यष्टिकन्दुकक्रीडा
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
यष्टिकन्दुकक्रीडा(Hockey) एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा भारतदेशस्य राष्ट्रियक्रीडा वर्तते ।
ऐतिहासिकी पृष्ठभूमिः
[सम्पादयतु]कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् 'दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे 'यष्टि -कन्दुक-क्रीड' या रुपं धारितमभविष्यत् ।
केषाञ्चिद् विशेषज्ञानां मतमस्ति यत् सर्वतः प्रथमं यीशोर्जन्मनः २००० वर्ष् पूर्वं फारसदेशेऽनया क्रीडया साम्यं धारयन्ती काचन क्रीडा क्रीडयते स्म । तत एवेयमन्येषु देशेषु प्रासरत । फारसदेशानन्तरं प्रथमं यूनान-देशेनेयं क्रीडात्मसात् कृता । कियदभ्यश्चिदवर्षेभ्यः पूर्वं तत्र यीशुतः ३०० वर्षपूर्वं चित्रमेकं प्राप्तं यस्मिन द्वौ क्रीडकौ हाकीक्रिडाया (बुली सदृश्यां) आरम्भमुद्रायां दर्शितौ स्तः । तयोर्हस्तयोर्थे यष्टिके वर्तेते ते साम्प्रतिक -हाकी-समाने एवाभूताम् । मध्ययुगे फ्रान्सदेशीया यष्टि कन्दुकक्रीडासदृशमेवैकं क्रीडनं कुर्वन्ति स्म । यस्याभिधानं 'हाहे’ (HOQUE) होकेट इत्यासीत् । तत्रास्य शब्दस्यार्थे 'मेषपालकस्य यष्टिका’ इत्यस्ति । स्काटलैण्डवासिषु क्रीहेयं 'शिण्टी’ (SHINTY) नाम्ना प्रशस्ताऽभूत् । तत्रेयं क्रीडा ८००-६०० वर्षेभ्यः पूर्वं प्रचलिताऽऽसीत् । शनैः शनैः रोमदेशेऽपि प्रावर्तत । रोमनसम्राज इंघ्लैण्डवासिन इमां 'हरबी’ (HURBY) नाम्ना समबोधयन् ।
आधुनिक्या यष्टिकन्दुक- क्रीडायाः क्रीडनं सर्वप्रथमम् इंग्लैण्डे एकोनविशयां शत्यामभवत् । तददेशीये राष्ट्रिय-संग्रहालये तादृशिं चित्राणि समुपलभ्यन्ते यैरनुमीयते यद विजयिनो रोमन-सैनिका इमां क्रीडां चतुर्दश्यां शत्यां क्रीडान्ति स्म । तत्रत्या इमां 'बोण्डी’ (BANDY)ति गदन्ति स्म । अस्या वास्तविकं नाम 'हाकिक' (HAWKIC) अथवा हाककिक (HOCKIC) प्रायः १८३३ ई. वत्सरे प्रवृत्तम् ।
अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् । भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन । १६२५ ई. तोऽग्रे भारतीया अप्यस्यां रुचिमन्तोऽभवन् यद्यपि प्राचीना भारतीया ईदृशीमेव क्रीडामत्र 'खडो -खुड्’ नाम्ना क्रीडन्ति स्म किञ्च पञ्चाम्बुप्रान्त्तेऽस्यां विशिष्य रुचिरवर्तत तथापि राष्ट्रिय- प्रतियोगितासु समावेशादियं कामपि विशिष्टां ख्यातिमर्जयन्ति सर्वत्र प्रासरत् । पंजाबप्रदेशस्य 'संसारपुर' ग्रामं त्वद्यापि 'हाकी नर्सरी’ ति सम्बोधयन्ति 'यतोऽनेके हाकीक्रीडकाः प्रसिद्धिं प्रापन् ।
