समानतावादः
समानतावादः कार्ल् मार्क्सेन परिपोषितः प्रसारितश्च । स एव “माक्सवाद’ इत्यनेन नाम्नापि विश्रुत आस्ते। साम्प्रतं जगदिदं प्रायशः वर्गद्वयसंविभक्तम्-
- समानतावादिनः (Communists)
- धनवादिनश्च (Capitalists)
द्वयोरप्येतयोर्वादयोः रूस-अमेरिका-देशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परीक्षणं च संदृश्यते। रूसदेशे समानतावादस्य, अमेरिकादेशे धनवादस्य च प्रसारणं दृश्यन्ते। जर्मनदेशीयो विद्वान् कार्ल् मार्क्स् महोदयस्य 'दास कापिटाल्" प्रथिततमो ग्रन्थः वर्तते। तत्र समानतावादस्य उपयोगित्वं, महत्त्वं, लोकोपकारित्वं च विशदीक्रियते। समानतावादस्य प्रवर्तकेषु ‘एञ्जेल्स् (Angels) महोदस्य नामधेयोऽपि सादरम् उल्लिख्यते। विश्वस्य सकलामपि महापरिवर्तनकारिण सन्देश जनसमुदायं प्रति प्रयच्छन् निजगाद–“अयि संसारस्य श्रमजीविनो मानवाः, संगच्छध्वं संवदध्वञ्च यूयम्, स्त च संघटिताः। मानवसमाजस्य इतिहास-अवलोकनेन ज्ञातं भवति यद् यस्मात् कालात् सृष्टिरारब्धा जाता तस्मादेव कालात् मानव-समाजः समृद्धिशालिनां धनपतीनां वर्गेण सदैव शोषणमेव नीतः। ते हि समाजं द्वयोर्विरोधिवर्गयोर्विभक्तं कृतवन्त:-शोषके शोषिते च। अधिनायकतावाद एव साम्राजवादिनी भावनाम् उत्पाद्य समाजस्य रक्तमपिवत् कृतवांश्च तं सर्वविधतया जर्जरम्।
समानतावादस्य सिद्धान्ताः
[सम्पादयतु]सामाजिकीं विषमतां दूरीकर्तुं मावसः समानतावादं प्रवर्तयामास। माक्र्सस्य समानतावादसम्बन्धिनो विचारा: अतिसंक्षेपेण इमे सति
- वर्गसंघर्षस्य विश्वव्यापिनी सत्ता समूलम् उन्मूल्य वर्गहीनस्य समाजस्य प्रतिष्ठापनम्।
- जनस्य तत्क्षमतानुकूले कर्मणि नियोजनं तदपेक्षितापेक्षणीयजीवनोपयोगिपदार्थानां प्रस्तुतीकरणम्।
- वर्गसंघर्ष-संवृत्य वर्गहीनं च समाजं प्रतिष्ठाप्य तस्य च सहायतया असमानताया अपनयनम्।
- उत्पाद्यसाधनेपु व्यक्तिविशेषस्य वर्गविशेषस्य वा स्वामित्वमपसार्य समाजस्य राज्यस्य वा अधिकारस्य समुपस्थापनम्।
- ईश्वर-धर्म-भाग्यादि-प्रवृत्तीनां वारणम्।
- समानतावादस्य लक्ष्यं न कश्चिद् देशविशेषो भूभागो वा भवेदपि तु सकलः संसार एव स्यात् ।
- धनवादं विनाश्य सर्वविधशोषण-प्रकारस्य विनाशनम् ।
- क्रियामूलकमेव जीवनोपयोगि-वस्तुवितरणम् ।
यत् उत्पादन-साधनेषु व्यक्तेर्वर्गविशेषस्य वा स्वत्वमपहृतं भवेत् भवेच्च तत्र राज्यस्य अधिकारः तदा व्यक्त्या व्यक्तेर्वर्गस्य वर्गेण शोषणं सम्भवमेव न कदापि भवेत्।
विचारधारा
[सम्पादयतु]विचारधारी समयानुसारिण्यो भवति साम्यवादिनी विचारधारा व्यक्तिं प्रति गरीयस्कता न प्रयच्छति अपि तु सा समाजम्प्रति त विश्राणयति। समानतावादप्रक्रियाश्रयेण सर्वेषामेव मानवानां विकासादिकार्येषु समानोऽवसरः, सदृशा एव च सुविधाः लप्स्यते। तदा समाजे न कश्चन शोषको, न च कश्चन शोषितो भविता। एतादृशस्य वर्गहीनसमाजस्य संस्थापनं समानतावादस्य प्रक्रिययैव सम्भाव्यते। समानतावादपद्धतौ जनशासितस्य राज्यस्य एव उत्पादनसाधनेषु पूर्णाधिकारः स्यात्। मार्क्सवादस्य कथनमिदमस्ति यद् उत्पादकोषु साधनेपु राष्ट्रस्य एव अधिकार: पूर्णत्वेन एतेषु अपि लघूद्योगेषु भवितुं योग्योऽस्ति। मार्क्स-महोदयः राज्यस्य अस्तित्वमपि नानुमनुते। वास्तविकं शासनं तु जनशासनमेव तस्याभिमतम्। प्रान्तीयभेदान् प्रदेशादि भेदाश्च अपवार्य विश्वसमाजसंस्थापनम् अभिमतत्वेन प्रतिपादयति। एष वादो हि एकनायकतीमच्छति, अस्ति स हिंसात्मकः, भौतिकतोपासकः, आध्यात्मिकतायां द्रुह्यति, वैयक्तिकं स्वातन्त्र्यमपहरति इत्यादिबहवो दोषा: आरोपाश्च अस्मिन् वादे आरोप्यन्ते। परं वैज्ञानिकविश्लेषेण सिद्धयति यदि उपरिष्टादुक्ता दोषा वितथा: नैष वादो व्यक्तेरधिकारमपहरति अपितु स सर्वहद्वर्ग स्यैवाधिकारितायां प्रहारं करोति। तदीया हिंसा रक्तसम्बन्धिनी न, अपि तु शोषणसम्बन्धिन्यस्ति।
