सदस्यः:SHARMA CHANDRA SHEKHAR
अभिप्रेरणाचक्रम् , अभिप्रेरणाया: प्रकाराः – आन्तरिकी बाह्या च
[सम्पादयतु]1. अभिप्रेरणा चक्रम् :-
आवश्यकता
↓
अन्तर्मोद: ( प्रणोदनम् )
↓
उद्वेलन ( उद्दिपनम् )
↓
लक्ष्यनिर्दिष्ट व्यवहार:
↓
उपलब्धि:
↓
उद्वेलनस्य अभाव:
आवश्यकताया: उत्पत्तौ प्राणी चेष्टते। तस्य मनसि प्रणोदनं उत्पद्यते। ततः उद्वेलनं भूत्वा लक्ष्यं प्रति व्यवहरति। तदा उपलब्धि: जायते। पुनः वस्तुनो$भावात् आवश्यकता उत्पद्यते। एवमेव सर्वदा अभिप्रेरणा चक्रं प्रचलति।
2. अभिप्रेरणायाः प्रकाराः -:
आवश्यकता प्रणोदनोद्दिपनै: समन्वितो$भिप्रेरको मनोविद्भि: बहुविधं वर्गीकृत:। यथा-
▶️ थॉमसमहोदयेन कृतं अभिप्रेरकवर्गीकरणम् :- ( MK THOMAS )
थॉमसमहोदयो$भिप्रेरणसन्दर्भे बहुविधमनुसंधानं कृतवान्। वैज्ञानिकरीत्या विहितैः अनुसन्धानै: तेन प्रतिपादितं यद्भिप्रेरका: द्विविधाः विभज्यन्ते –
i) प्राकृतिका: ( आंतरिका: )
ii) कृत्रिमाश्चेति ( बाह्या: )
1) प्राकृतिका: ( आंतरिकी ) – [ NATURAL MOTIVES ]
एतस्मिन्नभिप्रेरकेषु तेषां गणना विधीयते ; येषां अस्तित्वं जन्मादेव अनुभूयते। यथा – बुभुक्षा , पिपासा , भयम् , क्रोधश्चेत्येके प्राकृतिकरूपेन जीवेषु प्राप्यन्ते। एतेषां अभिप्रेरकाणाम् माध्यमेन मानवजीवनस्य विकास: सम्भवति। को$पि बुभुक्षादीनां संतुष्टि: स्वान्तः सुखाय प्रसन्नताहेतोश्च करोति। तत्कृते जनस्य रुचि: सततं भवति। एते$भिप्रेरका: आन्तरिका: इति कथ्यन्ते।
2) कृत्रिमा: ( बाह्या: ) – [ ARTIFICIAL MOTIVES ]
एतस्मिन्नभिप्रेरकेषु वातावरणे विकसिता: भवन्ति। एतेषामभिप्रेरकाणाम् प्राकृतिका अभिप्रेरका एव आधारभूताः भवन्ति। परं सामाजिकताया: आवरणे तेषां अभिव्यक्ते: स्वरूपं परिवर्तितं जायते। यथा – प्रतियोगिता , दण्ड: , पुरस्कारः , स्पर्धा , सहयोगभावना चेति। वस्तुतः कृत्रिमाः अभिप्रेरका: अपि जनं कार्यार्थं व्यवहारार्थन्च मिथन्त्रयति प्रोत्साहयन्ति च। एतेभिप्रेरका अप्राकृतिका: बाह्या: वेत्ति कथ्यन्ते।
▶️ अभिप्रेरणस्य स्वरूपम् :-