यष्टिकन्दुकक्रीडायाः प्रकाराः
[सम्पादयतु]१ फील्ड्-यष्टिकन्दुकक्रीडा
[सम्पादयतु]२ ऐस्-यष्टिकन्दुकक्रीडा
[सम्पादयतु]३ रोल्लन्-यष्टिकन्दुकक्रीडा
[सम्पादयतु]४ स्लेड्ज्-यष्टिकन्दुकक्रीडा
[सम्पादयतु]५ स्ट्रीट्(डेक्)-यष्टिकन्दुकक्रीडा
[सम्पादयतु]क्रीडाङ्गणं क्रीडोपकरणानि च
[सम्पादयतु]क्रीडाङ्गणस्यायाम-विस्तार-रेखादिविधानानि
[सम्पादयतु]- (क) क्रीडाङ्गणम् -हाकीक्रीडायाः प्राङ्गणं १०० गजमितमायतं ५५ तः ६० गजमितं च विस्तृतं भवति ।
- (ख) रेखाः आयते रेखे पार्श्च -रेखे बाह्यरेखे वा (साईड-लाइन्स) तथा विस्तृता रेखाः सीमरेखाः (गोल लाइन्स) कथ्यन्ते । सर्वा अपि रेखाः ३ इंच-स्थूला भवन्ति । समस्तस्य क्षेत्रस्य मध्ये एका मध्येरेखा दीयते या क्षेत्र द्वाभ्यां भागाभ्यां विभनक्ति । एवमेव २५-२५ गजयोरन्तरालयोरपि द्वे रेखे विधीयेते ये क्षेत्रस्य चतुर्थाशं स्पष्टयतः ।
- (ग) पताकादण्डाः (फैग पोस्ट) आदि -तदग्र-मद्य-तदग्रान्त्यरेखाणां द्वयोरपि प्रान्तभागयोः पताका -दण्डा निखन्यन्ते येषां प्रलम्बता ४ फुटमिता भवति ।
- (घ) सीम-स्तम्भः (गोल पोस्ट)-सीमरेखयोर्मध्ये ४ गनमितेऽन्तराले द्वौ द्वौ स्तम्भौ निखन्येते ययोरुच्चता सप्त ७ फुटमिता भवति । एतेषां शिखरेष्वनेका यष्टिकाः संलग्ना भवन्ति यासां स्थूलता ३ इंचमिताः क्रियन्ते । उभयोरपि भागयोः सीमस्तम्भयोः पृष्ठे सुदृढे जालिके (नेट) बध्येते ।
- (ङ) सीम-फलकम (गोल पट)सीमस्तम्भयोरन्तवर्तिनि भागे क्रीडाङ्गणं स्पृशदेकैकं काष्ठफलकं संयोज्यते, यस्योच्चता १८ इंचमिता भवति ।
(च) अर्धवृत्तम- (स्ट्राइकिंग सरकल) -उभयोरपि सीमस्तम्भयो १६ गजदूरत एकमर्धवृत्तं विधीयते, यद 'डि’ इति कथ्यते । इदमेकया ४ गजायतया रेखया ३ इंचविस्तृतया रेखायाः १६ गजमितेऽन्तराले भवति । एतदनुसारमेव प्रत्येकं सीम्नः समक्षमेकं वृत्तं च क्रियते । सीमस्तम्भावस्य मध्ये भवतस्तथा सीमरेखां स्पृशतः । (छ) बुल्ली-स्थानम् -मध्यरेखायाः पूर्णतो मध्ये एकं लधु वृत्तं निर्मियते यत्र द्वयोरपि दलयोः नेतारावुपस्थाय क्रीडारम्भं कुरुतस्तत्स्यानम् ।
