५७ तमे वर्षे श्रीरघुवर्यतीर्थश्रीपादस्य विष्णुपादप्राप्तिरनन्तरं श्रीरघूत्तमतीर्थश्रीपादः उत्तरादिमठमहासंस्थानस्य पीठाधिपतेः रूपे कार्यं आरब्धवान् | अस्मिन् वेलायां संस्थाने आध्यात्मिकी तथा लोकायिका सम्पदं प्रभूत्प्रमाणे वर्धिता आसीत् | सर्वत्र स्र्वदा च महोदयस्य आदरं राजासन-मुकुट-पुंयान-छत्र-चामर-ध्वज-पुष्पैः सह कृतवत् आसीत् | श्रीपादमहोदयेन भक्तानां हिताय अनेके चमत्काराः कृताः |

६० वर्षपर्यन्तं संस्थानस्य नेतृत्वं निर्वहन् श्रीरघूत्तमतीर्थश्रीपादः १५९५ तमे वर्षे स्वशिष्यं श्रीवेदव्यासतीर्थश्रीपादं प्रदाय पौषमासस्य शुक्लपक्षस्य एकादशिदिने बृन्दावनं प्रविष्टवान् | अद्यापि तमिळ्नाडुप्रान्तस्य तिरुकोविल्लूरु नगरेस्थः तेषां बृन्दावनं द्रष्टुं आराधयितुं च सहस्राः जनाः यान्ति |



कृतिनामविषयम्
विष्नुतत्त्वनिर्णय भावबोधश्रीजयतीर्थविरचितविष्नुतत्त्वनिर्णयटीकायाः भाष्यं
तत्त्वप्रकाशिक भावबोधश्रीजयतीर्थविरचिततत्त्वप्रकाशिकायाः भाष्यं
न्यायविवरण भावबोधश्रीमन्मध्वाचार्यविरचितन्यायविवरणस्य भाष्यं
न्यारत्नसम्बन्धदीपिकाअनुब्याख्यानम् अस्य भाष्यं
ब्रिहदारण्यक भावबोधश्रीमन्मध्वाचार्यविरचितब्रिहदारण्यकोपनिशदभाष्यं अस्य भाष्यं
गीताभाष्यभावबोधश्रीजयतीर्थविरचितगीताभाष्यप्रमेयदीपिका अस्य भाष्यं
विवरणोध्धारश्रीजयतीर्थविरचिततत्त्वप्रकाशिकायाः न्यायविवरण विषये लेखनम्
सन्यायविवृत्तिश्रीपद्मनाभतीर्थविरचितसन्यायरत्नावलिः अस्य भाष्यं
तैत्तरीयविनिर्णयश्रीमन्मध्वाचार्यविरचिततैत्तरीयोपनिशिदभाष्यम् अस्य भाष्यं
तारतम्य स्तोत्रम्स्तोत्रम्
"https://sa.wikipedia.org/w/index.php?title=रघूत्तमतीर्थः&oldid=493541" इत्यस्माद् प्रतिप्राप्तम्