'अभिप्रेरणम्' इति पदं आङ्ग्लभाषाया: 'मोटीवेशन' [MOTIVATION] इति शब्दस्य रूपांतरणम् वर्तते। आङ्ग्लभाषाया: 'मोटीवेशन' इति पदस्योत्पत्ति: लेटिनभाषायाः 'मोटम' इति धातोः जाता वर्तते। एतस्यार्थो वर्तते 'मूव' , 'मोटर' अर्थात् दोलनं तथा च 'मोसन' गत्यात्मकम् इति वा। प्रेरणाया: व्युत्पत्तिजन्योर्थो: भवति 'गतिसञ्चालनम्' इति। प्रेरणाया: हेतोरेव प्राणिनि गतिरायाति। स किमपि कर्तुं यतते। गतिरेषा बाह्या तथा च आंतरिकापि भवति। वस्तुतः यदाभ्यन्तरे किमपि प्रचलति तस्याभिव्यक्तिरेव बहिर्भवति। अत एवाभ्यन्तरे जायमाना गतिरेव सर्वाधिकमहत्वपूर्णा भवति। एवं क्रमेणाभिप्रेरणा आभ्यन्तरिका शक्तिर्वर्तते या तु जनाय किमपि कार्यं कर्तुं अतिरिक्तमुत्साहं प्रददाति।
जनानां क्रियासंदर्भे पक्षत्रयं भवति। तत्र प्रथमो भवति “स किं करोति?” इति। द्वितीयस्तु “स केन प्रकारेण करोति?” इति। तृतीयो भवति यत् “स किमर्थं करोति?” इति। एनमेव यदा शिक्षायाः सन्दर्भे$वलोकयाम: तदा विचार्यते यत् –
i) बालक: किंपठति?
ii) सः कथं पठति?
iii) बालक: किमर्थं पठति? इति।
अत्र प्रदत्तेषु उदाहरणेषु तृतीयस्य प्रश्नस्य सम्बन्धः “किमर्थम्”? इत्यनेन वर्तते। एतस्यैव प्रश्नस्य सम्बन्धो “प्रेरणया सह” वर्तते। एतस्मिन् सन्दर्भे “क्रेचक्रचफील्डमहोदयौ” प्रतिपादितवन्तौ यत् “प्रेरणाया: प्रश्न: किमर्थमित्यनेन वर्तते” इति।
अभिप्रेरणस्य शोधकर्तृषु मेक्डूगल: , गिलफोर्ड: , वुडवर्थ: , मेक्डोनाल्ड: , मेस्लो , मरे , मार्गन: , मैक्लीलेण्डमहोदयश्च प्रमुखरूपेण विद्यन्ते।
अभिप्रेरणस्य स्वरूपं स्पष्टयितुं विविधैविद्वद्भिः प्रदत्ता: परिभाषा अत्र प्रस्तूयन्ते।
1) मेक्डूगलमहोदयमते –
“प्रेरकं नाम प्राणिन: ताः दैहिक्यो मनोवैज्ञानिक्यश्च दशाः वर्तन्ते याः तं किमपि कार्यं विशिष्टरीत्या सम्पादयितुं योजयति” इति।
2) वुडवर्थमहोदयानुसारं –
“प्रेरकस्तु व्यक्ते: सा मनोदशा वर्तते या कस्यचित् निश्चितस्य उद्देशस्य पूत्यर्थं तं निश्चितव्यवहारार्थं विवशं करोति” इति।
3) मैक्डोनाल्डमहोदयस्यमतानुसारं -
“प्रेरणा व्यक्तेराभ्यन्तरे जायमानं तच्छक्तिपरिवर्तनं वर्तते यस्मिन् भावात्मको उत्तेजनाया: लक्ष्यप्रतिक्रियायाश्च गुणो विद्यमानो भवति” इति।
4) गुणमहोदयानुसारम् -
“कस्यचित्कार्यस्यारंभस्य , प्रवर्तनस्य , नियमितीकरणस्य वा प्रक्रियैव “प्रेरणा” इत्यभिधीयते”।। इति।।
शर्माचन्द्रशेखर:
केन्द्रीय संस्कृत विश्वविद्यालय ,
[ भोपाल परिसर: , भोपालम् , म.प्र. ]