सुभद्रा कुमारी चौहान

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(सुभद्राकुमारी चौहान इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


सुभद्रा कुमारी चौहान ( ( शृणु) /ˈsʊbhədrɑː kʊmɑːr xɔːhɑːnə/) (हिन्दी: सुभद्रा कुमारी चौहान, आङ्ग्ल: Subhdra Kumari Chauhan)हिन्दीभाषासाहित्यस्य एका सुप्रसिद्धा कवयित्री, लेखिका च । तया काव्यसङ्ग्रहद्वयं, कथासङ्ग्रहत्रयं च लिखितम् । किन्तु ’झांसी की रानी’ इत्यस्मै काव्याय सा जनेषु प्रसिद्धा जाता । तया भारतदेशस्य स्वतन्त्रतायाः आन्दोलने अपि भागः गृहीतः । आन्दोलनसमये कारावासस्य यातनाः अपि तया असह्यन्त । तदनन्तरं तया तासां यातनानाम् अनुभूतयः अपि स्वेन रचितासु कथासु वर्णिताः । तस्याः भाषाशैली सरला काव्यात्मिका च अस्ति । अतः तस्याः काव्यानि कथाः च हृदयङ्गमाः सन्ति ।

जन्म, परिवारश्च[सम्पादयतु]

सुभद्रा कुमारी चौहान इत्यस्याः जन्म १९०४ तमस्य वर्षस्य अगस्त-मासस्य १६ तमे दिनाङ्के (१६/०८/१९०४) उत्तरप्रदेशराज्यस्य इलाहाबादमण्डलस्य निहालपुर-ग्रामे अभवत् । तस्मिन् दिवसे नागपञ्चमी-उत्सवः आसीत् । तस्याः पितुः नाम रामनाथसिंह आसीत् । सः भूमिपतिः (ज़मीनदार) आसीत् । तस्याः तिस्रः भगिन्यः, द्वौ भ्रातरौ च आस्ताम् ।

बाल्यं, शिक्षणं च[सम्पादयतु]

शिक्षणप्रेमिणः पितुः मार्गदर्शने सुभद्रायाः प्रारम्भिकं शिक्षणं सम्पन्नम् । तया क्रास्थवेट् गर्ल्स् कॉलेज् इत्यत्र शिक्षणं प्राप्तम् । नवमीं कक्षां यावत् एव तया शिक्षणं प्राप्तम् । काव्यरचनायां तस्याः अभिरुचिः आसीत्,अतः बाल्यकालादेव तया अनेकानि काव्यानि रचितानि । तेषु काव्येषु ’सुभद्राकुंवरी’ नामकं प्रथमं काव्यं सुभद्रया १९१३ तमे वर्षे रचितम् । ’मर्यादा’ नामिकायां साप्ताहिक्यां तस्य काव्यस्य प्रकाशनम् अभवत् । तदा सा नववर्षीया एव आसीत् । सुभद्रा चञ्चला कुशाग्रबुद्धिमती आसीत् । तस्मात् हेतोः कक्षायां छात्रेषु प्रथमं क्रमाङ्कं प्राप्नोति स्म । तीक्ष्णबुद्धिबलेन तया पुरस्काराः अपि प्राप्ताः । तीक्ष्णबुद्धियुता सुभद्रा द्रुततरं न्यूनप्रयासेन एव काव्यानि रचयितुं शक्नोति स्म । विद्यालयस्य गृहकार्ये यदि काव्यलेखनस्य कार्यं भवति तर्हि विद्यालयात् गृहपर्यन्ते मार्गे एव सा काव्यरचनां करोति स्म ।

विवाहः[सम्पादयतु]

