आफ्रिकाखण्डः
विस्तीर्णम् | 3,02,21,532 किमी2 (1,16,68,599 वर्ग मील)2nd |
---|---|
जनसङ्ख्या | 1.1 billion(2013, 2nd) |
जनसङ्ख्यासान्द्रता | 30.51/km2 (about 80/sq mi) |
राष्ट्रीयता | African |
देशाः | 54 (and 2 disputed) (देशानाम् आवली) |
अवलम्बिताः |
External (3) Internal (4) |
भाषाः | List of languages |
समयवलयानि | UTC-1 to UTC+4 |
बृहत्तमनगराः |
List of metropolitan areas in Africa List of cities in Africa फलकम्:Country data Nigeria Lagos Cairo फलकम्:Country data Democratic Republic of the Congoफलकम्:Country data Republic of the Congo Kinshasa-Brazzaville Johannesburg फलकम्:Country data Somalia Mogadishu फलकम्:Country data Sudan Khartoum-Omdurman फलकम्:Country data Tanzania Dar es Salaam Alexandria फलकम्:Country data Ivory Coast Abidjan फलकम्:Country data Morocco Casablanca |
पृष्ठभूमिका
[सम्पादयतु]बहोः कालतः अन्धकारखण्डः इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम आस्ट्रालोपिथेकस्नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं होमो सेपियन् जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।
परिसरः
[सम्पादयतु]नित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) । मध्यताङ्गानिकायाः उपत्यकायां ताञ्जानिया तिष्ठति । जाम्बियायां मुचिङ्गा-लुवाङ्ग्वा च विद्यते । जिम्बाब्वेप्रदेशे मोटोपोपर्वताः, दक्षिण-आफ्रिकायां ड्रेकन्स्बर्ग्-श्रेण्यः विद्यन्ते । मिटुम्बश्रेण्यः जैरेप्रदेशे विद्यत्ने । कर्कवृत्तस्य उत्तर-दक्षिणप्रदेशेषु २०,६५,००० च कि मी विस्तृता सहारामरुभूमिः, दक्षिणमकरवृत्तस्य परिसरे कलहारिमरुभूमिः विद्यते । नमीबियासमुद्रतीरे अपि मरुभूमिः विद्यते । सहरामरुभूमेः पार्श्वे लिबिया, पूर्वमरुभूमिश्च विद्यते । समभाजकवृत्ते स्थितेषु जैरे-लिबेरिया-गबान्-प्रदेशेषु सदा वृष्टिः, हरिद्वर्णसस्यानि भवन्ति । सहारा-कलहारि इत्यादिषु मरुभूमिषु शुष्कवातावरणस्य सस्यानि विद्यन्ते । दक्षिणाफ्रिका-मोरोक्कोप्रदेशेषु मेडिटरेनियन्-वातावरणस्य फलवृक्षाः सन्ति । अवशिष्टेषु भागेषु उष्णवलयस्य तृणशाद्वलानि सन्ति ।
वृष्टिः औष्ण्यञ्च
[सम्पादयतु]१५ अक्षांशतः (उत्तरगोलार्धे) उत्तरभागे वृष्टिः नास्ति । मोरोक्को, अल्जीरिया, ट्युनिसियप्रदेशमात्रे २५०-१००० मि मि परिमिता वृष्टिः भवति । १५ अक्षांशतः दक्षिणभागेषु सर्वत्र वृष्टिः भवति । किन्तु सोमालिया, नमीबिया, अङ्गोलाकरावलीप्रदेशेषु सम्पूर्णशुष्कता दृश्यते । बाञ्जुल्तः किंषासां यावत् १००० मि मी अपेक्षया अधिका वृष्टिः भवति । फ्रीटौन्, मून्रोविया, लिब्रेविलेप्रदेशेषु वृष्टिः ३००० मि मी अपेक्षया अधिका भवति । अस्मिन् भागे समभाजकवृत्तस्य नित्यहरिद्वर्णयुक्तारण्यानि विद्यन्ते । दक्षिणाफ्रिकायाः पश्चिमभागे वृष्टिः २५० मि मी अपेक्षया न्यूना । अस्मिन् खण्डे तद्विरिद्धऋतवः