मलेरियारोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(शीतज्वरः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Anopheles stephensi.jpeg

मलेरिया कश्चन रोगविशेषः । एषः सांक्रामिकः रोगः भवति । प्लास्मोडियंजातीयः प्रोटोसोवन्-जीवाणुः अस्य रोगस्य कारणीभूतः जीवाणुः । पञ्चजातीयप्लास्मोडियं जीवाणवः मनुष्यस्य मलेरियारोगस्य कारणीभूताः भवन्ति । मलेरियारोगस्य तीव्रतायाः कारणीभूतः भवति प्लास्मोडियं फाल्सिपारम् जीवाणुः । सामान्यतया एषः मारणान्तिकः रोगः न । प्लास्मोडियं न्यूलेसिमक्याक् जीवाणुः मर्कटेषु मलेरियारोगस्य कारणीभूतः भवति । एषः रोगः अमेरिकाखण्डस्य केषुचित् प्रदेशेषु, एष्या, आफ्रिकादिषु उष्णवलयेषु प्रसारितः अस्ति । प्रतिवर्षं सामान्यतया ३५०-५०० दशलक्षजनाः रुग्णाः भवन्ति । दशलक्षतः त्रिंशल्लक्षपर्यन्तं जनाः अनेन रोगेण मरणं प्राप्नुवन्ति । एतेषु अधिकाः आफ्रिकाखण्डस्य उपसहाराप्रान्तस्य जनाः । तत्रापि शिशवः अधिकसङ्ख्याकाः । सामन्यतया अनाफिलिस् इति स्त्रीमशकः दशति चेत् अनेन रोगेण पीडिताः भवन्ति । अस्य रोगस्य कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु मनुष्येषु रक्ताल्पता (अनीमिया), श्वासोच्छ्वासे क्लेशः (ट्याकिकार्डिया), हृदयस्पन्दनाधिक्यम् इत्यादीनि विशिष्टानि रोगलक्षणानि भवन्ति । एतैः सह ज्वर-शैत्यादीनि लक्षणानि च दृश्यन्ते ।

रोगलक्षणानि[सम्पादयतु]

मलेरियारोगस्य कानिचन लक्षणानि सन्ति । तानि ज्वरः, कम्पनम् (आर्थाल्जिया), सन्धिवेदना, रक्ताल्पता, अशक्तता, हिमोग्लोबिनूरिया इत्यादीनि । अस्य रोगस्य मख्ये लक्षणे वैव्याक्स्, ओवेले च । दिनद्वये एकवारं ४ तः ६ घण्टाः यावत् शीतज्वरादिकम् भवति । फाल्सिप्यारं ज्वरः ३६-४८ घाण्टासु एकवारम् आगच्छति । मलेरियारोगेण स्मरणशक्तिः न्यूना भवति । नरदोषः अपि भवति । मस्तिष्कमलेरियालक्षणम् अक्षिपटले श्वेतवर्णे भवतः । तीव्रमलेरिया फाल्सिप्यारं द्वारा उत्पद्यते । ६-१४ दिनानन्तरम् अस्य लक्षणानि दृश्यन्ते । चिकित्सा न प्राप्यते चेत् मरणं भविष्यति । शिशवः एवं गर्भिणीस्त्रियः च अधिकतया पीडिताः भवन्ति । मूत्रपिण्डयोः वैफल्यं दृश्यते अनेन रोगेण ।

जातिः रूपम् ज्वरस्य आवर्तनम् यकृतौ प्रत्यावर्तते किम् ?
प्लास्मोडियम्-वैव्याक्स्
Plasmodium vivax 01.png
दिनत्रये एकवारम् सत्यम्
प्लास्मोडियम्- ओवले
Plasmodium ovale 01.png
दिनत्रये एकवारम् सत्यम्
प्लास्मोडियम्-फाल्सिप्यारम्
Plasmodium falciparum 01.png
दिनत्रये एकवारम्
प्लास्मोडियम्-मलेरिया
Mature Plasmodium malariae schizont PHIL 2715 lores.jpg
दिनचतुष्टये एकवारम्

कारणानि[सम्पादयतु]

फैलम्-एपिकाम्प्लेक्सा मध्ये विद्यमान प्लास्मोडियम् जात्यासहिताः प्रोटोसोवन् परजीवाणवः अस्य रोगस्य कारणीभूताः भवन्ति । मनुष्येषु, मलेरियारोगस्य फाल्सिप्यारम्, मलेरिये, ओवले, वैव्याक्स्, न्योलेसि परजीवाणवः कारणीभूताः भवन्ति । अस्य रोगस्य संक्रमणाय प्रमुखः परजीवाणुः फाल्सिप्यारम् भवति । प्लास्मोडियं परजीवाणुः सरिसृप-पक्षि-मर्कट-दंशकप्राणिषु च संक्रमणं करोति । मर्कटे विद्यमानाः मलेरियासम्बद्धाः केचन संक्रमिकरोगाः मनुष्येषु सङ्क्रमन्ते इति ।

रोगोत्पत्तिः[सम्पादयतु]

