मलेरियारोगः
मलेरिया कश्चन रोगविशेषः । एषः सांक्रामिकः रोगः भवति । प्लास्मोडियंजातीयः प्रोटोसोवन्-जीवाणुः अस्य रोगस्य कारणीभूतः जीवाणुः । पञ्चजातीयप्लास्मोडियं जीवाणवः मनुष्यस्य मलेरियारोगस्य कारणीभूताः भवन्ति । मलेरियारोगस्य तीव्रतायाः कारणीभूतः भवति प्लास्मोडियं फाल्सिपारम् जीवाणुः । सामान्यतया एषः मारणान्तिकः रोगः न । प्लास्मोडियं न्यूलेसिमक्याक् जीवाणुः मर्कटेषु मलेरियारोगस्य कारणीभूतः भवति । एषः रोगः अमेरिकाखण्डस्य केषुचित् प्रदेशेषु, एष्या, आफ्रिकादिषु उष्णवलयेषु प्रसारितः अस्ति । प्रतिवर्षं सामान्यतया ३५०-५०० दशलक्षजनाः रुग्णाः भवन्ति । दशलक्षतः त्रिंशल्लक्षपर्यन्तं जनाः अनेन रोगेण मरणं प्राप्नुवन्ति । एतेषु अधिकाः आफ्रिकाखण्डस्य उपसहाराप्रान्तस्य जनाः । तत्रापि शिशवः अधिकसङ्ख्याकाः । सामन्यतया अनाफिलिस् इति स्त्रीमशकः दशति चेत् अनेन रोगेण पीडिताः भवन्ति । अस्य रोगस्य कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु मनुष्येषु रक्ताल्पता (अनीमिया), श्वासोच्छ्वासे क्लेशः (ट्याकिकार्डिया), हृदयस्पन्दनाधिक्यम् इत्यादीनि विशिष्टानि रोगलक्षणानि भवन्ति । एतैः सह ज्वर-शैत्यादीनि लक्षणानि च दृश्यन्ते ।
रोगलक्षणानि
[सम्पादयतु]मलेरियारोगस्य कानिचन लक्षणानि सन्ति । तानि ज्वरः, कम्पनम् (आर्थाल्जिया), सन्धिवेदना, रक्ताल्पता, अशक्तता, हिमोग्लोबिनूरिया इत्यादीनि । अस्य रोगस्य मख्ये लक्षणे वैव्याक्स्, ओवेले च । दिनद्वये एकवारं ४ तः ६ घण्टाः यावत् शीतज्वरादिकम् भवति । फाल्सिप्यारं ज्वरः ३६-४८ घाण्टासु एकवारम् आगच्छति । मलेरियारोगेण स्मरणशक्तिः न्यूना भवति । नरदोषः अपि भवति । मस्तिष्कमलेरियालक्षणम् अक्षिपटले श्वेतवर्णे भवतः । तीव्रमलेरिया फाल्सिप्यारं द्वारा उत्पद्यते । ६-१४ दिनानन्तरम् अस्य लक्षणानि दृश्यन्ते । चिकित्सा न प्राप्यते चेत् मरणं भविष्यति । शिशवः एवं गर्भिणीस्त्रियः च अधिकतया पीडिताः भवन्ति । मूत्रपिण्डयोः वैफल्यं दृश्यते अनेन रोगेण ।
जातिः | रूपम् | ज्वरस्य आवर्तनम् | यकृतौ प्रत्यावर्तते किम् ? |
---|---|---|---|
प्लास्मोडियम्-वैव्याक्स् | दिनत्रये एकवारम् | सत्यम् | |
प्लास्मोडियम्- ओवले | दिनत्रये एकवारम् | सत्यम् | |
प्लास्मोडियम्-फाल्सिप्यारम् | दिनत्रये एकवारम् | न | |
प्लास्मोडियम्-मलेरिया | दिनचतुष्टये एकवारम् | न |
कारणानि
