सामग्री पर जाएँ

दक्षिण अमेरिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दक्षिण-अमेरिका
विस्तीर्णम्

१७,८४०,००० कि मी

(६,८९०,००० च मी)
जनसङ्ख्या ३८५,७४२,५५४
जनसङ्ख्यासान्द्रता २१.४ कि मी प्रति (५६.० च मी प्रति)
राष्ट्रीयता दक्षिण-अमेरिका
देशाः १२

दक्षिण-अमेरिका सप्तमहाद्वीपेषु अन्यतमा । १७,८१६,५०० च कि मी विस्तारयुक्ते अस्मिन् खण्डे १३ देशाः विद्यन्ते । एतेषु ब्रेझिल् बृहत्तमः, फ्रेञ्च् गयाना लघुतमः वर्तते । अरण्यसमृद्धिः, तैलेन्धनम्, खन्युद्यमश्च अत्रत्य आर्थिकाधाराः । पटगोनियामरुभूमिं विहाय अवशिष्टाः सर्वे अपि भागाः प्राकृतिकसम्पदा समृद्धाः सन्ति । फेसिपिक् महासागरस्य पश्चिमभागे तथा अटलाण्टिक् महासागरस्य उत्तरभागे स्थितः भूखण्डः अस्ति दक्षिण-अमेरिका । खण्डस्यास्य उत्तरभागे उत्तर-अमेरिकाखण्डः तथा केरिब्बियन् समुद्रः अस्ति । अमेरिगो वेस्पुयि नामकः युरोपियन् समुद्रयात्रिकः ऐदम्प्राथम्येन अमेरिकाखण्डौ ‘पूर्वइण्डीस्’ न, अपि तु कश्चन विशिष्टः खण्डः इति उक्तवान् । अतः खण्डस्यास्य तस्य नाम अवलम्ब्य ‘अमेरिका’ इति निर्देशः कृतः । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता १,७८,४०,००० च. कि.मी यावत् अस्ति । तन्नाम पृथिव्याः ३.५% भागः । २००५ तमे वर्षे अस्य जनसंख्या ३७,१०,००,००० परिमिता । दक्षिण-अमेरिकाभूखण्डस्य विस्तीर्णता एषिया-आफ्रिका-उत्तर- अमेरिका खण्डानाम् अनन्तरतनं स्थानं तन्नाम चतुर्थं स्थानं भजते । जनसंख्यादृष्ट्या अस्य पञ्चमं स्थानम् ।

भूविवरणम्

[सम्पादयतु]

दक्षिण-अमेरिकाभूखण्डे जगति अत्युन्नतः जलपातः एञ्जल् जलपातः अस्ति । जलपरिमाणस्य दृष्ट्या अपि अतिबृहत् नदी अमेजान् नदी, अत्युन्नतपर्वतश्रेणी आण्डीस् पर्वतश्रेणी, अत्यन्तम् आर्द्रं मरुस्थलम् अटकामा, अतिबृहत् अरण्यम् इति ख्यातम् अमेजान् अरण्यम् , अत्युन्नता राजधानी ला पाज्, बोलिविया, वाणिज्यनौकानिर्वहणसमर्थम् अत्युन्नतं सरोवरम् टिटिलिकासरोवरम्, तथैव भूमेः अत्यन्तं दक्षिणे स्थितं नगरम् (प्युर्तो तोरो) चिलिराष्ट्रस्य नगरं च दृश्यन्ते ।

परिसरः

[सम्पादयतु]

अस्मिन् खण्डे जनवरिमासे ग्रीष्मकालः जुलैमासे शैत्यकालः भवति । मकरवृत्तं खण्डस्य मध्यभागे सञ्चरति इत्यतः अस्य उत्तरभागः सदा अधिकोष्णप्रदेशः भवति । जनवरिमासे आण्डीस् पर्वतावली हार्न्-भूशिरप्रदेशौ विहाय अवशिष्टेषु भागेषु २० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतावली-पटगोनियाप्रदेशेषु १० सेण्टिग्रेड्मितम् अथवा ५ सेण्टिग्रेड्मितम् औष्ण्यं भवति । जुलैमासे मकरवृत्तस्य उत्तरभागे २० सेण्टिग्रेड्मितम् औष्ण्यं भवति । पर्वतश्रेणीषु ५ सेण्टिग्रेड्मितम् औष्ण्यं भवति । अर्जेण्टीना, चिलि, बोलिवियाप्रदेशेषु विद्यमानासु आण्डीस्श्रेणीषु औष्ण्यं भवति ५ सेण्टिग्रेड्मितस्य अपेक्षया न्यूनं भवति । पटगोनियायां शुष्कशैत्यं भवति ।

