विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विकिपीडिया:सर्वाङ्गपूर्णः लेखः इत्यस्मात् पुनर्निर्दिष्टम्)

कश्चित् लेखः सर्वाङ्गपूर्णत्वं भजते, यदि सः लेखः-[सम्पादयतु]


मध्यावकाशान् पूरयति- नाम तस्मिन् विषये विद्यमानाः अन्ये लेखाः वर्णनार्थम् एकांशं कञ्चित् गृह्णन्ति चेत्, अयं लेखः सर्वान् अंशान् गृह्णाति।

उत्तमं शीर्षकं धारयति- येनायम् अन्यैः लेखैः सह सम्बद्धीकर्त्तुं शक्यते, अपि च नामपद्धतिम् अनुसरेत्।

स्वविषयस्य स्पष्टवर्णनेन सह समारभते- अस्य लेखस्य अग्र्ये परिच्छेदे, विषयश्च तस्य अर्थवत्ता च स्पष्टतया, शुद्धतया च भवेत्, परन्तु नाधिकेन विस्तरेणापि।

अवगम्यः स्यात्- लेखोऽयं विशेषज्ञेभ्यः अविशेषज्ञेभ्यश्च स्पष्टत्वेन व्यञ्जितं स्यात्। तदर्थं यथेष्टः विस्तारः स्यात्- विषयमधिकृत्य गहनम् अन्वेषणं स्यात् व्याख्या च भवितव्या।

प्रायेण स्वयम्पूर्णः स्यात्- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थम् अन्यः लेखः प्रायेण न अपेक्ष्येत।

शाखावत् बहिर्विस्तारः स्यात्-एतस्मिन् लेखे अन्यान् लेखान् प्रति सम्पर्कतन्तूनि भवन्ति, अन्येषाम् उपयोगि-लेखानां च उल्लेखः भवति। बाह्यस्रोतसां च सूचना भवति येन विषयस्य तस्य अधिकम् अध्ययनं कर्त्तुं साहाय्यं प्राप्येत।

शाखाभिः सम्प्राप्यः स्यात्- अन्यान्यपि विकिपृष्ठानि तत्र भवितव्यानि यत्र एतं लेखं प्रति सम्पर्कतन्तूनि विद्येरन्।

विषयस्य सर्वान् आयामान् अनुमन्यते अन्विष्यते च- विश्वकोशदृष्ट्या विषयस्य तस्य सर्वान् आयामान् सम्यक् वर्णयेत्।

सर्वथा तटस्थतया निष्पक्षतया च वर्तेत- तस्य तटस्थं दृष्टिस्थानं स्यात्। नाम तत्र विवादानधिकृत्य परस्परस्पर्धिदृष्टिकोणाः तार्किकरूपेण निष्पक्षरूपेण च प्रस्तुताः स्युः। तस्मिँल्लेखे सर्वेऽपि पक्षाः सूचिताः भवन्ति, न कोऽपि पक्षश्च अनुचितरूपेण समर्थितो भवति। एवं सत्यपि तथ्यान्विततमाः सुस्वीकृताश्च दृष्टिकोणाः प्रबलीकृताः भवन्ति तत्र, अल्पस्वीकृताश्च पक्षाः गौणतया उल्लिख्यन्ते; तत्रापि सुपर्याप्ता सूचना स्रोतांसि (सन्दर्भाः) च स्युः, येन पाठकाः दृष्टिकोणविशेषम् (मतविशेषम्) अधिकृत्य अधिकं ज्ञातुं शक्नुयुः।

समीचीनतया दीर्घः स्यात्- एतस्य दीर्घता समीचीना स्याद् येनात्र सुपर्याप्ता सूचना, गहनता, विषयविश्लेषणं च वर्तेत, न पुनः फल्गु विस्तारः स्यात्। या सूचना उपलेखेषु, समबन्धितेषु वा लेखेषु, इतरेषु वा विकिप्रकल्पेषु स्थातुम् अर्हति सा तत्रैव स्यात्।

विशेषज्ञानां ज्ञानं प्रकाशयेत्- अयं तथ्यमूलकं स्यात्, तथा च सुष्ठु-विद्वत्तापूर्णेषु तर्कसम्मतेषु च सिद्धान्तेषु आश्रितः स्यात्।

परिशुद्धः स्फुटश्च स्यात्- नैतस्मिन् अस्पष्टानि सामान्यीकृतकथनानि स्युः, न च अर्द्धसत्यानि, यानि तु विषयस्य अर्द्धज्ञानाद् उद्भवन्ति प्रायः।

सम्यक् अभिलेखोपेतः स्यात्; सर्वेऽत्र तथ्यानि मतानि च प्रतिष्ठितेभ्यः स्रोतोभ्यः उद्धृतानि स्युः, स्रोतांसि च सम्प्राप्यानि स्युः अद्यावधि स्थित्यनुसारीणि च स्युः। तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः।

स्पष्टः स्यात्; द्व्यर्थितां निवार्य तिष्ठेत्, न तत्र दुरवगमनं स्यात्। तर्कसम्मता तस्य संरचना भवितव्या, सरला स्पष्टा च तस्य गद्यभाषा स्यात्; अनुपयोगिपदानि तत्र न स्युः।

मनोरमोऽपि स्यात्- तस्य भाषा वर्णनात्मिका स्यात्, स्वरश्च तस्य रुचिकरः विश्वकोशार्हश्च स्यात्।

भाषायाः प्रामाणिकरूपम् अनुसरेत्, नाम तस्मिन् व्याकरणसम्मतता स्यात्। लकाराणां प्रयोगः समः स्यात्। विरामचिह्नानि, आनुपूर्व्यः, पदविन्यासाश्च समाः स्युः।

सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)।

सुतरां वर्गीकृतः स्यात् येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्।

यथाशक्यम् अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः

न पूर्णतया सम्प्राप्तुं शक्यते। सम्पादनेभ्यः लेखः कश्चित् सर्वाङ्गपूर्णत्वम् उपगन्तुं शक्नोति, परन्तु भिन्नेभ्यः प्रयोक्तॄभ्यः सर्वाङ्गपूर्णत्वम् इत्येतस्य भिन्नोऽर्थः स्यात्। तस्मात् सर्वाङ्गपूर्णः लेखः प्राप्तुं सदा प्रयतितव्यम् इति।