परिसरमालिन्यम्
येन मानवाः जीवन्ति सः परिसरः यस्यां वयं निवसामः सेयं पृथिवी अत्र विद्यमानः नद्यः पर्वताः वृक्षाः पशवः पक्षिणः प्रदेशाः, वाताः इत्येते सर्वेऽपि परिसरशब्देन सूच्यन्ते । परिसरः स्वयं न प्रदुष्टो भवति । किन्तु मनुष्य एव आत्मनः स्वार्थात्, आलस्यात् दूरदृष्टेः अभावादपि परिसरं प्रदूषयति । परिसरमालिन्यानि प्रमुखानि त्रिविधानि । वायुमालिन्यं, जलमालिन्यं शब्दमालिन्यं च । नगरीकर्णेन उद्यमकरणेन च बृहद्यान्त्रगारणि दिने दिने आर्ब्धानि भवन्ति । तैः सर्वदा निस्सरद्ब्यः कलुषितविषानिलेभ्यः वातावरणं प्रदूषितं भवति । यन्त्रागारेण निष्कास्यमानेन रासायनिकवस्तुना कलुषितजलं, स्नानशौचालयानां मलिनजलं च नालिकाभिः नदीं प्रति प्रेषयन्ति । एतेन जलमालिन्यं भवति । वाहनादिभिः कर्कशशब्दाः जायन्ते । ते च श्ब्दाः परिसरं क्षोभयन्ति ।
परिसरप्रदूषणेन नानाविधा: रोगाः समुद्भवन्ति । प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः कीटाः, जलचराः चापि महतीं हानिमनुभवन्ति ।शुद्धपरिसरेण जनाः आरोग्ययुक्ताः सुदृढाः च भवन्ति । तेन सामाजिकस्वास्थ्यम् सिध्यति । अतः मानवाः भविष्यत्कालं विचिन्त्य सरलं शान्तियुतं जीवनं कुर्युः ।