वृष्टिः

[सम्पादयतु]

मकरवृत्तस्य उत्तरभागे वृष्टिः तृप्तिकरी भवति । दक्षिणभागे विशेषतया पटगोनियाप्रदेशे शुष्कता भवति । चिलिदेशस्य उत्तरार्धे अपि शुष्कता भवति । कोलम्बिया, वेनेज्वेल, ब्रेझिल्देशस्य पश्चिमार्धे च २००० मि मीटर्मितस्य अपेक्षया अधिका वृष्टिः भवति । केषुचित् स्थलेषु ३००० - ४००० मि मी वृष्टिः भवति । अर्जेण्टिनायां वृष्टिः न्यूना । ब्रेझिल्देशस्य पूर्वसमुद्रतीरप्रदेशे ५०० मि मी वृष्टिमात्रं भवति ।

सदस्यदेशाः

प्राकृतिकसम्पत्तिः

[सम्पादयतु]

ओरिनोकोनद्याः खातप्रदेशः ल्यानोस् इति निर्दिश्यते । कोलम्बिया-वेनेज्वेलप्रदेशेषु विस्तृते अस्मिन् समृद्धतृणानि वर्धन्ते । ग्रीष्मकाले आतपः वृष्टिश्च अधिका भविष्यति । शैत्यकाले वृष्टिः न भवति । ब्रेझिल्-उत्तरार्धे तन्नाम समभाजकवृत्तस्य उष्णप्रदेशः आर्द्रप्रदेशश्च सेल्वास् इति कथ्यते । अत्र नैरन्तर्येण वृष्टिः भवति । अत्र नित्यहरिद्वर्णयुतम् अरण्यं कानिचन पर्णपातारण्यानि सन्ति । वन्यजीविनः अधिकाः भवन्ति अत्र । ब्रेझिलस्य उन्नतप्रदेशाः काम्पोस् इति उच्यन्ते । अस्य वायव्यभागे कटिङ्गा विद्यते । आर्द्रयुक्तम् औष्ण्यम् अत्र अधिकम् । गोपालनम् अत्रत्यः विशेषः । उरुग्वे-अर्जेण्टीनायायाः उत्तरार्धभागश्च पम्पास् इति कथ्यते । अत्र वृष्टिः भवति अल्पा । अल्फा अल्फा नामकं तृणम् अत्र अधिकप्रमाणेन वर्धते इत्यतः अत्र मेषपालनं महान् उद्योगः । दक्षिणभागे पटगोनियामरुभूमिः विद्यते । कोलम्बिया, पेरु, इक्वाडर्, बोलिमियादिषु उन्नतः 'आण्डीस् उपत्यका' विद्यते । अत्र शीतलं वातावरणं भवति । शिखराणि हिमाच्छादितानि भवन्ति । उत्तरस्य चिलि, पेरु-प्रदेशस्य दक्षिणसमुद्रतीरप्रदेशः अटकाममरुभूमिः अस्ति । अयं प्रदेशः शुष्कः शैत्ययुक्तश्च । चिलेः दक्षिणार्धे उष्णवलयस्य 'शीतलवातावरणयुक्तं वृष्टि-अरण्यानि सन्ति ।

नद्यः जलसम्पत्तिश्च

[सम्पादयतु]

