सामग्री पर जाएँ

काळीजयन्तीमाता (भोरबाग्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Kalijayantimata (Bhorbhag) इत्यस्मात् पुनर्निर्दिष्टम्)
काळीजयन्तीमाता (भोरबाग्)
कालिका मातायाः मुर्तिः
कालिका मातायाः मुर्तिः

काळीजयन्तीमाता (भोरबाग्) एतत् शक्तिपीठं बाङ्ग्लादेशस्य सिल्हट्मण्डलस्य फज्लुर्परगणभागे भोर्रबाग् इत्य्त्र अस्ति । एतत् पीठं भोरबाग् काळीदेवालयः अथवा फज्लुरकाळीबारी इत्यपि वदन्ति । बाङ्ग्लादेशस्थं षष्ठं शक्तिपीठम् एतत् ।

सम्पर्कः

[सम्पादयतु]

एतत् स्थानं प्रति भारतस्य पश्चिमबङ्गालराज्यस्य जल्पायिगुडी-न्यू अलीपुरदौरमार्गेण प्राप्तुं शक्यम् अस्ति ।एतत् स्थानं बक्साव्याघ्राभयारण्यस्य व्याप्तौ भवति इत्यतः यात्रार्थिभिः अधिकृतरूपेण पूर्वानुमतिः प्राप्तव्या भवति । अभयारण्यस्य कश्चन भागः बाङ्ग्लादेशस्य सीमायां भवति । समीपस्थं रेलनिस्थानकं रजभट् खवा इति ।

वैशिष्ट्यम्

[सम्पादयतु]

अत्र जयन्ती नदी प्रवहति इत्यतः एतत् स्थानं जयन्तीया शक्तिपीठम् इत्यपि प्रसिद्धम् अस्ति । अत्र महाकालगुहा अस्ति । अत्रत्या देवी जयन्ती अथवा काळी नामभ्यां पूज्यते । अत्रत्यशिवः क्षमाधीश्वरनाम्ना पूज्यते ।