सामग्री पर जाएँ

मेरी कोम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Mary Kom इत्यस्मात् पुनर्निर्दिष्टम्)

मानगते चुनेग्नैजाम् मेरी कोम्(Mary Kom)-वर्या एका प्रसिद्धा मल्लक्रीडालुः वर्तते । पञ्चवारं विश्वमल्लक्रीडोत्सवे जयं प्राप्ता एषा भारतदेशे भारतीया महिला वर्तते ।

मेरी कोम्
Mary Kom speaking at the British High Commission in Delhi, 2011
व्यक्तिगतविवरणम्
सम्पूर्णनाम Mangte Chungneijang Mary Kom
उपनाम Magnificent Mary
राष्ट्रियता Indian
जन्म (१९८३-२-२) १ १९८३ (आयुः ४३)
Kangathei, Manipur, India
वासस्थानम् Imphal, Manipur, India
औन्नत्यम् १.५८ m (५ ft 2 in)
भारः 51 किग्रा (112 पाउन्ड)
क्रीडा
देशः India
क्रीडा Boxing (Rated at 46 kg, 48 kg, 51 kg)
प्रशिक्षकः M.Narjit Singh , Charles Atkinson

जननं बाल्यञ्च

[सम्पादयतु]

मेरी कोम् १९८३ तमे वर्षे नवम्बर्-मासे प्रथमदिनाङ्के जन्म प्राप्तवती । मणिपुरराज्यस्य चुरचञ्पुरमण्डले कङ्गथै प्रदेशे अभवत् । अस्याः मातापितरौ कृषकौ आस्थाम् । तस्याः प्राथमिकविद्याभ्यासः लोकटक-क्रिश्चन्-विद्यालयः एवं सैण्ट्-हेवियर्-विद्यालये च अभवत् । माध्यमिकविद्याभ्यासः आदिमजाति माध्यमिक-विद्यालये,इम्फाल् नगरे पठन्नासीत् । परन्तु, एषा अनुत्तीर्णा जाता । तदनन्तरं सा राष्ट्रीय-मुक्त-विद्यालये विद्याभ्यासम् अकरोत् । तस्याः इच्छा सन्नद्धशरीरक्रीडायाम् अतीव आसीत् । १९९९ तमे वर्षे मल्लक्रीडायाम् आसक्तिः आरब्धा । मणिपुरराज्यस्य मल्लक्रीडालोः क्रीडापटुः डिङ्गो सिंहः वर्तते । एनं दृष्ट्वा मेरी कोम्-वर्या प्रेरणां प्राप्तवती । अस्याः विवाहः ओल्नर् कोम्-वर्येण सह अभवत् ।

साधनानि

[सम्पादयतु]
राष्ट्रियपदकानि
क्रीडोत्सवःस्थानम्दिनम्
प्रथमराष्ट्रियमहिला मल्लक्रीडोत्सवःचेन्नै६-१२/०२/२००१
ईष्ट्-ओपन्-मल्लक्रीडोत्सवःवङ्गः११-१४/१२/२००१
राष्ट्रियमहिला सार्ट्-मीट्देहली२६-३०/१२/२००१
३२ तमस्य राष्ट्रियक्रीडाःहैदराबाद्२००२

पुरस्काराः

[सम्पादयतु]
पुरस्कारस्य नामवर्षम्
अर्जुनपुरस्कारः (मल्लक्रीडाविभागः)२००४
पद्मश्री (क्रीडाविभागः)२००६
राजीवगान्धी खेल्-रत्न-पुरस्कारः२००७
पीपल्-आफ्-द-इयर् (लिम्का बुक्-आफ्-रेकार्ड्स्)२००७
सि एन् एन्-ऐ बि एन् रियल्-हीरो पुरस्कारम्२००८
पेप्सि एम् टी वी यूत्-ऐकान्२००८
माग्निफिसेण्ट्-मेरी२००८
राजीवगान्धी खेल्-रत्न पुरस्कारः२००९
"https://sa.wikipedia.org/w/index.php?title=मेरी_कोम्&oldid=473006" इत्यस्माद् प्रतिप्राप्तम्