समानतावादस्य प्रसारः
[सम्पादयतु]मार्क्स् विचारधारा विश्वव्यापिनी विद्यते। एतस्या विचारधारायाः समस्याः खलु मानवस्य समस्याः सन्ति। एतया दृष्ट्या प्रतिदेशस्य अधिकारोऽस्ति यत् सः अनया विचारधारया स्वकीयं मार्गं प्रकाशवन्तं विदध्यात्। मार्क्सप्रतिपादितसिद्धान्तानां प्रचारको मूर्तरूपप्रदश्च लेनिन (Lenin) महोदयः आसीत्। स एव समानतावादं व्यावहारिकस्वरूपं प्रदत्तवान्। मार्क्समहोदयस्य सन्देशं प्रतिगृहं स एव प्रसारितवान्-
(workers of the world, unite. you have nothing to lose but your chains and have a world to win.)
स एव जार-शासनविनाशाय धनवादक्षयाय च सर्वहारावर्ग संगृह्य विद्रोहं प्रवर्तयत् । तत्सहयोगम् अवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् जारशासनसंहारेण विश्वे सर्वप्रथम श्रमिकशासनं प्रवृत्तम् एवं प्रकारेण रूसदेशे समाजवादिलोकतन्त्रस्य संस्थापनम् अभूत्। रूसदेशे समानतावादस्य साफल्यं राष्ट्राणि अन्यान्यपि समानतावादसंस्थापनार्थ प्रैरयत्। श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः। यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त। साम्यवादिसमाजसंस्थापनार्थ च समानतावाद-अनुयायीनि शासकानि प्रावर्तन्त। तेषु चीनदेशस्य नाम प्राधान्येन उल्लेखमर्हति। सङ्कीर्णविचारवशात् चेत् कोऽपि देशोऽस्या विचारधारायाः आश्रयणे वेपते बिभेति वा, कि वा स तस्यां विविधान् आरोपान् आरोपयति इत्येषा वार्ता तु अन्यैव।
समानतावादालोचनम्
[सम्पादयतु]एतद् निश्चयेन वक्तुं शक्यते यत् समानतावादस्त सिद्धान्तः लोकप्रियः, जन-अभ्युदयकारी, शोषणप्रक्रियाविनाशकः, शोषितपीडननिवारकः, अत्याचारादिदोषशमकः लोके प्रचरिष्यति। स्व-अधिकारलाभप्रेरिता जनाः इमं वादं सादरम् आश्रयते । शोषणप्रक्रिया तु विश्वव्यापिनी वर्तते ।
एतद् सुविदितं यत् समानतावादप्रक्रिया लोकोपकारिणी समाजस्य उन्नतिसाधिका च। परं विचारदृशा परीक्ष्यते चेत् तत्र केचन दोषा निसर्गसिद्धाः । स्व-इष्टसाधनार्थं विद्रोहेण समं हिंसाश्रयणमपि न विश्वशान्तिसाधनम्। आस्तिक्यभावस्य अभावः नास्तिक्यम् एव एतस्य वादस्य मूलम्। नास्तिक्यवादे अङ्गीकृते का नाम शक्तिय विश्वशान्तिस्थापने प्रवर्तयेत्। साम्यवादे अन्नवस्त्रादिप्राप्तौ यथा बलम् प्राप्यते। न तथा नैतिक-आचार-विचारसंरक्षणे। अधिनायकवादस्य उत्पत्तिः अपि एतन्मतस्य दोषम् आवहति। वेदस्य निन्दा, धर्मस्य उपेक्षा, ईश्वरे अविश्वासः, नास्तिक्यबुद्धिः, संस्कृतिप्राप्तिकृल्यं, नैतिक-आचारआध्यात्मोपेक्षा चेत्यादय: दोषाः समानतावादस्य गरिमाणम् अपहरति। भौतिकतोपासकतास्येत्यत्र तु वक्तव्यमेतदेव यद् भौतिकताध्यात्मिकतयोः अन्तराले निकटतमो सम्बन्धो वर्तते । जीवनं नेतुमुभयमपि अपेक्षणीयम् द्वयोरपि स्व-स्व-महत्त्वमास्ते।
इत्थं निश्चितभावेन इदं समासेन वक्तुं शक्यं भवति यन्माक्सस्य साम्यवादिनी विचारधारा स्वल्पपरिवर्तनदोषपरिहारपूर्वकञ्च ग्राह्मास्ति।