समानकाले भवन्ति । जनवरिमासे उत्तरभागे शैत्यकालः यदा स्यात् तदा दक्षिणभागे औष्ण्यं भवति २५० सेल्शियस्मितम् । जुलैमासे सहाराप्रदेशे औष्ण्यं भवति ३५० सेल्शियस् अपेक्षया अधिकम् । सस्यानि न विद्यन्ते इत्यतः इदं वातावरणम् असहनीयं वर्तते । अस्मिन् काले दक्षिणाफ्रिकायाम् औष्ण्यं १०० अपेक्षया न्यूनं भवति । जनवरिमासे मोरोक्कोप्रदेशः नितरां शीतलतायुक्तः भवति -५० सेल्शियस्मितमं भवति ।
सागरप्रवाहः
[सम्पादयतु]पश्चिमे सहारासमुद्रतीरे केनरिशीतप्रवाहः, घाना, कमेरून्, गिनिसमुद्रे गिनि-उष्णप्रवाःअः, सोमालियायाः दक्षिणे पूर्वे च नैऋत्य-मास्नून्-ड्रिफ्ट्-उष्णप्रवाहाः च विद्यन्ते । समभाजकवृत्तप्रदेशेषु तन्नाम नैजीरिया, मालि, छाड, नमीबिया, दक्षिणाफ्रिकायाः पश्चिमभागेषु अरण्यनाशः दुर्भिक्षा च अधिकप्रमाणेन दृश्यते । अस्य परिहारः प्राप्तव्यः अस्ति ।
जलसम्पत्तिः
[सम्पादयतु]नैल्नदी जगति विद्यमानासु नदीषु अति दीर्घा ६६९५ कि मी मितयुता च वर्तते । अस्याः उपनद्यः स्६०३ कि मी दूरे सुदानिप्रदेशे विद्यन्ते । जैरेप्रदेशे प्रवहन्त्याः दीर्घायाः जैरेनद्याः अपि अनेकाः उपनद्यः सन्ति । ४१०० कि मी मितदीर्घयुक्ता नैजर्-नदी नैजीरिया, नैजर्, मालि इत्यादिषु देशेषु प्रवहति । अस्मिन् खण्डे विद्यमानाः अन्याः नद्यः सन्ति - जाम्बेजि, आरेञ्ज्, लिम्पूपो, जुब, शिबेलि च ।
अत्र विद्यमानेषु सरोवरेषु विक्टोरिया-ताङ्गानिका च मुख्ये स्तः । मलावि, अल्पर्ट्, बङ्ग्वेल, रुडाल्फ्, करिबा, छाड्, टना, नासेर् इत्यादयः साधारणप्रमाणयुक्ताः सरोवराः सन्ति । जाम्बेजिनद्याः १०० मी औन्नत्ययुतः विक्टोरियानामकः जलपाताः विद्यते । अयं खण्डः जलविद्युच्छक्तेः उत्पादने अग्रेसरः अस्ति । आस्वान् (नैल्), जवेन् (नैल्), वोल्टा, करिबा (जाम्बेजि) कोहोरा (जाम्बेजि) इत्यादीनि विद्युच्छक्त्युत्पादनकेन्द्राणि उद्यमानुकूलाः सन्ति । ताञ्जानिया इथियोपियाप्रदेशेषु जलप्रवाहसमस्या अधिका वर्तते । दक्षिणाफ्रिकाप्रदेशे झाञ्झावातः, मोजाम्बिक्समुद्रप्रदेशेषु उष्णवलयस्य झञ्झावातस्य भयं विद्यते ।
सस्यानि फलोदयश्च
[सम्पादयतु]इथियोपिया, दक्षिणाफ्रिका, सोमालिया, मोजाम्बिक्, जिम्बाब्वे प्रदेशेषु यावानलः उत्पाद्यते । ऐवरिकोस्ट्, घाना, नैजीरिया, कमेरून् प्रदेशेषु कोको वर्धन्ते । लिबेरिया, सियेरा लियोन्, नमीबिया, मध्याफ्रिका, काङ्गो, अङ्गोल, ताञ्जानियादिषु काफी उत्पद्यते । बिसावो, ताञ्जानिया, जिम्बाब्वे, नैजीरिया, गिनि, मोरोक्कोप्रदेशेषु फलानि वर्धन्ते । सुदानिप्रदेशे कलायः वर्धते । ईजिप्ट्, छाड, नैजर्, मारिटेनिया, कीन्यादिषु ओट्स् वर्धते । दक्षिणाफ्रिका मोरोक्कोप्रदेशे लिम्बूकसदृशफलानि, ताञ्जानियायां कदली, दक्षिणाअफ्रिका, मोरोक्कोप्रदेशे द्राक्षा, अङ्गोल, गबान्, कमेरून्, काङ्गो, लिबिया, नैजीरिया, बेनिन्भागेषु खर्जूरं, कीन्या, ताञ्जानियादिषु चायं, कमेरून्, ऐवरिकोस्ट्, लिबेरिया, नैजीरियादिषु रब्बर्-वृक्षः, ताञ्जानियायां सीसल्वृक्षः, दक्षिणाफ्रिका, मोजाम्बिक्, जिम्बाब्वे, ताञ्जानियादिषु तमाखुः च वर्धते ।