रोगलक्षणानि

मनुष्येषु मलेरियारोगः द्विधा उत्पद्यते (सङ्क्रमितः भवति) । एक्सोएरिथ्रोसिटिक्-मलेरियारोगः एरिथ्रोसिटिक्-मलेरियारोगः च इति । एक्सोएरिथ्रोसिटिक् स्थरः यकृत् तथा अस्य व्यवस्थायां सङ्क्रमितः भवति । एरिथ्रोसिटिक् स्तरः रक्तकणेषु सङ्क्रमितः भवति । रोगसंक्रमितः मशकः यदा व्यक्तिं दशति तदा तस्य लालारसे विद्यमानाः स्पोरोजोवाय्ट्जीवाणवः रक्ते प्रविश्य यकृत् प्रविशन्ति । ३० निमेषेषु स्पोरोजोवाय्ट्-अणवः हेपटोसैट्-कणेषु संक्रमिताः भवन्ति । ६तः १५ दिनेषु रोगलक्षणं विना स्वसंख्यां (रोगाणवः) वर्धयन्ति । यकृत्-प्रविश्य विभिन्नतया सहस्रसंख्यया मिरोजोवाय्ट्-अणवः उत्पत्स्यन्ते । यकृदः अन्तर्भागे जीवाणवः संलग्नाः भवन्ति । परीक्षा समये न लक्ष्यन्ते । परजीवाणवः रक्ते संक्रमिताः भवन्ति । परजीवाणवः मिरोजोवाय्ट्-जीवाणवश्च एकस्मिन् काले बहिरागत्य ज्वरबाधाम् उत्पादयन्ति । केचन मिरोजोवाय्ट्-जीवाणवः पुरुष-स्त्रीगेमेटोसैट्-रूपेण परिवर्तिताः भवन्ति । यदा मशकाः मनुष्यं दंशन्ति तदा रक्ते विद्यमानान् गेमेटोसैट्-जीवाणून् आकर्षयन्ति ।

रोगनिर्णयः[सम्पादयतु]

१८८० तमे वर्षे ’चार्ल्स लावेरन्’ नामकः प्रप्रथमतया रक्ते परजीवाणून् संशोधितवान् । रक्तपरीक्षा तु सूक्षदर्शकयन्त्रस्य सहायेन क्रियते । अनया परीक्षया एव मलेरियारोगस्य अस्तित्वं ज्ञातं भवति । आफ्रिकादेशे ज्वरं (रक्तनञ्जस्य) आघातं च सामन्यतया तीव्रमलेरीया इति अन्यथा निर्णयन्ति । मारणान्तिकरोगाणां चिकित्सायाः वैफल्याय एषः निर्णयः कारणीभूतः इति । तीव्रमलेरियारोगस्य निर्णयार्थं “प्यारासिटेमिया(रोगः)” एव समर्थः इति वक्तुं न शक्यते । किन्तु, प्यारासैटेमियारोगस्य इतरेषां सहवर्तिरोगाणां च लक्षणं भवेदिति । अस्य रोगस्य निर्णयार्थं रक्तपरीक्षा तु आवश्यकी । किन्तु, लालारसस्य मूत्रस्य च पर्यायत्वेनापि परीक्षा क्रियते ।

चिकित्सा[सम्पादयतु]

फाल्सिप्यारम्-संक्रमिताः अस्वस्थाः चेत् चिकित्सालये सत्वरचिकित्सा देया । वैव्याक्स्, ओवले-संक्रमिताः च अस्वस्थाः चेत् सत्वरचिकित्सा अनपेक्षिता किन्तु, बाह्यरोगविभागे चिकित्सां दातुं शक्यते इति । मलेरियाचिकित्सा निरोधकौषधेन संरक्षकक्रमेण च सहिता भवति । सुक्रमेण यदि उपचाराः क्रियन्ते तर्हि अस्वस्थः स्वस्थः भविष्यति ।

रोगनिरोधकनि औषधानि[सम्पादयतु]

मलेरीयारोगस्य नैकानि औषधानि अद्यत्वे लभ्यन्ते । एतेषु औषधेषु परिणामकारि एवं न्यूनमूल्ये लभ्यमानं ’क्लोरोक्विन्’ औषधम् इति । अद्यापि बहुषु देशेषु अस्य उपयोगम् अधिकतया कुर्वन्ति । औषधनिरोधशक्तिसन्ततीनां विरुद्धं चिकित्सां दातुं बीटब्लाकर्-प्रोप्रोनोलाल्-औषधस्य संशोधनं कृतम् इति । प्लास्मोडियं-जीवाणवः रक्तकणान् प्रविश्य रोगस्य संक्रमणं, परजीवाणूनां वृद्धिञ्च कुर्वन्ति । वृद्धिं संक्रमणञ्च प्रोप्रनोलाल्-औषधं निवारकम् अस्ति इति । प्रोप्रनोलाल्-औषधं मलेरिया रोगस्य चिकित्सार्थं बहु उपयुक्तम् इति २००६ तमे वर्षे डिसम्बर्मासे ’नार्थवेस्टर्न् विश्वविद्यालयेन” संशोधितम् अस्ति ।

  • अन्यानि औषधानि-
  1. अर्थेमेतर्-ल्यूमिफेन्ट्रिन् (वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनामनि कार्तेम्,रियमेत् च)
  2. अर्तेसुनेट्-अमोडियक्विन् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति।)
  3. अर्तेसुनेट्-मेल्प्लोक्विन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
  4. अर्तेसुनेट्-सल्फडाक्सिन्/पैरिमेथमैन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
  5. अटोवकोन्-प्रोग्वनिल् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम् ’मेलरोन्’ इति)
  6. क्विनैन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
  7. क्लोरोक्विन् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति। अस्य प्रभावः अल्पः)
  8. कट्रिफजिड् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति।)
  9. डाक्सिसैक्लिन् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति।)
  10. मेल्प्लोक्विन् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम ’ल्यारियम्’ )
  11. प्रैमक्विन्
  12. प्रोग्वनिल्
  13. सल्फडाक्सिन्-पैरिमेथमैन् (गर्भिणीस्त्रीणां कृते रोगनिरोधकरूपचिकित्सायाम् उपयोगं कुर्वन्ति)
  14. हैड्राक्सिक्लोरोक्विम् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम ’प्लक्वेनिल्’ )

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मलेरियारोगः&oldid=356787" इत्यस्माद् पुनः प्राप्तिः