१९१९ तमे वर्षे खण्डवा-नगरस्य ठाकुर लक्ष्मणसिंह इत्यनेन सह सुभद्रायाः विवाहः अभवत् । जबलपुर-नगरे माखनलाल चतुर्वेदी नामकः सम्पादकः ’कर्मवीर’ नामकस्य पत्रस्य प्रकाशनं करोति स्म । तस्यां संस्थायाम् एव लक्ष्मणसिंहः वृत्तिं (job) प्राप्तवान् । अतः लक्ष्मणसिंहः मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसाय आगतवन्तौ । श्वश्रोः अनुशासने सुभद्रा केवलं गृहिणी इव निवसितुं नेच्छति स्म । तस्याः हृदये समाजाय देशाय च कार्याणाम् उत्साहः, तेजः च आसीत् । किन्तु श्वसुरालये किमपि सम्भवं नासीत् । सुभद्रायाः लेखनस्य प्रतिभां दृष्ट्वा लक्ष्मणसिंहः अपि अस्मिन् कार्ये साहाय्यं करोति स्म । लक्ष्मणसिंहः सुभद्रायाः सफलतायै बहून् प्रयत्नान् करोति स्म । अतः सा पत्या सह जबलपुर-नगरम् आगतवती । तत्र सा पुत्रीद्वयं, पुत्रत्रयं च अजीजनत् । १ सुधा चौहान, २ अजय चौहान, ३ विजय चौहान, ४ अशोक चौहान, ५ ममता चौहान च । तेषु सुधा, अजयः, विजयः, अशोकः च मृतः । किन्तु ममता चौहान वर्तमाने न्युयॉर्क-नगरे निवसति । अजय-विजय इत्येतयोः पत्न्यौ वर्तमाने मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसतः ।

स्वतन्त्रतायां योगदानम्[सम्पादयतु]

सुभद्रा बाल्याकालादेव निर्भया, साहसी, विद्रोहिणी च आसीत् । सा बाल्यकालादेव अशिक्षा- अन्धविश्वासेत्यादीनां विरोधं कृतवती । विवाहानन्तरम् अपि समाजसेवायै, देशसेवायै च कार्यरता आसीत् । स्वस्याः व्यक्तिगतस्वार्थं विहाय देशसेवायै संलग्ना अभवत् । माखनलालचतुर्वेदिनः मार्गदर्शने सुभद्रा स्वतन्त्रतायाः राष्ट्रिये आन्दोलने कार्यरता आसीत् । विवाहस्य सार्धवर्षानन्तरं सुभद्रा महात्मगान्धीमहोदयस्य असहयोगान्दोलने भागं गृहीतवती । तस्मिन् आन्दोलने तस्याः महद् योगदानम् आसीत् । सा तस्मिन् आन्दोलने प्रथमा महिला क्रान्तिकारिणी आसीत् । द्विवारं सा कारागारम् अपि गतवती । सा स्वकाव्यैः स्वतन्त्रतायाः आन्दोलनस्य नेतृत्वम् उद्दीपितवती ।

१९२०-२१ तमे वर्षे सुभद्रा लक्षमण सिंह इति इमौ अखिल भारतीय कॉङ्ग्रेस कमेटी इत्यस्य पक्षस्य सदस्यौ अभवताम् । नागपुर कॉङ्ग्रेस अधिवेशन इत्यस्मिन् अपि तौ भागं गृहीतवन्तौ । तौ प्रतिगृहे कॉङ्ग्रेस-पक्षस्य प्रचारं कुरुतः स्म । इमां समाजसेवां कर्तुं सामान्यव्यक्तित्वस्य आवश्यकता वर्तते । किन्तु सुभद्रायाः जीवनं सामान्यम् एव आसीत् । अतः सा श्वेतखादी इत्यस्य शाटिका धरति स्म । एकदा साधारणवेशाभूषायां दृष्ट्वा महात्मा गान्धी सुभद्रां पृष्टवान् – भगिनि ! भवत्याः विवाहः अभवत् ? सुभद्रा अकथयत् – आम् । तदा महात्मा खिन्नः जातः । महात्मा उक्तवान् – किमर्थं भवती श्वेतवस्त्रं धरति ? हस्ते कङ्कणानि अपि न सन्ति ? मस्तके सिन्दूरम् अपि नास्ति ? खिन्नः सन् महात्मा अवदत् – श्वः तान् अलङ्कारान्, शाटिकां च धृत्वा एव आगच्छतु इति । सुभद्रायाः मनः स्नेहि, स्वभावेन निश्छलञ्च आसीत् । अतः सर्वे तस्याम् अस्निह्यन् । स्वतन्त्रायाः कार्ये अपि जनाः तस्याः सम्माननं कुर्वन्ति स्म ।