अस्मिन् खण्डे विद्यमाना प्रमुखा नदी अमेजान् । अस्य दैर्घ्यमस्ति ६४३७ कि मीटर्मितम् । सावोफ्रान्सिस्को, अराग्वेया, पुरुस्, टपजोस्, झिङ्गु, निग्रो, ब्राङ्को कोलम्बिया प्रदेशेभ्यः आगच्छन्ती जापुर, पेरुतः आगच्छन्ती उकायलि इत्यादयः अस्याः उपनद्यः सन्ति । इयम् ओरिनोको, वेनेज्वेलप्रदेशेषु वहति । पराननदी ब्रेझिल्तः प्रस्थाय पराग्वे अर्जेण्टैनयोः द्वारा दक्षिण-अट्लाण्टिक्-सागरं प्रविशति । अस्याः उपनदी पिल्कोमावो । उरुग्वेनदी ब्रेझिल्प्रदेशे उद्गत्य उरुग्वेप्रदेशस्य पश्चिमसीमायां वहन्ती परानां तस्य मुखजप्रदेशे सङ्गच्छते । अर्जेण्टैनायाः दक्षिणभागे सलाडो, निग्रो चुबुत् नद्यः विद्यन्ते । पेरुप्रदेशे विद्यमानः इटिकाकासरोवरः एण्डीस्पर्वतावल्याः उपत्यकायां विद्यमानः कश्चन् मधुरजलस्य सरोवरः । अटकोम-पटगोनियप्रदेशौ विहाय अस्मिन् खण्डे जलाभावः न विद्यते ।

खनिजाः उद्यमश्च

[सम्पादयतु]

ब्रेझिल्देशे मेङ्गनीस्, अयः, स्वर्णं, रजतं, सीसं, पुष्पाञ्जनं, वज्रखनयः सन्ति । रियोडि जानिरो, बेलेम्, मनौस्, मसीज्, नाताल, कर्टिबा, साल्वडार्, ब्रासिलिया (राजधानी), सावो-पालो, बेलो, हारिझाण्टे इत्यादीनि औद्यमिकस्थानानि सन्ति । अत्र वस्त्रम्, आहारसंस्करणं, तमाखुवस्तूनि, अयः, वज्रचूर्णम् (सिमिण्ट्), रासायनिकवस्तूनि, तैलशुद्धीकरणम् इत्यादयः उद्यमाः सन्ति । उरुग्वेदेशे इन्धनतैलस्य निक्षेपाः सन्ति । पराग्वेप्रदेशे इन्धनतैलस्य पुष्पाञ्जनस्य खनिः वर्तते । माण्टेवीडो (राजधानी) किञ्चन उद्यमक्षेत्रमस्ति । बोलिविया पुष्पाञ्जन-गन्धकखनिजौ स्तः । अपि च अण्टिमनि, अयः, पुष्पाञ्जनं, ताम्रं, टङ्ग्स्टन्, इन्धनतैलञ्च लभ्यते । अर्जेण्टिनयां विविधाः खनिजाः उपलभ्यन्ते । अत्र इन्धनतैलं, खनिजाङ्गारं, टङ्ग्स्ट्न्, अनिलः, गन्धकः इत्येतेषां खनिजनिक्षेपाः सन्ति । अत्र आहारसंस्करणं, वस्त्रं, यन्त्रोपकरणं, रासायनिकवस्तूनि, वाहनं, विमानं, कागदं, वज्रचूर्णम्, अयः, चर्मवस्तूनि च सिद्धानि भवन्ति । उद्यमे बोनास् एर्स्, बहिया ब्लाङ्का च प्रमुखस्थलं वर्तते । चिलिदेशे अयः, ताम्रं, रजतं, विशेषतया नैट्रेट्, मेङ्गनीस्खनिजाः सन्ति । आहारसंस्करणं, वस्त्राणि, रासायनिकवस्तूनि, चर्मवस्तूनि, कागदं, अयः, धातुनः वस्तूनि इत्येतेषाम् उद्यमाः वर्तन्ते । पेरुदेशे मेङ्गनीस्, रजतम्, अण्टिमनि, गन्धकं, पुष्पाञ्जनं, ताम्रं, स्वर्णं, इन्धनतैलम् इत्यादीनां खनिजनिक्षेपाः सन्ति । राजधानी लिमा किञ्चन प्रमुखम् उद्यमस्थानम् । अत्र शर्करा, वस्त्रं, काफी, दारु, तमाखुवस्तूनि, रासायनिकगोभरोद्यमः विद्यन्ते । इक्वाडर्देशे इन्धनतैलस्य निक्षेपाः सन्ति । कोलम्बियायां दस्ता, तैलम्, अयः, खनिजाङ्गारस्य निक्षेपाः सन्ति । बोगोट कश्चन महतः उद्यमस्य क्षेत्रम् । वेनेज्वलायाम् इन्धनतैलं, खनिजाङ्गारः, स्वर्णम्, अनिलानां निक्षेपाः सन्ति । मरकैबो कारकास् इत्येतौ महदुद्यमक्षेत्रम् । गयाना, सुरिनाम प्रदेशयोः बाक्सैट्-निक्षेपाः सन्ति ।

