सामग्री पर जाएँ

सदस्यः:रामचन्द्र बगर्ति

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                  आधिगमस्य सिद्धान्ताः 

आधिगमः- आधिगमस्य अर्थो भवति ज्ञानाहरणम् , शिक्षाग्रहणादि च । केचन जनाः पाठ्यपुसातकेभ्यो लब्धज्ञानम् आधिगमः इति चिन्तयन्ति । परन्तु आधिगमो न केवलं तेषु सिमितः अपितु अस्माभिः यत्किमपि यदाकदाऽपि येनकेनापि माध्यमेन यत्रकुत्रापि ज्ञानं लभ्यते तद् आधिगमः इति कथ्यते ।

सिद्धांतः- सिद्धांतः केनापि विशिष्टव्यक्तिना समूहेन वा निर्धारितः नियमो भवति । सिद्धांतः अस्मान् कार्यकरणे मार्गदर्शनं करोति । कथं तत्कार्यं सुगमतया कर्त्तुं शक्यते तदर्थं निर्देशयति ।

          सर्वेषां कार्याणां सिद्धान्ताः भिन्नाः वर्त्तन्ते । अधिगमस्यापि वहूधा सिद्धान्ताः सन्ति । मनोवैज्ञानिकैः शिक्षाशास्त्रिभिश्च नानादि परीक्षणादि कृत्वा एतेषां सिद्धान्तानां प्रतिपादनं कृतमस्ति । थर्णडाइकस्य उद्दीपक-अनुक्रियासिद्धान्तः , स्किनरस्य अनुक्रिया-उद्दिपकसिद्धान्तः , पावलबस्य अनुबन्धित-अनुक्रियासिद्धान्तः  एते अधिगमस्य केचन प्रसिद्धाः सिद्धान्ताः वर्त्तन्ते । एतेभ्यः केषाञ्चन सिद्धान्तानां विषये अत्र ज्ञास्यामः । 

उद्दीपक – अनुक्रियासिद्धान्तः

          अस्य अपरं नाम प्रयत्न-प्रमदसिद्धान्तः वर्त्तते । अस्य सिद्धान्तस्य प्रवर्त्तको भवति इमेरिकीय मनस्तत्वविदः इ‌.एल.थर्णडाइकः । अनेन महोदयेन पशूनामुपरि बह्यः परीक्षाः कृताः वर्त्तन्ते । परन्तु मार्जारस्योपरि कृता परीक्षा अति प्रसिद्धा । थर्णडाइक महोदयः इयं परीक्षां निमित्तम् एकं पञ्जरं निर्मितवान् । तस्मिन् पञ्जरे एकं पञ्जकमासीत् यत् स्पर्शमात्रेण द्वारं उद्घाट्यते स्म ।  सः एकं क्षुधार्तमार्जारं स्वीकृत्य तस्मिन् पञ्जरे स्थापितवान् । तस्य पञ्जरस्य बहिरेव एकं दूग्धपात्रं स्थापितवान् । सः मार्जारः क्षुधार्थार्थं तत्पात्रं दृष्ट्वा बहिरागन्तुं बहु प्रयासं कृतवान् । इतस्ततो धावितवान् । परन्तु सर्वेऽपि प्रयासाः व्यर्थाः जाताः । बहुप्रयासानन्तरं अज्ञातवसात् तस्य पादः तत्र विद्यमानं पिञ्जकोपरि अपतत् येन कपिटम् अदुद्घटयत् एवं स बहिर्गत्वा दूग्धं अपिबत् । पुनः तं मार्जारं बारम्बारं पञ्जरे स्थापितम् । सोऽपि पुनः पुनःतथैव कृतवान् । परन्तु प्राक् तेन याः त्रुटयः भूयते स्म तासां विलोपनं जातम् । अनन्तरम् एवं दृष्टं यत्- यदा मार्जारः तस्मिन् स्थाप्यते स झटत्येव पञ्जकं संस्पर्श्य बहिरागत्य दूग्धं पिवतीति । 
       अनेन परीक्षणमाध्यमेन थर्णडाइकद्वारा अधिगमस्य सिद्धान्ते त्रयाणां नियमानां प्रतिपादनं कृतम् । 

1. अभ्यासस्य नियमः

2. तत्परतायाः नियमः

3. प्रभिवस्य नियमः

1.अभ्यासस्य नियमः - यदि कस्यापि कार्यस्य अभ्यासो भवति तर्हि तद् चिरकालपर्यन्तं अविस्मरणीयरूपेण तिष्ठति । उदाहरणतया- मार्जारः केवलम् एकवारमेव न स्थापितः अपितु थर्णडाइक महोदयेन सः बारम्बारं स्थापितः । येन तस्य त्रुटयः विलुप्य बहिर्गमनस्य ज्ञानं सञ्जातम् ।