१९२२ तमे वर्षे जबलपुर-नगरे झण्डासत्याग्रहनामकः भारतदेशस्य प्रथमः सत्याग्रहः अभवत् । तस्मिन् सत्याग्रहे सुभद्रा प्रथमा महिला सत्याग्रहिणी आसीत् । सत्याग्रहे प्रतिदिनं गोष्ठ्यः भवन्ति स्म । गोष्ठीसु क्रान्तिकारिणः स्वतन्त्रतायै जनान् बोधयितुं भाषणं कुर्वन्ति स्म । सुभद्रा अपि गोष्ठीसु भाषणं करोति स्म । तेन कारणेन टाईम्स् ऑफ् इण्डिया इत्यस्य समाचारपत्रस्य वृत्तान्तलेखकेन स्वस्य लेखे ’लोकल सरोजिनी’ इति नाम्ना सुभद्रायाः उल्लेखः कृतः ।

१९१७ तमे वर्षे अमृतसर-नगरे जलियावाला नामके उद्याने हत्याकाण्डः अभवत् । अस्य हत्याकाण्डस्य प्रभावः सुभद्रायाः मनसि अभवत् । तेन कारणेन तया त्रीणि आग्नेयकाव्यानि लिखितानि । तेषु काव्येषु ’जलियावाला बाग में वसन्त’ इत्यस्मिन् काव्ये तया लिखितं यत् –


परिमलहीन पराग दाग-सा बना पडा है
हा! यह प्यारा बाग खून से सना पड़ा है।
आओ प्रिय ऋतुराज ! किन्तु धीरे से आना
यह है शोक स्थान यहाँ मत शोर मचाना।
कोमल बालक मरे यहाँ गोली खा-खाकर
कलियाँ उनके लिए गिराना थोड़ी लाकर ।

भारतदेशाय प्रेम सुभद्रायाः मनसि तु अस्ति किन्तु काव्ये अपि प्राप्यते । १९२० तमे वर्षे यदा महात्म गान्धीमहोदयस्य नेतृत्वे आन्दोलनानि चलन्ति आसन्, तदा सुभद्रा लक्ष्मणसिंहः इत्येतौ द्वौ स्वतन्त्रता-आन्दोलने जागरूकौ आस्ताम् । देशसेवायै द्वाभ्यां महान्ति कार्याणि कृतानि ।

कृतयः[सम्पादयतु]

सुभद्रा कुमारी चौहान इत्यनया स्वस्य जीवने ८८ काव्यानि, ४६ कथाः च रचिताः सन्ति । ’झांसी की रानी’ नामकं तस्याः एकं सुप्रसिद्धं काव्यम् अस्ति । तेन कारणेन सा प्रख्याता जाता । किन्तु तेन काव्येन तस्याः अन्याः रचनाः गौणाः अभवन् ।यतः कस्यापि लेखकस्य एका रचना यदि बहुचर्चिता भवेत् तर्हि शेषाः रचनाः प्रायः गौणाः भवन्ति इति बहुमतम् । यथा चलचित्रजगति प्रसिद्धेन अभिनेत्रा अमिताभबच्चन इत्यनेन अपि नैकानि काव्यानि रचितानि सन्ति । किन्तु तस्य ’मधुशाला’ नामकं काव्यं जनेषु बहुप्रसिद्धम् अस्ति । अतः तस्य अन्यानि काव्यानि गौणानि अभवन् ।