[सम्पादयतु]फैलम्-एपिकाम्प्लेक्सा मध्ये विद्यमान प्लास्मोडियम् जात्यासहिताः प्रोटोसोवन् परजीवाणवः अस्य रोगस्य कारणीभूताः भवन्ति । मनुष्येषु, मलेरियारोगस्य फाल्सिप्यारम्, मलेरिये, ओवले, वैव्याक्स्, न्योलेसि परजीवाणवः कारणीभूताः भवन्ति । अस्य रोगस्य संक्रमणाय प्रमुखः परजीवाणुः फाल्सिप्यारम् भवति । प्लास्मोडियं परजीवाणुः सरिसृप-पक्षि-मर्कट-दंशकप्राणिषु च संक्रमणं करोति । मर्कटे विद्यमानाः मलेरियासम्बद्धाः केचन संक्रमिकरोगाः मनुष्येषु सङ्क्रमन्ते इति ।
रोगोत्पत्तिः
[सम्पादयतु]मनुष्येषु मलेरियारोगः द्विधा उत्पद्यते (सङ्क्रमितः भवति) । एक्सोएरिथ्रोसिटिक्-मलेरियारोगः एरिथ्रोसिटिक्-मलेरियारोगः च इति । एक्सोएरिथ्रोसिटिक् स्थरः यकृत् तथा अस्य व्यवस्थायां सङ्क्रमितः भवति । एरिथ्रोसिटिक् स्तरः रक्तकणेषु सङ्क्रमितः भवति । रोगसंक्रमितः मशकः यदा व्यक्तिं दशति तदा तस्य लालारसे विद्यमानाः स्पोरोजोवाय्ट्जीवाणवः रक्ते प्रविश्य यकृत् प्रविशन्ति । ३० निमेषेषु स्पोरोजोवाय्ट्-अणवः हेपटोसैट्-कणेषु संक्रमिताः भवन्ति । ६तः १५ दिनेषु रोगलक्षणं विना स्वसंख्यां (रोगाणवः) वर्धयन्ति । यकृत्-प्रविश्य विभिन्नतया सहस्रसंख्यया मिरोजोवाय्ट्-अणवः उत्पत्स्यन्ते । यकृदः अन्तर्भागे जीवाणवः संलग्नाः भवन्ति । परीक्षा समये न लक्ष्यन्ते । परजीवाणवः रक्ते संक्रमिताः भवन्ति । परजीवाणवः मिरोजोवाय्ट्-जीवाणवश्च एकस्मिन् काले बहिरागत्य ज्वरबाधाम् उत्पादयन्ति । केचन मिरोजोवाय्ट्-जीवाणवः पुरुष-स्त्रीगेमेटोसैट्-रूपेण परिवर्तिताः भवन्ति । यदा मशकाः मनुष्यं दंशन्ति तदा रक्ते विद्यमानान् गेमेटोसैट्-जीवाणून् आकर्षयन्ति ।
रोगनिर्णयः
[सम्पादयतु]१८८० तमे वर्षे ’चार्ल्स लावेरन्’ नामकः प्रप्रथमतया रक्ते परजीवाणून् संशोधितवान् । रक्तपरीक्षा तु सूक्षदर्शकयन्त्रस्य सहायेन क्रियते । अनया परीक्षया एव मलेरियारोगस्य अस्तित्वं ज्ञातं भवति । आफ्रिकादेशे ज्वरं (रक्तनञ्जस्य) आघातं च सामन्यतया तीव्रमलेरीया इति अन्यथा निर्णयन्ति । मारणान्तिकरोगाणां चिकित्सायाः वैफल्याय एषः निर्णयः कारणीभूतः इति । तीव्रमलेरियारोगस्य निर्णयार्थं “प्यारासिटेमिया(रोगः)” एव समर्थः इति वक्तुं न शक्यते । किन्तु, प्यारासैटेमियारोगस्य इतरेषां सहवर्तिरोगाणां च लक्षणं भवेदिति । अस्य रोगस्य निर्णयार्थं रक्तपरीक्षा तु आवश्यकी । किन्तु, लालारसस्य मूत्रस्य च पर्यायत्वेनापि परीक्षा क्रियते ।
चिकित्सा
[सम्पादयतु]फाल्सिप्यारम्-संक्रमिताः अस्वस्थाः चेत् चिकित्सालये सत्वरचिकित्सा देया । वैव्याक्स्, ओवले-संक्रमिताः च अस्वस्थाः चेत् सत्वरचिकित्सा अनपेक्षिता किन्तु, बाह्यरोगविभागे चिकित्सां दातुं शक्यते इति । मलेरियाचिकित्सा निरोधकौषधेन संरक्षकक्रमेण च सहिता भवति । सुक्रमेण यदि उपचाराः क्रियन्ते तर्हि अस्वस्थः स्वस्थः भविष्यति ।
