"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः
Content deleted Content added
→सम्बद्धसम्पर्कतन्तुः: श्रीमद्भगवद्गीतायाः श्लोकाः using AWB |
→शब्दार्थः: शब्दार्थः, replaced: ==पदार्थः== → == शब्दार्थः == using AWB |
||
पङ्क्तिः १२: | पङ्क्तिः १२: | ||
अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च । |
अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च । |
||
== शब्दार्थः == |
|||
==पदार्थः== |
|||
:अर्जुन = हे अर्जुन ! |
:अर्जुन = हे अर्जुन ! |
||
:अहं तपामि = अहं तापयामि |
:अहं तपामि = अहं तापयामि |
१०:५३, ८ अक्टोबर् २०१५ इत्यस्य संस्करणं
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
- अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
तपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥
अन्वयः
अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।
शब्दार्थः
- अर्जुन = हे अर्जुन !
- अहं तपामि = अहं तापयामि
- वर्षम् = वृष्टिम्
- निगृह्णामि = रुणध्मि
- उत्सृजामि च= त्यजामि अपि
- अमृतं च एव = अमृतम् अपि
- मृत्युः च = मरणं च
- सत् = स्थूलं दृश्यम्
- असत् च = सूक्ष्मं च ।
तात्पर्यम्
अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।