सदस्यः:Budhimatta123

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृताध्यापकः । Sanskrit teacher.

मानवस्म युकामुकविवेचनं ज्ञानं आवश्यकम्। अहिंसा, सत्यम्, उस्क्रोधः, त्यागः, शान्तिः, क्षमा, तेजः, धैर्यम्, इत्यादि गुणाः प्रत्येकमानवस्य कृते आवश्यकम्। अपोलक्षितानि

वृति-सम्बन्धानि तानि यथा-

1. स्वीयाध्यापकपदे गौरवप्रदर्शनम्।

2. अध्याप्यमानविषयेषु निपुणता ।

3. सहनशीलता।

4. बोधनेसामर्थ्यम्।

5. समभावः।

6. अनुशासनप्रियः।

7. समयस्फूर्तिः ।

8 आत्मसम्मानम। 7. समयस्फूर्तिः ।

8. आत्मसम्मानम्।

9. अहम्भाववर्जनम्।

10. परोपकारभाययुक्तः।

11. अध्ययनासक्तिः।

12. समीचीनाविमर्शशक्तिः ।

13. छात्रेषुतादात्म्यभावः।

14. सदाचरणशीलता।

प्रज्ज्वलन् एको दीपः सामान्यविषयपरिज्ञानेन साकं प्रतिविषये च समुचितं ज्ञानमपि अध्यापकस्य भूपणं वर्तते। बोधनसमये प्राचीनशिक्षणविधयः, आधुनिक शिक्षणविधयः, एतयोः समन्वयं कृत्वा बोधनीयम्। छात्राणां शारीरिकविकासं मानसिक अभिवृद्धिं बुद्धिं व्यक्तित्वं वैयक्तिकभेदांश्च विज्ञाय तदनुगुणम् अध्यापनीयम्। " अयं निजः, अयं परः", इति भावना कदापि न प्रदर्शनीया। "परोपकारार्थमिदं शरीरम्", "स्वभाव एर्वप परोपकारिणाम्', "परोपकारः पुण्याय पापाय परपीडनम्", "स्वाध्यायान्मा प्रमद, इत्यादि अनुकरणीयम्। अर्थात् विषयाणाम् पुनरावर्तनम्, स्वाध्यायः आजीवनं करणीयः। संस्कृतसाहित्याध्यापनसमये कुलं मतं वर्णं इत्यादिकं संकुचितभावना त्याज्या। समीचीनं विमर्शनं करणीयम्। संस्कृताध्यापकेषु सौहार्द्रता आवश्यकी, वस्तुतः संस्कृतभाषा, आस्तिक्य भावना, अनयोर्मध्ये अन्तरमेव नास्ति । भारतीय संस्कृतेः प्रसारणं संस्कृताध्यापकस्य प्रमुखकर्तव्यम् अस्ति। संस्कृताध्यापकेन संस्कृत-छात्रसंख्या वर्धने प्रयत्नो विधेयः । तदर्थ छात्राणां आत्मसात्करणमावश्यकम्। "कामः क्रोधस्तथालोभः तस्मादेतत् त्रयं त्यजेत्" "सत्यं वद धर्म चर 'संघे शक्तिः कलीयुगे "उद्यमेन हि सिध्यन्ति

कार्याणि न मनोरथैः" उपरिनिर्दिष्टयनि सर्वाणि लक्षणानि

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Budhimatta123&oldid=483737" इत्यस्माद् प्रतिप्राप्तम्