(२) क्रीडोपकरणानि
[सम्पादयतु](क)कन्दुकः -हाकी क्रीडायाः कन्दुकः कठोरो भवति । श्वेतचर्मणा निर्मितस्यास्य भारः ५ १/२ औसतोऽधिको न भवेत् । अस्य परिधिः ६८/१३ इंचत आरभ्य ६३/४ इंचपर्यन्तः स्वीक्रियते । (ख) यष्टिः (हाकी-स्टिक) -अस्याः शिरोभागस्तीक्षणो न भवति तथा तत्र कीदृशमपि लोहवरणादिकं न क्रियते । प्रायेण २ इंचमिता स्थूलता समुचिता मन्यते । अधोभागो वलितः, पृष्ठभागो वर्तुलोऽग्रभागः समतलस्तथाऽस्याः समग्रो भारः १२ औसत २८ औस-पर्यन्त उत्तमो गण्यते । (ग) पादाच्छादकद्वयम् (पै ड)-सीम-रक्षकस्य पदयो रक्षार्थं पादाच्छादकयोः प्रयोगो भवति ययोर्विशिष्टनिर्मितेः कारणात् कन्दुकाघाताद् रक्षा भवति । (घ) उपानहौ -क्रीडकस्य पदयोर्ये उपानहौ भवतस्ते कीलकरहिते चर्मखण्डसंयुते च समुचिते मन्येते । - क्रीडकाः क्रीडा -विधयश्च
१. क्रीडकास्तेषां नियमाश्च
[सम्पादयतु](क) क्रीडक - संख्या - हाकी-क्रीडा द्वयोर्द लयोर्मध्ये सम्पद्यते । प्रतिदलं क्रीडकसंख्या ११-११ भवति । एतेष्वेकादशक्रीडकेषु ५ अग्रक्रीडकाः (फारवर्ड), ३ अर्धपृष्ठक्रीडकाः (हाफबैक), २ पूर्णपृष्ठक्रीडकाः (फुल बैक) भवन्ति तथा १ सीमरक्षको (गोलकीपर) भवति । एकैकोऽत्र दलनायको भवति । (ख) क्रीडकानां व्यूह-रचना -क्रीडाक्षेत्रे पूर्वं मध्यभागे ५ अग्रक्रीडका स्तेषां पृष्ठे ३ अर्धपृष्ठक्रीडकास्तेषां पृष्ठे सीमस्थलस्योभयोः पार्श्वयोः २ पूर्णपृष्ठक्रीडकौ (रक्षकौ) मध्ये सीमस्थले च १ सीमरक्षकः’ इत्थं सर्वे क्रीडकास्तिष्ठन्ति ।
सर्वेषां कर्तव्यानि
[सम्पादयतु]दलस्य क्रीडकेषु परस्परं सामञ्जस्य मत्यावश्यकं विद्यते । सीमरक्षाकस्त्वरित निर्णयकारी, धैर्य-स्फूर्ति- प्रतिभासम्पन्नश्च भवेत् । जय -पराजययोः श्रेयस्तदुपर्येव भवति । रक्षकौ कन्दुकं सीम- प्रवेशाद् वारयतः । एतौ सीमरक्षकेण तथा पुरोवर्तिक्रीडकैः सह सर्वथा सहयोगं कुरुतः । एतयोः स्थानं रक्षापङिक्तरपि कथ्यते । ततोऽग्रे स्थिताः क्रीडका आक्रमण-पङीक्त-रक्षका भवन्ति । ते सीमभागे प्रविशन्तं कन्दुकमवरुदध्य पुरोवर्तिभ्यः प्रयच्छन्ति स्व-स्व-स्थाने स्थिताश्च रक्षणं कुर्वन्ति । कन्दुकं ताडयित्वा यथावश्यकं क्रीडकाय प्रापणमेवात्र कौशलमस्ति । (ग) क्रीडा-समयः - अस्याः क्रीडायाः समयःअ ७५ मिनटात्मको विद्यते । प्रारम्भात ३५ मिनटानन्तरं ५ मिनटात्मको विरामो भवति । मध्यविरामात् परं दलयोः क्षेत्रपरिवर्तनं विधीयते पुनश्च ३५ मिनटं यावत् क्रीडा प्रचलति