सुभद्रा हिन्दीसाहित्यजगति लोकप्रिया सुप्रतिष्ठिता व्यापृता च वर्तते । १९३० तमे वर्षे तया ’मुकुल’ नामकः काव्यसङ्ग्रहः रचितः आसीत् । तस्याः लोकप्रियता बहु आसीत् । अतः तस्य काव्यसङ्ग्रहस्य षष्ठसंस्करणं तस्याः जीवनकाले एव प्रकाशितम् । तया विशिष्टानि चयनीयानि काव्यानि ’त्रिधारा’ नामके काव्यसङ्ग्रहे प्रकाशितानि । तेषु ’झांसी की रानी’ वर्तमाने अपि जनेषु बहुप्रसिद्धम् अस्ति । राष्ट्रियान्दोलने संलग्ना सती सा बहुवारं कारागारं गतवती । किन्तु तथापि तया त्रयः कथासङ्ग्रहाः रचिताः ।

१९३२ तमे वर्षे सुभद्रा कुमारी चौहान इत्यनया रचितः ’बिखरे मोती’ नामकः प्रथमः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् कथासङ्ग्रहे (१)भग्नावशेष, (२)होली, (३)पापी पेट, (४)मंझली रानी, (५)परिवर्तन, (६)दृष्टिकोण, (७)कदम के फूल, (८)किस्मत, (९)मछुये की बेटी, (१०)एकादशी, (११)आहुति, (१२)थाती, (१३)अमराई, (१४)अनुरोध, (१५)ग्रामीणा च एताः पञ्चदश-कथाः सन्ति । एतासां कथानां भाषा सरला, व्यावहारिकी च वर्तते । एतासु अधिकतमाः कथाः नारीविमर्शे आधारिताः सन्ति ।

१९३४ तमे वर्षे तस्याः ’उन्मादिनी’ नामकः द्वितीयः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् (१)उन्मादिनी, (२)असमञ्जस, (३)अभियुक्त, (४)सोने की कण्ठी, (५)नारी हृदय, (६)पवित्र ईर्ष्या, (७)अङ्गुठी की खोज, (८)चढा दिमाग, (९)वेश्या की लडकी इत्येताः नव-कथाः सन्ति । एतासु कथासु पारिवारिकाणि सामजिकानि च परिदृश्यानि वर्तन्ते ।

१९४७ तमे वर्षे ’सीधे-सादे चित्र’ नामकः तृतीयः कथासङ्ग्रहः प्रकाशितो जातः । अयं तस्याः अन्तिमः कथासङ्ग्रहः आसीत् । रूपा, कैलाशी नानी, बिआल्हा, कल्याणी, दो साथी, प्रोफेसर मित्रा, दुराचारी, मङ्गला च इत्येतासु कथासु स्त्रीणां कुटुम्बस्य, समाजस्य च समस्याः सन्ति । हीङ्गवाला, राही, ताङ्गे वाला, गुलाबसिंह इत्येताः कथाः राष्ट्रियविषयेषु आधारिताः सन्ति ।

सुभद्रया स्वस्याः काव्येषु भारतीयसंस्कृतेः प्राणतत्वानां, धर्मनिरपेक्षसमाजस्य निर्माणाय, साम्प्रदायिकस्य सद्भावस्य वातावरणस्य निर्माणाय अपि प्रयत्नाः कृताः सन्ति –


“मेरा मन्दिर, मेरी मस्जिद, काबा काशी यह मेरी ।
पूजा पाठ, ध्यान जप-तप है घट-घट वासी यह मेरी ।
कृष्णचन्द्र की क्रीडाओं को, अपने आँगन में देखो ।
कौशल्या के मातृमोद को, अपने ही मन मे लेखो ।
प्रभु ईसा की क्षमाशीलता, नबी मुहम्मद का विश्वास
जीव दया जिन पर गौतम की, आओ देखो इसके पास” ।

काव्येषु देशप्रेम[सम्पादयतु]

सुभद्रया रचितं ’वीरों का कैसा हो वसन्त’ नामकं काव्यं प्रसिद्धम् अस्ति । तस्मिन् काव्ये देशाय जोषः दृश्यते । तस्य काव्यस्य शब्दरचना, भावगाम्भीर्यं च अद्भुतम् अस्ति । स्वदेश के प्रति, विजयादशमी, विदाई, सेनानी का स्वागत, झांसी की रानी की सधि मापर, जलियांवाले बाग में बसन्त इत्यादिषु काव्येषु अपि देशप्रेम दृश्यते ।

