"नीलकण्ठदीक्षितः" इत्यस्य संस्करणे भेदः
== सम्बद्धाः लेखाः == using AWB |
|||
पङ्क्तिः १३: | पङ्क्तिः १३: | ||
[[वर्गः:सर्वे अपूर्णलेखाः]] |
[[वर्गः:सर्वे अपूर्णलेखाः]] |
||
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]] |
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]] |
||
== सम्बद्धाः लेखाः == |
|||
* [[भारतम्]] |
|||
* [[संस्कृतम्]] |
|||
* [[भारतस्य इतिहासः]] |
|||
* [[विज्ञानम्]] |
०८:३६, १० फेब्रवरी २०१७ इत्यस्य संस्करणं
नीलकण्ठदीक्षितः (Nilakantadixit) ‘नीलकण्ठविजयचम्पूः’ इत्येतं ग्रन्थं रचितवान् अस्ति । एषः प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवि इति । नीलकण्ठदीक्षितः स्वग्रन्थे वदति - ‘अहम् एतं ग्रन्थं ४७३८ तमे कलिवर्षे (क्रि.श. १६३६) रचितवान्’ इति । अतः एतत् तु स्पष्टं यत् एषः सप्तदशे शतके आसीत् इति । नीलकण्ठदीक्षितः मधुरै-पाण्ड्यराजस्य तिरुमलनायकस्य आस्थानपण्डितः आसीत् । एषः महाकाव्यद्वयम्, एकं नाटकं, शतकद्वयं, दर्शनग्रन्थान् च रचितवान् अस्ति । एतस्य ३२ ग्रन्थाः उपलभ्यन्ते । समुद्रमथनकथा नीलकण्ठविजये वर्णिता अस्ति । एतस्मिन् ग्रन्थे ५ आश्वासाः सन्ति । काव्योचितप्रतिभा एतस्य कवेः । विडम्बनात्मकचित्रणे एषः निपुणः । मनोहरवर्णनानि एतस्य काव्ये बहूनि । अतः संस्कृतसाहित्ये एतस्य ग्रन्थस्य विशिष्टं स्थानम् अस्ति ।