२ क्रीडा -विधयो नियमाश्च
[सम्पादयतु]===(क) क्रीडारम्भो बुल्ली=== -(BULLY) प्रक्रिया च -क्रीडारम्भातपूर्वं दलनायको मुद्रोच्छालनविधिना स्वपक्षार्थं क्रीडाक्षेत्र निर्णयति प्रथमं द्वयोरपि पक्षयोः क्रीडाकाः परस्परमभिमुखा भूत्वोपतिष्ठन्ते । कन्दुको मध्यरेखाया मध्यवृत्ते स्थाप्यते पश्चात् प्रत्येकं दलस्यैकैकः क्रीडार्थी स्वां स्वां यष्टिं भूम्या स्पृशति ततशैको विरोधिनो यष्टिं स्वयष्टेः समतलभागेन स्पृशति । इत्यं त्रिवारं विधायोभयोरप्येकः क्रीडकः कन्दुकं सन्ताड्य क्रीडामारभते । इयं बुल्ली-प्रक्रिया -(१) क्रीडारम्भे, (२) कन्दुकस्य सीमप्रवेशानन्तरं (३)मध्यावकाशोत्तरं, (४) त्रुटयनन्तरं च सम्पाद्यते । एतत् समयेऽन्ये क्रीडकाः ५ गजदूरस्था भवन्ति । अर्धवृत्तस्य ,मद्याद यदीयं क्रिया सम्पाद्यते तदा सीमरेखातः ५ गजमितमन्तरमावश्यकं विद्यते । अस्य नियमस्योल्लङ्घने सति बुली भूयोऽपि दीयते सावबोधं नियमखण्डने सति विरोधिने क्रीडकाय यथेच्छताडन-(फ्री-हिट) सौविध्यं दीयते । अर्धवृत्ते चैवं भवति चेद दण्ड-कोणव्यवस्था (पेनल्टी कार्नर) क्रियते ।
(ख) बुल्ली-ग्रहण-स्थानानि
[सम्पादयतु]क्रीडाङ्गणस्य विभिन्नेषु षट्त्सु स्थानेषु बुल्ली-गृहीतुं शक्यते । यथा - (१) मध्याग्राद् (२) दक्ष-बाह्यपार्श्वात्, (३) दक्षान्तः पार्श्वात्, (४) वाम-बाह्यपार्श्वात्, (५) वामान्तः पार्श्वाद् (६) दण्ड-स्थानाच्च् ।
(ग) यष्टि-प्रयोग-विधयः
[सम्पादयतु]क्रीडायां यष्टेः समतलभागस्यैव प्रयोगो भवति । कन्दुकमुत्प्लाव्य ताडनावसरे स्कूप(SCOOP) इति कथनमावश्यकमस्ति । ताडनसमये कन्दुकावरोधन-काले च यष्टेः स्कन्धादूर्ध्वगमनं नोचितम् । विरोधिनो यष्टेरग्रेवरोधोपस्थापनं तदीयां यष्टिं स्वयष्ट्या सङ्गम्फ्योपर्युत्यापनमथवा ताडनं दोषाय भवति
(घ) कन्दुक-प्रयोग विधयः