रोगनिरोधकनि औषधानि
[सम्पादयतु]मलेरीयारोगस्य नैकानि औषधानि अद्यत्वे लभ्यन्ते । एतेषु औषधेषु परिणामकारि एवं न्यूनमूल्ये लभ्यमानं ’क्लोरोक्विन्’ औषधम् इति । अद्यापि बहुषु देशेषु अस्य उपयोगम् अधिकतया कुर्वन्ति । औषधनिरोधशक्तिसन्ततीनां विरुद्धं चिकित्सां दातुं बीटब्लाकर्-प्रोप्रोनोलाल्-औषधस्य संशोधनं कृतम् इति । प्लास्मोडियं-जीवाणवः रक्तकणान् प्रविश्य रोगस्य संक्रमणं, परजीवाणूनां वृद्धिञ्च कुर्वन्ति । वृद्धिं संक्रमणञ्च प्रोप्रनोलाल्-औषधं निवारकम् अस्ति इति । प्रोप्रनोलाल्-औषधं मलेरिया रोगस्य चिकित्सार्थं बहु उपयुक्तम् इति २००६ तमे वर्षे डिसम्बर्मासे ’नार्थवेस्टर्न् विश्वविद्यालयेन” संशोधितम् अस्ति ।
- अन्यानि औषधानि-
- अर्थेमेतर्-ल्यूमिफेन्ट्रिन् (वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनामनि कार्तेम्,रियमेत् च)
- अर्तेसुनेट्-अमोडियक्विन् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति।)
- अर्तेसुनेट्-मेल्प्लोक्विन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
- अर्तेसुनेट्-सल्फडाक्सिन्/पैरिमेथमैन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
- अटोवकोन्-प्रोग्वनिल् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम् ’मेलरोन्’ इति)
- क्विनैन् (केवलं वैद्यकीयचिकित्सायां अस्य औषधस्य उपयोगं कुर्वन्ति।)
- क्लोरोक्विन् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति। अस्य प्रभावः अल्पः)
- कट्रिफजिड् (केवलं वैद्यकीयचिकित्सायाम् अस्य औषधस्य उपयोगं कुर्वन्ति।)
- डाक्सिसैक्लिन् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति।)
- मेल्प्लोक्विन् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम ’ल्यारियम्’ )
- प्रैमक्विन्
- प्रोग्वनिल्
- सल्फडाक्सिन्-पैरिमेथमैन् (गर्भिणीस्त्रीणां कृते रोगनिरोधकरूपचिकित्सायाम् उपयोगं कुर्वन्ति)
- हैड्राक्सिक्लोरोक्विम् (रोगनिरोधकचिकित्सायां, वैद्यकीयचिकित्सायां च अस्य औषधस्य उपयोगं कुर्वन्ति। वाणिज्योद्देश्यितनाम ’प्लक्वेनिल्’ )
बाह्यानुबन्धः
[सम्पादयतु]- मलेरियारोगः
- WHO site on malaria
- UNHCO site on malaria
- Global Malaria Action Plan (2008)
- Doctors Without Borders/Médecins Sans Frontières – Malaria information pages
- Who/TDR Malaria Database Archived २०१३-०५-२० at the Wayback Machine
- Anti malaria and sustainable development Archived २०१८-०३-१७ at the Wayback Machine
- Worldwide Antimalarial Resistance Network (WWARN)