2. तत्परतायाः नियमः - किमपि अधिगन्तुं ज्ञातुं वा तत्परता नितान्तावश्यकी वर्त्तते । यदि अधिगमकर्त्ता अधिगन्तुं तत्परो नास्ति चेत् केनापि प्रकारेण शिक्षयतु स ज्ञातुं न शक्ष्यसि । परीक्षणेऽस्मिन् मार्जारः दूग्धं पातुं सर्वदैव तत्परो आसीत् । अतः परीक्षणमिदं सफलमभवत् ।

3. प्रभावस्य नियमः - अधिगमे नियमस्यास्य अधिकमहत्त्वं वर्त्तते । यदि उद्दीपकः प्रभावोत्पादकः आनन्ददायकश्च न भवति चेत् अधिगन्ता अनुक्रियामेव न करिष्यति । दूग्धं मार्जारस्य कृते रुचिकरं भवति ।अतः सः तद् पातुं प्रयासं कृतवान् ।

      अस्य सिद्धान्तस्य केचन गौण सहायकनियमाः अपि सन्ति । यथा- 

1. बहुक्रिया

2. तत्परता मनोवृत्ति वा

3. सहचार्यात्मकस्थानानातरणम्

    एते नियमाः नातिमहत्त्वपूर्णाः । अतः विस्तारपूर्वकम् एतेषां विश्लेषणमत्र न क्रियते । 
         शिक्षादानक्षेत्रे सिद्धान्तस्यास्य प्रयोगः अधिकतया दृश्यते । अनेन सिद्धान्तानुसारेण शिक्षणस्य लक्ष्यप्राप्तिः साफल्येन सुगमतया च भवति । यदि अधिगन्तोः सक्रियता विज्ञाय तस्य रुचिपूर्णविषयस्य ज्ञानं प्रदीयते उत्तमरीत्या च तस्य अभ्यासः क्रियते तर्हि स अधिगन्ता निश्चयेन तस्मिन् विषये दक्षतां प्राप्स्यति । परन्तु तस्मै तत्करणाय शन्तोषजनकं पुरष्कारमपि प्रदातव्यम् । यद्वारा स आनन्दमनुभूय अग्रे नूतनज्ञानं प्राप्तुं इच्छाप्रकटनं करिष्यति । तदपि पूर्वापेक्षया अधिकोत्साहेन । 


अनुक्रिया-उद्दिपकसिद्धान्तः

थर्णडाइकमहोदयस प्रयत्न-प्रमादसिद्धान्तस्य विपरितसिद्धान्तः एषः । तस्मिन् उद्दीपकाय आधिकमहत्त्वं दीयते आस्मिञ्च सिद्धान्ते अनुक्रियां प्रति दीयते । सिद्धान्तस्यास्य प्रवर्तको वर्त्तते आमेरिकोय मनस्तत्वविद् व्यावहारवादी च वि.एफ.स्किनरः । अनेन महोदयेन मूषक-कपोतयोरूपरि इदं परीक्षणं कृतमासीत् । अत्र मूषकोपरि कृतं परीक्षणस्य विषये चर्चां कुर्मः । व्यावहारवादीनां मध्ये स्किनरः प्रमुखस्थानं लभ्यते । अनेन स्किनरमहोदयेन व्यवहारस्य प्रकारद्वयं प्रतिपादितम् । व्यावहारस्य प्रकाराः – 1. प्रतिक्रियात्मकव्यावहारः 2. सक्रिय व्यावहारः

1. प्रतिक्रियात्मकव्यवहारः – यदा एकः मशकः अस्मान् दन्शयति तदा झटत्येव अस्माकं हस्तः शरीरस्य तं स्थानं प्रति गच्छति । इतोऽपि यदि प्रकाशः नेत्रे पतति चेत् स्वयमेव नेत्रं निर्मिलयति । एतादृशि प्रतिक्रिया अयं व्यावहारः इति कथ्यते ।

2. सक्रियव्यावहारः – यदृशी क्रियायाः प्रत्युत्तरम् अस्माभिः विचिन्त्येव इच्छानुसारेण दीयते सः सक्रियव्यवहारः इति कथ्यते । यथा गमनसमये भवतरूपरि बृष्टि सञ्जाता । भवान् बृष्टेः रक्षणाय कस्मिञ्चित् स्थाने स्थातुं शक्नोति अथवा बृष्टेः आनन्दलाभाय श्नातुं शक्नोति । तत् तु भवतामिच्छा वर्त्तते ।

