सामग्री पर जाएँ

सदस्यः:सुमति साहू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

" वसुधैव कुटुम्बकम्" अयं निजः परो वेति गणना लघुचेतसाम्। उदाहर चरितानान्तु वसुधैव कुटुम्बकम्। अस्मिन् श्लोके मानवसंस्कृतेः सवौत्तमः सिद्धान्तः प्रतिपादितः। मनुष्यभिन्नाः जन्तवस्तु प्रायशः स्वकुटुम्वमेव संसारे इति मन्यन्ते। यथा ते सन्ति कूपमण्डुकाः मानवस्तु सकलं जगत् द्रष्टुमिच्छति। सुखस्य अवाप्तये वसुधैव कुटुम्बकम् इति भावना स्वीकरणीया। तथा हि कश्चिज्जनः पञ्चषड्जनानां कुटुम्बे सुखमनुभवति। इमे जनाः मम साहायकाः , ते ,तेकुशलिनस्ते निरामयाश्च सन्तु , तेषांसुखेनाहमपि सुखीति भावना तस्य चेतसि विरमति ।पक्षिणामादर्शस्तु प्रसड्गेऽस्मिन् समुदेति। असंख्यास्ते विहगाः उत्तलतरंगमयान् महासागरानपि अहर्निशम् उड्डीय प्रतपन्ति। ततश्चविविधान् देशान् देशान्तराणि च कुटुम्बीकृत्य सार्वलौकिकं सुखमनुभन्ति भावयन्ति च।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:सुमति_साहू&oldid=460512" इत्यस्माद् प्रतिप्राप्तम्