सुमित्रा महाजन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१५:३९, १० आगस्ट् २०१७ पर्यन्तं CommonsDelinker (सम्भाषणम् | योगदानानि) (Removing Prime_Minister_Narendra_Modi_interacting_with_a_young_artificial_limb_beneficiary.jpg, it has been deleted from Commons by Jcb becau) द्वारा जातानां परिवर्तनानाम् आवलिः
Sumitra Mahajan
सुमित्रा महाजन
लोकसभा अध्यक्षा
भारतीयः संसदः
इन्दौर लोकसभाक्षेत्रस्य
संसत्सदस्या
पूर्वगमः प्रकाश चन्द्र सेठी
व्यक्तिगत विचाराः
जननम् ११/०४/१९४३ (वयः ७२)
चिपलून, ब्रिटिशराज्यम्
राजनैतिकपक्षः भारतीयजनतापक्षः
अन्यराजनैतिक-
सम्बन्धः
राष्ट्रीय जनतांत्रिक गठबंधन (भारतः)
पतिः/पत्नी जयन्त महाजन
निवासः इंदौर, मध्य प्रदेश
मुख्यशिक्षणम् देवी अहिल्या विश्वविद्यालयः
सुमित्रा महाजन
सुमित्रा महाजन

सुमित्रा महाजन (११ अप्रैल १९४३) [१] भारतीयराजनेतृषु अन्यतमा विद्यते । अद्यत्वे भारतीयसंसदि लोकसभाध्यक्षा पदारूढा । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा (मीरा कुमार २००९ तः २०१४) । सुमित्रा अष्टवारं संसत्सदस्यारूपेण (इन्दौर लोकसभा क्षेत्रे) चिता। सा इन्दौर नगरे सुमित्रा ताई इति नाम्ना प्रसिद्धा ।

बाल्यं, शिक्षा च

१९४३ तमस्य वर्षस्य अप्रैलमासस्य १२ दिनाङ्के महाराष्ट्रराज्यस्य चिपलूननगरे सुमित्रायाः जन्म अभवत् । सा स्नातकोत्तरा एल०एल०बि० (LLB) च इन्दौर-नगरस्थिते इन्दौरविश्वविद्यालये (वर्तमान देवी अहिल्या विश्वविद्यालये) अपठत् । पुस्तकवाचनं, सङ्गीतश्रवणं, गायनं, चलच्चित्रदर्शनं च तस्याः प्रमुखाः ऋचयः सन्ति ।

राजनैतिकजीवनम्

सा १९८९ तमे वर्षे मध्यप्रदेशराज्यस्य पूर्वमुख्यमन्त्री प्रकाश चन्द्र सेठी विरुद्धं प्रथमवारं लोकसभानिर्वाचनं जितवती । सुमित्रा महाजन इत्येषा केन्द्रियमन्त्रिमण्डले (२००२ - २००४) आसीत् । सा मानवसंसाधनमन्त्रित्वेन, सञ्चारविभागमन्त्रित्वेन, पेट्रोलियममन्त्रालयमन्त्रित्वेन च शपथग्रहणम् अकरोत् । सा लोकसभानिर्वाचने सदैव अपराजिता ।

लोकसभा अध्यक्षता

६ जून २०१४ तमे सा निर्विरोधं लोकसभाध्यक्षा चिता । प्रथमवारं भारतीयजनतापक्षस्य कोऽपि सांसदः लोकसभाध्यक्षः अभवत् ।

References

"https://sa.wikipedia.org/w/index.php?title=सुमित्रा_महाजन&oldid=425503" इत्यस्माद् प्रतिप्राप्तम्