सामग्री पर जाएँ

सदस्यः:Dibakar Neopane

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आदर्शवादः

           साम्प्रतिके काले अयं वादः प्लेटोमहोदयस्य आध्यात्मवादः इति

सिद्धान्तोपरि आधारितो वर्तते। आदर्शः तादृशो भवेत् यः अनुकरणीयः। शिक्षणे अपि यथा वयमादर्शवादमुपस्थापयामः तथैव जनैः अनुक्रियते। आदर्शवादस्य वास्तविकस्वरुपं चरमसत्यता परागतिः पराकाष्ठा च वर्तते। अस्य वादस्य प्रवर्तकः एथेन्स (यूनान) नगरवास्तव्य प्लेटो (427-347 ई.पू.) महोदयः महादार्शनिकस्य सुकरातस्य शिष्यः, अरस्तुदार्शनिकस्य च गुरुः आसीत्।

           आदर्शवादः, विचारवादः, प्रत्ययवादत्त्वेनाभिप्रेतः, मनोवादः,

आध्यात्मुवादः एते सर्वे पर्यायाः एव। अत्रेदं ध्यातव्यं यत् आदर्शवादस्य प्रारम्भः शिक्षाशास्त्रतः अथवा प्लेटोतः एव नाभवत्। तत्र प्राचीनकाले एव आदर्शवादः स्थापितः। तत्र गीतायामपि आत्मानं नो विजानीयात् अहमस्मीति पुरुषः इति प्रत्ययवादस्य लक्षणे कृतमस्ति। पुनश्च मनः एव मनुष्याणां कारणं बन्धमोक्षयोः इति वाक्याभ्यां आदर्शवादस्य सिद्धान्तः स्थापितः।

आदर्शवादस्यार्थः परिभाषा च

           आदर्शवादानुगुणम् अस्मिन् प्रपञ्चे मानवः विभिन्नरूपेण

निवसति। भौतिकप्रपञ्चः मानसिकप्रपञ्चः चेति प्रपञ्चद्वयं मानवस्य कृते भवति। मानसिकप्रपञ्चे आध्यात्मिकभावनानां कृते प्रधान्यं दीयते। अयमेव आदर्शवादः इति। आदर्शवादः इति शब्दस्य आङ्ग्लार्थः Idealism इति। Idea इति विचारः ism इति वादः। आदर्शवादः विचारवादः चेति पर्यायः।

    रोजन—“आदर्शवादीनां विश्वासः अस्ति यत् ब्रह्माण्डस्य स्वीया

बुद्धिः इच्छा वर्तते, समस्तभौतिकवस्तूनां स्पष्टीकरणं मनसा कर्तुं शक्यते” इति।

    एडम्स (Adams)—“Idealism is one from or other permeats the whole

of the history of philosophy.”

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Dibakar_Neopane&oldid=431326" इत्यस्माद् प्रतिप्राप्तम्