प्राणिपक्षिणः
[सम्पादयतु]ओष्ट्रः, विशिष्टजातेः गजाः, खड्गमृगः, झीब्रा, चिम्पाञ्जि, सर्पाः, गोरिल्ला, उष्ट्रपक्षी, ओरिङ्क्स्, सिंहश्च अत्रत्याः प्रमुखाः वन्यप्राणिनः ।
खनिजाः
[सम्पादयतु]खनिजाः | देशाः |
---|---|
अयः | लिबिया, मारिटानिया, अल्जीरिया, दक्षिणाफ्रिका |
अस्बेस्टास् | स्वाजिलेण्ड् |
क्रोम | दक्षिणाफ्रिका, जिम्बाब्वे |
वेनेडियम् | दक्षिणाफ्रिका |
मेङ्गनीस् | गबान्, मोरोक्को, घाना, दक्षिणाफ्रिका |
निक्केल् | जिम्बाब्वे |
फास्फेट् | टोगो, सेनेगल्, सहारायाः अरब् प्र ग राज्यम्, मोरोक्को, ट्युनिसिया, ईजिप्ट् |
वज्रम् | दक्षिणाफ्रिका, नमीबिया, काङ्गो, बोट्स्वाना, अङ्गोल, मध्याफ्रिकागणराज्यम्, घाना, सियेरा लियोन्, लिबेरिया, गिनि |
बाक्सैट् | गिनि |
रजतम् | जिम्बाब्वे, अल्जेरिया, काङ्गो |
सुवर्णम् | दक्षिणाफ्रिका, घाना, जाम्बिया |
ताम्रम् | काङ्गो, दक्षिणाफ्रिका |
पारदः | अल्जीरिया |
आण्टिमनि | दक्षिणाफ्रिका |
प्लाटिनम् | दक्षिणाफ्रिका |
लेड् | मोरोक्को, नमीबिया, काङ्गो |
टिन् | दक्षिणाफ्रिका, नैजीरिया, काङ्गो |
युरेनियम् | गबान्, नमीबिया, नैजर् |
खनिजाङ्गारम् | ईजिप्ट्, दक्षिणाफ्रिका |
अनिलः | अल्जीरिया |
इन्धनतैलम् | नैजीरिया, अल्जीरिया, अङ्गोल, गबान्, लिबिया, ईजिप्ट् |
उद्यमाः
[सम्पादयतु]उद्यमक्षेत्रे दक्षिणाफ्रिका, नैजीरिया, मोरोक्को प्रदेशाः अधिकां प्रगतिं साधितवन्तः । तृणचारणं, पशुपालनं, कृषिः, उद्यानाभिवृद्धिः इत्यादयः अत्र अधिकप्रमाणकाः उद्योगाः । खनिकर्म, इन्धनतैलोत्पादनम् अस्य खण्डस्य प्रमुखोद्यमाः ।
वैशिष्ट्यानि
[सम्पादयतु]सहारामरुभूमिः, नैल्-नदी, सरोवराः, विक्टोरियाजलपातः, पिरमिड्भवनानि, जलबन्धाः, जलविद्युच्छक्तिः, उष्ट्रः, खर्जूरवृक्षाः, अबुसिम्बेल्देवालयः, आफ्रिकानाभाषा, नैल्नद्याः संस्कृतिः, त्सेत्से नामकः महामक्षिका, उष्ट्रपक्षी, मेडीटरेनियन्-वातावरणयुक्ताः उत्तरकरावलीप्रदेशाः च अस्य खण्डस्य विशेषाः । अल्पजनसम्मर्दयुक्तेषु उत्तरभागेषु यवनाः, दक्षिणभागेषु नेग्रायिड्कुलीयाश्च वसन्ति । दक्षिणाफ्रिका जिम्बाब्वेप्रदेशेषु श्वेताः दृश्यन्ते ।
बाह्यानुबन्धः
[सम्पादयतु]- General information
- आफ्रिकाखण्डः
- African & Middle Eastern Reading Room from the United States Library of Congress
- Africa South of the Sahara from Stanford University
- The Index on Africa from The Norwegian Council for Africa
- Aluka Digital library of scholarly resources from and about Africa
- Africa Interactive Map Archived २०१०-०१-१७ at the Wayback Machine from the United States Army Africa
- History
- News media
- allAfrica.com current news, events and statistics
- Focus on Africa magazine from BBC World Service