जैसलमेर
जैसलमेर | |
|---|---|
|
नगरम् | |
|
| |
|
Nickname(s): स्वर्णनगरी (Golden City) | |
| देशः |
|
| राज्यम् | राजास्थानम् |
| मण्डलम् | जैसलमेर |
| Government | |
| • M.L.A. | Chhotu Singh Bhati |
| Area | |
| • Total | ५.१ km२ |
| Elevation | २२५ m |
| Population (2001) | |
| • Total | ५८,२८६ |
| • Density | ११,०००/km२ |
| भाषाः | |
| • Official | हिन्दी |
| Time zone | UTC+5:30 (IST) |
| PIN |
345 00x |
| Telephone code | 02992 |
| Vehicle registration | RJ 15 |
| Website | jaisalmer.nic.in |
जैसलमेर ([१]हिन्दी: जैसलमेर, आङ्ग्ल: Jaisalmer) राजस्थानराज्ये स्थितस्य जैसलमेरमण्डलस्य केन्द्रम् अस्ति ।
जैसलमेर – 'Island in the sand' , 'poem in sand', 'fort city' इत्यादिभिः नामभिः ख्यातम् अस्ति ।[२]
राजस्थानराज्ये उत्तरभागे थारमरुभूमिः अस्ति । तत्रैव एतत् ऐतिहासिकं, सुन्दरं नगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मकभवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति नगरमिदम् । 'म्यूसियं' नगरं, प्राचीनभवनानां नगरं, 'महल'नगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र नैकाः दुर्गाः, देवालयाः, राजगृहाणि च दृश्यन्ते । क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल-जैसल-महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरं कलात्मकभवनैः सुन्दरशिल्पैः उत्तमैः देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च समग्रे विश्वे सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।

