सामग्री पर जाएँ

सदस्यः:अक्षय कुमार पण्डा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                       जीवने संस्कृतसाहित्यस्य उपादेयता
       सम्प्रति जनाः शिशोः जन्मनः शिशुं मातृदुग्धम्  ऋते अन्यान्यानि द्रव्याणि खादयन्ति पाययन्ति च ।परन्तु संस्कृतसाहित्ये उपदेशः दीयते षष्ठमासपर्यन्तं मातृदुग्धं शिशोः अत्यन्तम् आवश्यकं खाद्यम् । उक्तं च-
    “ षष्ठेन्नप्राशनं मासि यद्वेष्टं मङ्गलं कूले ।“

अधुना युवकानां एका महती समस्या भबति-मादकद्रव्यसेवनम् । एतेन वहूनां प्रतिभा नष्टा जाता,बहुपरिवाराः ध्वसाः भबन्ति । तद्विषये मनुसंहितायाम् अस्ति –

        “गैडी पैष्ठी च गाध्वी च विज्ञेया त्रिविधा सुरा।
         यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ।।“

तैतरीयोपनिषदि मनुसंहितायां च माता-पिता-आचार्याणां सेवा परमं तप इति कथ्यते । तद्यथा-

       “ मातृदेवो भब,पितृदेबो भब, आचार्यदेवो भव।
           तेषां त्रयाणां शुश्रुषा परमं तप उच्यते ।“

अधुना अक्षक्रीडापि एका भयंकरी समस्या । एतया अक्षक्रीडया जनाः सर्वं नाशयित्वा भवन्ति । तथा संसारः दुर्दशाग्रथितः भवति । ऋग्वेदस्य अक्षसूत्रे अक्षक्रीडयाः दरिद्राः निन्दा तथा कृषेः प्रशंसा चास्ति । यथा-

     “अक्षैर्मा दीव्य कृषिमित् कृषस्व”

महाभारते युधिष्ठिरः अक्षक्रीडया भ्रातृन् पत्नीं च नश्यति स्म । यस्य फलं भवति कुरुक्षेत्रयुद्धम् । महाभारते सभापर्वे द्युक्रीडायाः निन्दा अस्ति-

     “अतः द्युतेन सर्वं नष्टं जातम् ।“

शिशुनाम् अशिक्षा भारतवर्षस्य एका महती समस्या । मातपितरौ सन्तानं विद्यालयस्य स्थाने कर्मक्षेत्रं प्रेषयतौ । हितोपदेशे अस्ति- “माताशत्रु पिता वैरी येन वालो न पाठितः”

तत्रेव हितोपदेशे वर्त्तते । यत्-

 “अज्ञात कुल शीलस्य वासो देयो न कस्यचित्” ।
   अज्ञानकुलशीलजनात् न स्वीकरणीयः तेन अधुना नार्यः दुष्टचक्रे पतन्ति,ताः विक्रीयाः भवन्ति।
   पितृतान्त्रिकसमाजे नारीकन्या च सर्वदा अवहेलिता । अधुना जनाः शिशोः जन्मनः पूर्वे ULTRA 
SONO GRAPHY  द्वारा लिङ्गनिर्णयं कृत्वा कन्यासन्तानं पुत्रसमं मननीयमिति ।
      “ यथेवात्म तथा पुत्रः पुत्रेण दुहिता समा” ।

साम्पतिकयुगे जनाः जीवनसमये बहु किमपि चिन्तयति,परन्तु ते अर्थात् परिश्रमं विहायwhatsap,

 Facebook  इत्यादिषु समययापनं कुर्वन्ति ।तत्र हितोपदेशे वर्त्तते-
     “उद्यमेन हि सिद्ध्यति कार्याणि च मनोरथैः
      न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः”।।
  परिवेशे ,समाजेषु संस्कृतसाहित्यस्य उपदेशस्य महती प्रयोजनीयता अतीते आसीत्,अधुनास्ति, भविष्ये भविष्यति इति । अतः स्वस्थजीवनयापनाय च प्रत्येकजनः संस्कृतसाहित्यं पठेत् ,तत्तस्थानोपदेशान् पालयेत् ।।