[सम्पादयतु]कन्दुकं सन्ताडय विपक्षिणः पर-सीम्नि प्रवेशयितुं चेष्टन्ते । सीम-प्रवेशाधिक्यादेव विजयप्राप्तिर्भवति । एकं दलं द्वितीयदले कन्दुकं गमयति तद्दलीयाश्च तमवरुद्धय पुनः सन्ताडय तस्य सीम्नि प्रवेशयितं यतन्ते । कन्दुकः पदयोर्मध्यभागाद् न निः सार्यते । उपराष्टाद यदि कन्दुक आगच्छेत् तदा यष्टया तम्वरोदधुं शक्नोति परं नियमानुसारमेव भूमावागच्छन्तं कन्दुकं कोऽपि क्रीडको ह्स्ताभ्यां रोदधुं शक्नोति परमन्येन शरीरावयवेन तथा न विधेयम् । कन्दुकं निगृहीतं चेद भूमौ समकोणेन प्रक्षेप्तव्यं येन क्रीडनं सम्भवेत् । कन्दुकस्य सर्वविधगतये यष्टेरेव प्रयोगः कर्तव्यः ।
(ङ) सीम-रक्षक-(गोल-कीपर)नियमाः
[सम्पादयतु]सीमरक्षकः शरीरस्य् केनाप्यवयवेन कन्दुकमवरोधमनुमतः । स तं ताडयितुमपि शक्तः परमित्थं तदैव कर्तुमनुमन्यते यदा कन्दुकस्तस्य क्षेत्रमागतः स्यात्
(च) सीम-प्रवेश-निर्णयः
[सम्पादयतु]यदा विरोधिनो यष्टेस्ताडानेन कन्दुकः सीमस्तम्भयोर्मध्यादायतवंशादधस्तात् सीमरेखां पारयति तदा सीम-प्रवेशो (गोल) मन्यते ।
(छ) निर्णायक-नियमाः
[सम्पादयतु]क्रीडायाः क्षेत्रस्य द्वयोरपि भागयोद्वौ द्वौ निणयिकौ भवतः । तयोरेकः समस्य विवरणं कन्दुकस्य सीम-प्रवेशगणनां च धारयति । निर्णायक एव सत्यपराधे त्रृटौ वा दण्डयति तथा यथोचितं निर्णयं प्रस्तौति । तस्य निर्णायपालनमावश्यकम् । यष्टिक्रीडायाः प्रतियोगितावसरे प्रत्येकं क्रीडकेन यष्टिद्वयं स्वसमीपे प्रयोगार्थं संरक्षणीयम् । येन क्रीडनकाले द्वितीयस्याः प्रयोगः शीघ्रं कर्तुं शक्येत । केचन क्रीडका मनाग् भारवतीं यष्टिं केचन च सामान्यभारशालिनीं यष्टिं स्वीकुर्वन्ति । स्व-स्वबाह्वनुसारं क्रीडा यष्टिः प्रयोक्तव्या । वस्त्राणि सङ्कुचितानि न भवेयुः उपानहावपि भाररहिते धारणीये, येन धावने सौविध्यं सम्पद्येत । क्रीडायाः क्षमता-वृद्धये प्रत्यहं धावन-रज्जुकूर्दन-यष्टिभ्रामण-हस्त-पाद ग्रीवासञ्चालनादिव्यायामाः कर्तव्याः । अस्याः क्रीडायाः प्रविधौ क्रमशः इमे शब्दाः प्रयुज्यन्ते ये विधिं सूचयन्ति -
(१) ग्रहणम् (होल्ड HOLD) -यष्टिकाधारणाय । (२) कन्दुक-ताडनम् (हिटिंग दि बाल Hitting the Ball )- कन्दुकं पदयोरग्रे संस्थाप्य कटिं मनाग् वलयित्वा कन्दुके स्थिरे सति ताडनं कर्तव्यम् । (३) कन्दुकावरोधः (स्टापिंग दि बाल् Stopping the balla) पुरतो वेगेनायान्तं कन्दुकमवरोदधुं वामं हस्तमूर्ध्वं दक्षहस्तञ्च यष्टेर्मध्ये संस्थाप्य भूमौ यष्टिः स्थापनीया । यष्टिरुर्ध्वं नोत्थापनीयाऽन्यथा कन्दुकोऽधस्ताद गमिष्यति (४) कन्दुकस्याग्रे प्रापणम् ( पुश Push) मणिबन्धस्य प्रयोगेणा भूमिभागादेव यष्ट्यां कन्दुकः शनैः शनैः सन्ताडयते । परस्मै सहयोगिक्रीडकाय यावति दूरे कन्दुकः प्रापणीयो भवेत्तदनुमानेन ताडनं विधेयम् । (५)