काव्येषु राष्ट्रभाषाप्रेम[सम्पादयतु]

राष्ट्रभाषायै अपि तस्याः मनसि प्रेम आसीत् । अतः तया राष्ट्रभाषायाः महत्त्वम् अपि स्वकाव्येषु प्रदर्शितम् अस्ति । ’मातृ मन्दिर में’ इति नामके काव्ये तस्याः विचाराः दृश्यते –


“उस हिन्दू जन की गरविनी
हिन्दी प्यारी हिन्दी का
प्यारे भारतवर्ष कृष्ण की
उस प्यारी कालिन्दी का
है उसका ही समारोह यह
उसका ही उत्सव प्यारा
मैम् आश्चर्य भरी आंखों से
देख रही हूं यह सारा
जिस प्रकार कंगाल बालिका
अपनी मां धनहीता को
टुकडों की मोहताज आज तक
दुखिनी की उस दीना को”

काव्येषु प्रेमानुभुतिः[सम्पादयतु]

सुभद्रायाः जीवनं सरलम् आसीत् । प्रेम एव सुभद्रायाः काव्यानां द्वितीयः आधारस्तम्भः आसीत् । इदं प्रेम द्विमुखि अस्ति । बाल्यप्रेम दाम्पत्यप्रेम च । तृतीयप्रेम्णे तस्याः जीवने स्थानमेव नासीत् ।

बाल्यप्रेम[सम्पादयतु]

बाल्यप्रेमाधारितानि तया अनेकानि काव्यानि रचितानि सन्ति । तासु कवितासु बाल्यजीवनस्य स्मृतयः मधुरतापूर्वकं वर्णिताः सन्ति ।


“बार बार आती है मुझको
मधुर याद बचपन तेरी”
“आ जा बचपन, एक बार फिर
दे दो अपनी निर्मल शान्ति
व्याकुल व्यथा मिटाने वाली
वह अपनी प्राकृत विश्रान्ति”

तानि रचितानि काव्यानि शैशवसम्बन्धीनि सन्ति । तेषु काव्येषु पुत्र्याः अपि प्राधान्यं वर्तते । अतः सुभद्रया एतेषां काव्यानां माध्यमेन भ्रूणहत्यायाः विरोधः कृतः । उच्यते यत् – यदा तस्याः पुत्र्याः विवाहः अभवत्, तदा तया स्वस्याः पुत्र्याः कन्यादानं न कृतम् । सा उक्तवती- ’कन्या काऽपि वस्तु नास्ति’ इति । अतः तस्याः दानं कथं कर्तुं शक्नुमः । एतादृशः विचाराः तस्याः काव्येषु अपि उल्लिखिताः सन्ति ।

दाम्पत्यप्रेम[सम्पादयतु]

दाम्पत्यप्रेमविषयकानि अनेकानि प्रेम-काव्यानि अपि तया रचितानि सन्ति । तेषु” आहत की अभिलाषा, प्रेम शृङ्खला, अपराधी है कौन, दण्ड का भागी बनता कौन” इत्यादीनि दाम्पत्यप्रेम-काव्यानि सन्ति । तेषु ’प्रियतम से’ नामके काव्ये दाम्पत्यजीवनस्य कश्चित् अंशः दृश्यते –


जरा-जरा सी बातों पर
मत रूको मेरे अभिमानी
लो प्रसन्न हो जाओ
गलती मैंने अपनी सब मानी
मैं भूलों की भरी पिटारी
और दया के तुम आगार
सदा दिखाई दो तुम हंसते
चाहे मुझसे करो न प्यार

काव्येषु प्रकृतिप्रेम[सम्पादयतु]

सा प्रकृतिप्रिया अपि आसीत् । “ नीम, फूल के प्रति, मुरझाया फूल” इत्यादिषु काव्येषु तया प्रकृतेः विशिष्टवर्णनं कृतम् अस्ति । अतः एव सुभद्रा कुमारी चौहान इत्यस्याः काव्यानि व्यापकानि सन्ति ।

