श्रीधराचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Shridharacharya इत्यस्मात् पुनर्निर्दिष्टम्)



श्रीधराचार्यः भारतीय प्रसिद्धगणीतशास्त्रज्ञेषु अन्यतमः। स्वर्णयुगे आविष्कृतानां नूतनगणीतशास्त्रस्य प्रक्रियादीनाम् उत्तमागतिः न प्राप्तासीत्। अमुं कार्यं श्रीधरः स्वकृतिषु अत्यन्तं स्पष्टतया निरूपितवान् अस्ति। श्रीधरस्य जन्म, स्थानादीनां विषये ऐतिहासिकानम् ऐक्यमत्यं नास्ति इति। "८ शतमाने" अस्य अस्तित्वम् आसीत् इति। श्रीधराचार्यः अङ्कगणीतक्षेत्रगणीतयोः विषये "पाटीगणितम्", "पाटीसारः" इति द्वे पुस्तके रचितवान्। पाटीसारः नाम्नैव सूच्यते यत् पाटीगणीतस्य सारांशः अस्मिन् पुस्तके अस्ति। पाटीसारे पाटीगणितस्य मुख्यनियमाः तथा उदहाणानिच किञ्चित् व्यत्यासेन निरूपितानि सन्ति। केचन विषयाः योजिताः सन्ति। "पाटीगणीते" ९०० श्लोकाः सन्ति। अतः अस्य बृहत् पाटी उत नवशति इति प्रसिद्धिरपि अस्ति। "पाटीसारे" ३०० श्लोकाः सन्ति। अस्य “त्रिशतिका” इति नामोऽपि अस्ति। वृत्तखण्डस्य क्षेत्रफलाय, गोलस्य घनफलाय च निकटतम मूल्यदानसूत्राणि “त्रिशति” पुस्तके विद्यन्ते। पाटीगणीतं विद्यार्थिनाम् एवं सामान्यजनानां कृते बहु उपयोगी अस्ति। छात्रान् ,सामान्यजानान् च मनसि निधाय रचितवान् अस्ति। पाटीसारः प्राथमिकस्थरीयग्रन्थः भवति सामान्येभ्यः उपयुक्तम् अस्ति। अस्य पुस्तकस्य पाटीसारस्य प्रसिद्धिरपि अस्ति। अस्य कृतयः बहुसरलया भाषया स्पष्टञ्च विद्यन्ते। सामान्यजनाः श्रीधरम् “आदर्शगणीतज्ञः” इति परिगणिताः। पाटीगणीते गुणाकारः, भागाकारः, वर्गमूलम्, घनमूलम्, भिन्नराशिः, त्रैराशिकम्, समतलरेखाकृतीणां क्षेत्रफलादि विषयाः सन्ति। अस्मिन् शून्यसहितपरिकर्मेभ्यः अष्टौ नियमाः सन्ति। किन्तु शून्यात् भागाकारप्रक्रियां न दर्शितवान् अस्ति। मिश्रकानां गणीतं तथा समान्तश्रेडि, गुणोत्तरश्रेडिणां फलप्राप्तिविषयस्य नियमाः स्वारस्यकराः सन्ति। अत्र विद्यमानाः नियमाः “आर्या” छन्दसि वर्तन्ते। ax2+bx=c इति समीकरणस्य मूलज्ञानाय नियमम् एकम् निरूपितवान् अस्ति। एनं नियमं प्रप्रथमतया श्रीधरः एव निरूपितवान् अस्ति। अतः "श्रीधरस्य सूत्रम्" इति प्रसिद्धिरपि अस्ति।

"https://sa.wikipedia.org/w/index.php?title=श्रीधराचार्यः&oldid=410470" इत्यस्माद् प्रतिप्राप्तम्