मन्द-आघातः (फिलक Feiek)-शिथिलमणिबन्धेनायं क्रियते । अस्य द्वौ प्रकारौ विद्येते -ऋजुर्विपरीतश्च । एतदाघातसमये कन्दुकं यष्टिं च पृष्ठे कृत्वा कलाच्या आघातेन क्रीडयते । विपरोताघाते (रिवर्स् फिल्क Reverse Flick) यष्टिं विपरीतां कृत्वा कन्दुको दक्षभाग आनीयते तथा वामहस्त्मुपरि दक्षिणं ततोऽग्रे निधाय यष्टयाधातः क्रियते । विरोधिनश्छलनाय प्रयोगोऽयं विधीयते । (६) सावबोधं कन्दुकोच्छालनं (स्कूप Scoop) अनेन विधिना विरुद्धक्रीडकं प्रतार्थ स्वसहयोगिने कन्दुकदानं भवति । विपक्षस्य रक्षाङिक्तत्रोटनमनेन क्रियते । (७) कुटिलगत्या कन्दुकनयनम् (ड्रिबलिंग् Drstaleling)पूर्ववदेव । (८) विरोधिनः सकाशात् कन्दुकमुन्मोच्य स्ववशे करणम् (टेकलिंग Tacklling) इति कथ्यते । (६) सहक्रीडकेभ्यः कन्दुकदानपूर्वकमग्रे वर्धनं (पासिंग Passing )निगद्यते । (१०) बुल्ली (Bully) वर्णितैव । (११) कोणः (कार्नर Corner) २५ गजमिताया रेखाया अन्तर्यदा रक्षकदलस्य कस्यापि क्रीडकस्य यष्टिं स्पृष्ट्वा कन्दुकः सीमरेखामुल्लङ्घयति तदा विपक्षदलाय कोणक्रीडा-व्यव्यस्था दीयते । अनया साक्षात् सीमप्रवेशो न भवति, अपि तु कन्दुकं किञ्चदवरुद्धय पश्चात् ताडयन्ति । (१३) दण्ड-कोणः (पेनल्टी कार्नर Penalty Corner) रक्षकदलस्य कोपि क्रीडको 'डि’ मध्येऽथवा ज्ञानपूर्वकं २५ गजरेखाया अन्तर्भागे त्रुटिं करोति तदा दण्ड कोणक्रीडाव्यवस्था क्रियते । अन्येऽप्यस्य नियमाः सन्ति ते हि प्रायोगिकप्रक्रियाभिः परिचेतव्याः ।
यष्टिकन्दुकक्रीडा सम्बद्धश्लोकः
[सम्पादयतु]- विष्वक् कीर्तिमिता स्वराष्ट्र-वितता राष्ट्रान्तरैश्च स्तुता
- सम्यक् कौशल-दर्शिनी कृतिमतां मोदावहा सर्वदा ।
- ‘हाकी’ -नामधरा वराऽथ रुचिरा स्त्री-पुम्मनःसु स्थिरा
- क्रीडोत्कैः किल 'यष्टि -कन्दुकमयी क्रीडा’ चिरं काम्यते ॥
- नानाक्रीडासु साम्यं भवदपि सततं तत्र काञ्चिद् विशिष्टां
- रीतिं संयोज्य नीत्याऽभिनवरचनया क्रीडकान् प्रेरयन्ति ।
- तासु प्रीत्या जनानां मनसि मुदमतीवोर्जितां वर्धयन्ति
- ‘हाकी-क्रीडाऽधुनेयं प्रभवति भुवने सर्वसौख्य-प्रदात्री ॥
आधारः
[सम्पादयतु]अभिनवक्रीडातरंगिणी