सदस्यः:Harshith N 1810178
परेषामपि रक्ष जीवितम्
(सिंहासनद्वात्रिंशिका - कथासङ्ग्रहस्य समीक्षा)
'सिंहासनद्वात्रिंशिका' नामककथासङ्ग्रहे द्वात्रिंशत् कथाः सन्ति। अस्य ग्रन्थस्य कर्ता वररूचिर्नामा कश्चित् कविरिति श्रूयते। 'परेषामपि रक्ष जीवितम्' इति शिरोनामाङ्किते अस्मिन् कथाभागे विक्रमादित्यस्य परदुःखस्पन्दनगुणः हृदयङ्गमरीत्या निरूपितो वर्तते। एषा कथा 'परोपकाराय शरीरलाभः' इति नीतिं बोधयति। "कस्यापि जन्तोः हिंसा न कार्या" इति सन्देशः अत्र सुस्पष्टः वर्तते। विक्रमादित्यः क्रि.पु.१०२ संवत्सरे चक्रवर्तिरासीदिति श्रूयते। उज्जयिनि तस्य राजधानिरासीदिति ज्ञायते। सिंहासनद्वात्रिंशिकायां विध्यमानासु कथासु विक्रमादित्यस्य औदायं, साहसं, धैर्यं, जन्मवृतन्तं,सिंहासनारोहणं, प्रजापालनतत्परतां, रणरङ्गे तस्य वीरोचितं मरणं च मनोज्ञया शैल्या निरूपितं वर्तते। अत्र विक्रमादित्यः राजनैतिक आदर्शाणां प्रतिमूर्तिरिव चित्रितो वर्तते। तस्य शासनकालं शान्तिसमृद्धियुक्तं सुवर्णयुगम् इति वर्णितमस्ति। अथ भोजे समाचङ्क्रम्यमाणे सिंहासने पुत्थलिका अन्या कथायति-भो राजन्! श्रूयताम्! विक्रमे राज्यं शासति भूमण्डले, पिशुनः तस्करः पापकर्मनिरतश्च नासीत्। अन्यच्च, यस्य राज्ञः सदा राज्यभारचिन्ता बलवद्वैरिविजयचिन्ता च अस्ति स रात्रौ निद्रामपि नाधिगच्छति। उक्तञ्च 'चिन्तातुराणां न सखं न निद्रा' इति। इदम् एव सिंहासनद्वात्रिंशिका कथासङ्ग्रहस्य समीक्षा।