अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्

अणुशक्तेः उपयोगः न केवलं अण्वस्त्रनिर्माणार्थम् अपि तु साधुरीत्या लोकहितार्थमपि यथा भवेत् तथा उत्तेजयति इयम् अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ इति संस्था । उदाहर्णार्थं अणुशक्तेः विद्युच्छक्तिरूपेण इन्धनत्वेन वा परिवर्तनेन विपुलं प्रयोजनमस्ति । एषा अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ २९ जुलै १९५७ दिनाङ्के स्वायत्ततया आरब्धा काचित् सङ्घटना । युनैटेड्-नेषन्स् अनाश्रित्य अन्ताराष्ट्रियसन्धिसमयत्वेन सङ्घटिता चेदपि युनैटेड् नेषन्स् सार्वजन्यसमितिं रक्षणपरिषदं प्रत्यपि उत्तरदायिनी इयं संस्था ।

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषदः केन्द्रकार्यालयः आस्ट्रियादेशस्य वियेन्ना नगर्यां विद्यते । अस्याः द्वौ प्रादेशिकानुरक्षितकार्यालयौ केनडादेशस्य टोरेंटोनगरे तथा जपान्-देशस्य टोकियोनगरे स्तः । अस्याः सम्बन्धिनौ अन्यौ कार्यालयौ अमेरिकादेशस्य न्यूयोर्कनगरे तथा स्विट्जर्लान्ड्-देशस्य जिनेवा-नगरे स्तः । अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषदः त्रयः प्रयोगालयाः आस्ट्रियादेशस्य वियेन्ना तथा सीबर्स्-डोर्फ् नगरयोः फ्रान्स्-देशस्य मोनाको पत्तने च सन्ति ।

अन्ताराष्ट्रिय-अणु-ऊर्जा-परिषत्‌ अणूर्जायाः साधूपयोगार्थं वैज्ञानिक-तान्त्रिकसहकारार्थं विभिन्नदेशैः साकं मिलित्वा कार्यं करोति । अणुशक्तेः सदुपयोगं यथा प्रोत्साहयति तथा दुरुपयोगस्य विरुद्धं रक्षणतन्त्राणि रचयित्वा तेषां परिपालनार्थं प्रयतते एषा संस्था । अस्यै संस्थायै अस्याः संस्थायाः प्रगतनिर्देशनाध्यक्षाय मोहम्मद्-एल्बरादेमहोदयाय च मिलित्वा नोबेल्-शान्तिपुरस्कारं दत्तवन्तः ।

बाह्यसम्पर्काः[सम्पादयतु]