सदस्यः:Vsuparmanm

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहं डा.विरिवेण्टि सुब्रह्मण्यं नामा संस्कृत अकाडमी संस्थायाम् उपनिदेशकत्वेन कार्यं करोमि। संस्कृत अकाडमी इति संस्था राष्ट्रियसंस्कृतसंस्थानेन मानिता। संस्थानस्य अनुदेनेन प्रचाल्यमाना इयं संस्था तेलङ्गाणा राज्यस्य भाग्यनगरस्थ उस्मानिया विश्वविद्यालयस्य परिसरे विद्यते। संस्कृतप्रचारः, अप्रकाशितानां पाण्डुलिपीनां, अनुपलभ्यमानानां ग्रन्थानां प्रकाशनमिति संस्थायाः कार्याणि। काशिका, आयु्र्वेदाब्धिसारः, पदमञ्जरी, काशिकाविवरणपञ्जिका, दानविवेकोद्योत इत्यादीनाम् शताधिकामूल्यग्रन्थानां प्रकाशनमनया संस्थया कृतम्। इयम् Journal of Sanskrit Academy इति वार्षिकीं शोधपत्रिकां प्रकाशयति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vsuparmanm&oldid=289322" इत्यस्माद् प्रतिप्राप्तम्