तुलसी
तुलसी | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
मेन्था अर्वेन्सिस् /Mentha arvensis कारोलस् लिन्नेयस् /Carolus Linnaeus | ||||||||||||||||
तुलसी( वैज्ञानिकनाम-मेंथा अरवैन्सिस्, आङ्ग्लः-Holy basil) एकः औषधिवृक्षः । तुलसी इत्यस्य पदस्य अर्थः यस्य तुलना नास्ति इति ।
यन्मूले सर्वतीर्थानि
यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च
तुलसि, त्वां नमाम्यहम् ॥
परिचयः
[सम्पादयतु]विष्णुवल्लभा, सुखसुन्दरी, श्री कृष्णवल्लभा, वृन्दा, वैष्णवी इत्यादीभिः पवित्रनामैः विभूषितः तुलसीवृक्षः । सर्वरोगनिवारकः जीवनशक्तिवर्धकः अयं तुलसीवृक्षः हिन्दुजनैः देवीरूपेण पूज्यते । यतोहि एतादृशी सुगन्धित-सुलभ-औषधिः नस्ति कापि । तुलसीवृक्षस्य धार्मिकमहत्वमस्ति इत्यस्मात् प्रायः प्रतिगृहे(हिन्दुधर्मावलम्बिनः) वृक्षोऽयं विराजते । तुलसीवृक्षस्य बहुभेदाः सन्ति । तेषु प्रमुखौ श्वेत-कृष्णौ । साधारणतः सिक्तमृत्तिकायां तुलसीवृक्षस्य अधिकवृद्धिः भवति । तुलसी एकः शाखप्रधान-गुल्मजातीयवृक्षः । पूर्णाङ्गवृक्षस्य उच्चता७५-९० से मि भवति । शाखाः प्रशाखाः मृदुकठिनाः तथा चतुष्कोणाकाराः भवन्ति । अस्य वृक्षस्य पत्रस्य दैर्घ्यं प्रायः २-४ इञ्च्(inch.) पर्यन्तं भवति । पत्राणां कौणिकविभाजनं दृश्यते(खडगसदृशः) ।
उद्भवः विस्तारश्च
[सम्पादयतु]तुलसीगुल्मस्य उद्भवस्थलं भूमध्यसागरीय-समभूमिः, इति आवण्टनदृष्ट्या मतमेकम् अस्ति ।