बालकाव्यानि[सम्पादयतु]

सुभद्रायाः हृदये निस्सीमं मातृत्वम् आसीत् । बालकैः प्रेरितया सुभद्रया अनेकानि बालकाव्यानि रचितानि सन्ति । एतेषु काव्येषु राष्ट्रभावः अपि वर्तते । ’सभा का खेल’ अस्मिन् काव्ये अपि क्रीडाभिः राष्ट्रियभावनायाः सा प्रयासं कृतवती -


सभा-सभा का खेल आज हम खेलेंगे,
जीजी आओ मैं गांधी जी, छोटे नेहरु, तुम सरोजिनी बन जाओ ।
मेरा तो सब काम लंगोटी गमछे से चल जाएगा,
छोटे भी खद्दर का कुर्ता पेटी से ले आएगा ।
मोहन, लल्ली पुलिस बनेंगे,
हम भाषण करने वाले वे लाठियां चलाने वाले,
हम घायल मरने वाले ।

अस्मिन् काव्ये बालकानां क्रीडा, गान्धीमहोदयस्य सन्देशः, नेहरुमहोदयस्य च मनसि गान्धीमहोदयाय प्रेम, साम्प्रदायिकैकतायाः विचारः इत्यादीनां विषये सुवर्णितम् अस्ति ।

प्रसिद्धेन हिन्दीभाषायाः कविना गजाननमाधवमुक्तिबोध इत्यनेन सुभद्रायाः प्रशंसा कृता । राष्ट्रियकाव्ये तस्य ख्यातिः विशिष्टा वर्तते ।

नारीसमाजस्य विश्वासः[सम्पादयतु]

प्रसिद्धसाहित्यकारस्य प्रेमचन्द्रस्य पुत्रेण अमृतराय इत्यनेन सह सुभद्रायाः पुत्र्याः सुधा चौहान इत्यस्याः विवाहः अभवत् । अमृतराय स्वयम् एकः सुलेखकः आसीत् । सुधा अपि एका लेखिका आसीत् । तया एव सुभद्रायाः जीवनचरित्रं ’मिला तेज से तेज’ इत्यस्यां रचनायां लिखितम् अस्ति । सुभद्रायाः अधिकतमं जीवनं राजनीतिकार्ये व्यतीतम् । सा नगरस्य पुरातनी कार्यकर्त्री आसीत् ।

१९३०-३१, १९४१-४२ तमे वर्षे जबलपुर-नगरस्य सभासु अनेकाः स्त्रियः सम्मिलिताः अभवन् । तेन कारणेन स्त्रियः जागृताः जाताः । तस्य सम्पूर्णं श्रेयः सुभद्रायाः आसीत् । १९२० तमात् वर्षात् एव सा समाजस्य अनेकेषु कार्येषु संलग्ना अभवत् । तेन कारणेन सा नारीसमाजस्य पूर्णविश्वासं प्राप्तवती ।

कथालेखनम्[सम्पादयतु]

यदा सुभद्रा काव्यानि लिखति स्म, तदा सम्पादकः तेषां काव्यानां धनं न ददाति स्म । सम्पादकः कथानाम् अपेक्षां करोति स्म । अतः सुभद्रया कथालेखनस्य आरम्भः कृतः । सम्पादकः तासां कथानां धनम् अपि ददाति स्म । समाजस्य अनीतिनां वेदनानाम् अभिव्यक्तिः गद्येषु एव भवितुं शक्नोति स्म । अतः सुभद्रा कथाः अलिखत् । तस्याः कथासु देशप्रेम्णा सह समाजस्य विद्रूपता, सङ्घर्षरतायाः नार्याः पीडा च दृश्यते । एकस्मिन् वर्षे एव तया ’बिखरे मोती’ नामकः कथा-सङ्ग्रहः निर्मितः । तस्य सङ्ग्रहस्य प्रकाशनार्थं सा इलाहाबाद-नगरं गतवती । ’बिखरे मोती’ नामकेन कथा-सङ्ग्रहेण सा सेकसरिया-पुरस्कारं प्राप्तवती । तस्याः अधिकतमाः कथाः सत्यघटनाधारिताः सन्ति ।

