सुदाबसस्यम्
दिखावट
Common Rue | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Common Rue in flower
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Ruta graveolens L. | ||||||||||||||||
इदं सुदाबसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । सामान्यतया इदं सस्यं वाटिकासु वर्धते । अस्य सस्यस्य कश्चन तीक्ष्णः गन्धः भवति । तस्मात् कारणात् सर्पाः गृहसमीपं न आगच्छन्ति इति भारतीयानाम् अनुभवः । अस्मिन् “मिथैल् नोनैल् कीटोन्” नामकः अंशः भवति । सः एव अंशः तस्य तीक्ष्णस्य गन्धस्य कारणीभूतः । अस्य सस्यस्य पर्णं रसः च औषधत्वेन उपयुज्यते ।
इतरभाषाभिः अस्य सुदाबसस्यस्य नामानि
[सम्पादयतु]अस्य सुदाबसस्यस्य वैज्ञानिकं नाम अस्ति Ruta Graveolens इति । इदं सस्यं हिन्दीभाषया “सिताब” इति, तेलुगुभाषया “सदपक” इति, तमिळ्भाषायाम् “अर्वद” इति, मलयाळभाषया “अरुत” इति कन्नडभाषया “नागदाळि” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य सुदाबसस्यस्य प्रयोजनानि
[सम्पादयतु]अस्य सुदाबस्य रसः तिक्तः । इदम् उष्णवीर्ययुक्तम् । अस्य गुणः लघु तीक्ष्णः च ।
- १. इदं सुदाबसस्यम् उदरवेदनां निवारयति ।
- २. समानप्रमाणेन अस्य सुदाबस्य रसं, तुलसीरसं च योजयित्वा मधुना सह प्रातःकाले सेवनेन कासः श्वासरोगः च अपगच्छति ।
- ३. अस्य पर्णानि उद्घर्ष्य मद्येन सह लेपनेन प्राथमिकस्तरे विद्यमानः पार्श्ववायुरोगः अपगच्छति ।
- ४. अस्य शुष्कानां पर्णानां सेवनेन अरुचिः निवारिता भवति, रुचिः वर्धते ।
- ५. ज्वरावसरे अस्य रसः मधुना सह पौनःपुन्येन सेवनीयः ।
- ६. इदं “चाय”रूपेण सेव्यते चेत् शरीरे विद्यमानम् अधिकं कफं बहिः निस्सारयति । तेन कफजन्याः कासः, कण्डूयनम् इत्यादयः रोगाः परिहृताः भवन्ति ।