स्किनरस्य परीक्षणम्

      सस्किनरमहोदयः इदं परीक्षणं निमित्तम् एकं पेटिकां निर्मितवान् या स्किनरपेटिका इति उच्यते । पेटिकायामस्यां लिवर इति पिञ्जकशदृशं एकं वस्तु स्थापितमासीत् , यस्य सम्बन्धः एकं पात्रेण सह आसीत् । तस्यां मूषकं स्थापयितुं एकः सूक्ष्मछिद्रस्य निर्माणं कृतमासीत् । लिवर इत्येतत्स्पर्शेण एका ध्वनि पात्रे च भोजनमायाति स्म । पेटिकायाम् एकः मूषकः स्थापितः । स इतस्ततः धावितः । अज्ञातवसात् तेन लिवर स्पर्शं जातम् । अतः ध्वनि आगत्य पात्रे भोजनमागतम् । सः तत् खादितवान् । एवमृपेण पुनः पुनः एषा प्रक्रिया प्रचालिता । अन्तिमे निष्कर्षः आगतः यत् लिवर स्पर्शमात्रेणेव भोजनं लभ्यते इति ज्ञात्वा सः लिवर स्पर्शयतीति । 
       भोजनमत्र प्रबलनस्य कार्यं करोति । सः अनुक्रियां करोति किरणं तस्मै प्रबलनं दीयते । तदपि समयेनेव । अत्र स्किनरमहोदयेन प्रबलनस्योपरि अधिकमहत्त्वं प्रदत्तमस्ति । प्रबलनस्य विभाजनमत्र चतुर्धा कर्त्तं शक्नुमः । यथा – 

1. धनात्मकप्रबलनम् – अस्य प्रबलनस्य उपस्थिति द्वारा अनुक्रियायां बृद्धिर्भवति । यथा – क्षुधार्तव्यक्तेः कृते भोजनं धनात्मकप्रबलनमस्ति ।

2.नकारात्मकप्रबलनम् - इदं सः उद्दीपको वर्त्तते अनुपस्थितिः अनुक्रियायाः बृद्धिर्करोति । यथा- यदि बालकः शूनः भयेन भोजनं न करोति शूनः निवारणेन च करोति चेत् शूनरनुपस्थितिः नकारात्मकप्रबलनं वर्त्तते ।

3. धनात्मकदण्डः - कस्यचित् अनुचितव्यवहारे किमपि कष्टप्रदं वस्तु वा उद्दीपकस्य प्रस्तुतिकरणं धनात्मकदण्डः वर्त्तते ।परीक्षायां निम्नाङ्कं प्राप्तये छात्रस्य अप्रसंशा वा निन्दा । अनेन अनुचितव्यवहारस्य पुनरावृत्तिः ह्रासः भवति ।

4. नकारात्मकदण्डः – कस्मिन्नपि नुचितव्यवहारे सुखपूर्णवस्तुनः आपूर्त्तिं निरस्तिकरणम् । अनेन अनुचितव्यवहारस्य सम्भावना न्यूनं भवति । यथा – उदण्डव्यवहारिकबालकं दूरदर्शनं दर्शनात् निवारणम् ।

शैक्षिक-निहितार्थः -

               सिद्धान्तेऽस्मिन् अधिगमकर्त्तुः अनुक्रियां प्रति विशिष्टध्यानं प्रदीयते । सः किदृशमनुक्रियां करोति तां दृष्ट्वा प्रबलनमपि तथायोग्यं प्रदातव्यम् अपि च समयस्यापि ध्यानं देयात् । यदि तेन उचितानुक्रिया क्रियते तर्हि धनात्मकं वा शन्तोषप्रदं प्रबलनं देयात् , येन सः पूर्वापेक्षया इतोऽप्यधिकमुत्साहेन ध्यानपूर्वकं मनसा च तामनुक्रियां करिष्यति । यदि तेन अनुचितानुक्रियां करोति तर्हि तत्र नकारात्मकप्रबलनं देयात्,  येन सः तां कर्त्तुं कुण्ठाबोधं करिष्यति । अपि च समयानुसारेणेव प्रबलनं प्रदातव्यम् । यदि असमये दीयते तर्हि सः सक्रियानुक्रियां न प्रदर्शयिश्यति । अतः अनुक्रिया करणमात्रेणेव तद्दातव्यम् । येन अनक्रिया-प्रबलनयोर्मध्ये उत्तमसम्बन्धः स्थापयितुं शक्यते । 
         असिन् क्रियायाः प्राधान्यं वर्त्ततेति कारणात् क्रियाप्रसूत- आनुबन्धित, अनुक्रिया-उद्दिपकसिद्धान्तः इति उच्यते । अत्र प्रबलनमित्युक्ते उद्दीपको वर्त्तते । थर्णडाइकस्य प्रभावस्य नियमः प्रबलनस्य कार्यं करोति । परन्तु तस्य विभाजनं कृत्वा विस्तारेण वर्णना कृताऽस्ति । कस्मै किं दातव्यं किञ्च न दातव्यमिति । 
          अनेन सिद्धान्तानुसारेण असाभिः छात्राणां क्रियां दृष्ट्वा तेषाम् उत्तमगुणानां बृद्धिः दोषाश्च ये ये वर्त्तन्ते तेषां विलोपनं कर्त्तुं शक्नुमः ।