इगुझुजलपातः

पर्वताः

[सम्पादयतु]

पश्चिमकरालीप्रदेशस्य समानान्तरे कोलम्बियायाः उत्तरतः दक्षिणकोलेरोडोखातपर्यन्तम् एण्डीस् पर्वतश्रेण्यः सन्ति । समभाजकवृत्ततः इक्वाडर्देशे ५८९७ मी उन्नतः कोटोपाक्सि, ६२६८ मी उन्नतः चेम्बोराजोशिखरौ स्तः । पेरुदेशे ६७६८ मी उन्नतः हुवास्करन्, ६६३२ मी उन्नतः येरुपाज, ६३८४ मी उन्नतः उत्तर जौसङ्गटे, ६४२५ मी उन्नतः नोडो कोकोपुना शिखराणि विद्यन्ते । बोलिवियादेशे ७०१८ मी उन्नतः अङ्कोहुमाशिखरं विद्यते । बोलिविया-चिलिदेशयोः बोलिविया-उपत्यका विद्यते । पोपो टिटिकाकासरोवरौ अत्रैव विद्यन्ते । अर्जेण्टिनायां ६८६३ मी उन्नतः जजोस्डेल्, सलाडो, ६२५० मी उन्नतः पमाटीना, ६३८० मी उन्नतः कोडेल्टोरो, ७०२० मी उन्नतः अकङ्कागुवशिखराणि सन्ति । चिलिदेशे ५९७० मी उन्नतः सैरेकबुर्, ६७२३ मी उन्नतः उलैलको शिखराणि सन्ति । एण्डीस्पर्वतानां दक्षिणभागे पटगोनियनामिका शुष्कमरुभूमिः विद्यते । ब्राझिलस्य पूर्वार्धे उन्नताः प्रदेशाः सन्ति । गयानायां गयाना-उन्नतप्रदेशाः सन्ति । एतेषु प्रदेशेषु २०००-३००० मी उन्नतानि शिखराणि विद्यन्ते ।

सस्यसम्पत्तिः

[सम्पादयतु]

मृत्तिका

[सम्पादयतु]

अस्मिन् खण्डे उत्तमा मृत्तिका विद्यते । अटकाम पटगोनियामरुभूम्योः सिकतायुता मृत्तिका विद्यते । इयं सस्यवर्धनाय उत्तमा नास्ति । अर्जेण्टिनायाः उत्तरभागे उरुग्वेदेशे ब्रेझिल्पूर्वभागेषु कपीशवर्णीया मृत्तिका विद्यते । इयम् उत्तमाय शाद्वलाय अनुकूला अस्ति । एण्डीस्-श्रेणीषु पर्वतीयमृत्तिका विद्यते ।

सस्यानि

[सम्पादयतु]