सुभद्रायाः अन्तिमा रचना[सम्पादयतु]


मैम् अछुत हूं, मन्दिर मेम् आने का मुझको अधिकार नहीं हैं ।
किन्तु देवता यह न समझना, तुम पर मेरा प्यार नहीं हैं ॥
प्यार असीम, अमिट है, फिर भी पास तुम्हारे आ न सकुंगी ।
यह अपनी छोटी सी पूजा, चरणों तक पहुंचा न सकुंगी ॥
इसीलिए इस अन्धकार में, मैं छिपती-छिपती आई हूं ।
तेरे चरणों में खो जाऊं, इतना व्याकुल मन लाई हूं ॥
तुम देखो पहिचान सको तो तुम मेरे मन को पहिचानो ।
जग न भले ही समझे, मेरे प्रभु! मेमन की जानो ॥

इदं काव्यं सुभद्रायाः अन्तिमं काव्यम् आसीत् ।

मृत्युः[सम्पादयतु]

१९४८ तमस्य वर्षस्य फरवरी-मासस्य चतुर्दशे(१४) दिनाङ्के (१४/०२/१९४८) नागपुर-नगरे शिक्षाविभागे एका गोष्ठी आसीत् । सा रेल-यानेन गन्तुम् इच्छति स्म । किन्तु नागपुर-नगरस्थः अधिकारी तां कार-यानेन आगन्तुम् उपदिष्टवान् । गोष्ठ्यानन्तरं १९४८ तमे वर्षे फरवरी-मासस्य पञ्चदशे(१५) दिनाङ्के(१५/०२/१९४८) सा जबलपुर-नगरम् आगन्तुं नागपुरनगरं त्यक्तवती । तस्याः पुत्रः अपि तया सह एव आसीत् । सः कार-यानं चालयति स्म । सहसा कार-यानस्य अग्रे कुक्कुटशावाः आगतवन्तः । सुभद्रा कुक्कुटशावकानां रक्षणार्थं पुत्रम् आदिष्टवती । तेन कारणेन कार-यानस्य एकेन वृक्षेण सह संघट्टः जातः । तस्मिन् दिवसे सुभद्रायाः मृत्युः अभवत् । तदा सा ४४ वर्षीया एव आसीत् ।

सम्माननं, पुरस्कारः च[सम्पादयतु]

  • ’मुकुल’, ’बिखरे मोती’ इत्येताभ्यां काव्यसङ्ग्रहाभ्यां सा सेकसरिया-पुरस्कारः प्राप्तवती ।
  • २००६ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के भारतीयतटरक्षकसेनया सुभद्राकुमारीचौहान इत्यस्याः सम्मानने नूतनतटरक्षकस्य जलयानस्य नाम तस्याः नाम्ना दत्तम् ।
  • १९७६ तमस्य वर्षस्य ऑगष्ट-मासस्य ६ दिनाङ्कात् (०६/०८/१९७६) भारतीय डाक तार विभागेन सुभद्रायाः सम्मानने तस्याः चित्रस्य एका पत्रालयचीटिका चालिता ।
  • जबलपुर-नगरवासिभिः धनं सङ्गृह्य नगरपालिकापरिसरे सुभद्रायाः एका प्रतिमा निर्मापिता । १९४९ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमे दिनाङ्के (२७/११/१९४९) सुभद्रायाः सख्या महादेवी वर्मा इत्यनया तस्याः प्रतिमायाः स्थापना कृता । स्थापनायाः दिवसे भदन्त आनन्द कौसल्यायन, हरिवंशराय बच्चन, डॉ. रामकुमार वर्मा, इलाचन्द्र जोशी इति इमे अपि तत्र उपस्थिताः आसन् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुभद्रा_कुमारी_चौहान&oldid=303322" इत्यस्माद् पुनः प्राप्तिः