अमेजान्-खातम्, ब्रेझिलस्य पूर्वकरावली-पर्नैबानदीखातम्, वेनेज्वेलस्य पश्चिमार्धभागः, कोलम्बियायाः दक्षिण-पश्चिमभागे, इक्वाडर्, पेरु (करावलीरहितम्), बोलिविया, पेराग्वे, अर्जिण्टिनायाः उत्तरभागः केचन, चिलिदेशस्य दक्षिणभागः इत्येतेषु अरण्यानि सन्ति । अमेजान्खाते समभाजकवृत्तस्य वृष्टि-अरण्यानि विद्यन्ते यत्र नित्यहरिद्वर्णयुक्तानि सस्यानि पर्णपातसस्यानि च विद्यन्ते । महोगनि-रब्बर्-वृक्षाः अत्र अधिकाः । ब्रेझिलस्य उत्तमकृषिभूमौ कदली, तमाखुः, यावानलः, इक्षुदण्डः, कार्पासः च वर्धन्ते । काफी फलानि च वर्धन्ते अत्र । उरुग्वेदेशे व्रीहिः, इक्षुदण्डः, अर्जेणीनादेशे गोधूमः, चायं, यावानलः, फलानि च वर्धन्ते । पराग्वेदेशे यावानलः, चिलिदेशे गोधूमः, व्रीहिः, गयानायां व्रीहिः, इक्षुदण्डः, वेनेज्वेलायां व्रीहिः, काफी, कोलम्बियादेशे काफी, व्रीहिः, यावानलः, इक्वाडर्देशे कदली, काफी, यावानलः, इक्षुदण्डः, पेरुदेशे गोधूमः, काफी, यावानलः, इक्षुदण्डश्च वर्धन्ते । अर्जेण्टिनायाः पटगोनियाप्रदेशे बोलिवियायाञ्च क्षीरकृषिः विद्यते । ब्राझिल्, उरुग्वे, वेनेज्वेल्, अर्जेण्टिनायाः उत्तरभागः इत्येतेषु मांसनिमित्तं गावः वर्धन्ते । ब्रेझिल्देशे अनेकविधानि दारूनि, टेम्बो (एतेन क्रिमिनाशकं निर्मान्ति), येर्बामट् (चायविधम्), सिञ्चोना (एतेन क्षयरोगनिवारकं क्विनिन् उत्पाद्यते), रब्बर्वृक्षः, अनेकविधानि अर्चिड्सस्यानि च वर्धन्ते ।

प्राणिपक्षिणः

[सम्पादयतु]

अत्र सामान्यगात्रकाः अनेके वन्यप्राणिनः विद्यन्ते । विविधाः वानराः, रक्तहरिणः, टापिर्, तरक्षुः, पुमा, ओसेलाट्, स्लाथ्, पिपीलिकाखादयता प्राणी, अर्माडिलो इत्यादयः वन्यप्राणिनः सन्ति । सर्वदा शुकाः, मकाव्-पक्षिणश्च गणशः अत्र उड्डयन्ति । बृहत्जलूकाः, असङ्ख्याः जतुकाः च अत्र वसन्ति । अत्र ३०,००० अपेक्षया अधिकाः पतङ्गाः सन्ति । अमेजान्-नद्यां २०,००० अपेक्षया अधिकाः विविधाः मीनाः सन्ति । नदीमुखजप्रदेशे शार्क्, खड्गमीनः, कर्कटकः, समुद्रवल्ली इत्यादीः आहाराय अधिकप्रमाणेन गृह्णन्ति । चिलिदेशः भौगोलिकदृष्ट्या अनानुकूलांशैः युक्तः अनेकैः द्वीपैः युक्तः, पर्वतश्रेणिभिः, मरुभूमिभिः युक्तः कश्चन देशः । अत्र वन्यजीविनः अल्पाः । ४०% अक्षांशस्य दक्षिणभागे सरोवरैः युक्तानि अरण्यानि सन्ति । अरण्येषु सैपेन्, ओक, सूचीपर्णीवृक्षाः वर्धन्ते । अस्याः रेखायाः उत्तरदिशि फलयुक्तः प्रदेशः शाद्वलानि च विद्यन्ते । इतः अग्रे मरुभूमियुक्तारण्येषु पुमाप्राणी दृश्यते सामान्यतः । वनमार्जालः, चिञ्चिला च पर्वतप्रदेशेषु वसन्ति । उलूकः, गृध्रः च अत्र दृश्यन्ते । द्वीपसमूहानां महध्ये समुद्रेषु तरणपटवः पक्षिणः दृश्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=दक्षिण_अमेरिका&oldid=386859" इत्यस्माद् प्रतिप्राप्तम्