फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मे २०२४
गुरुवासरः
३०
२१:५६ UTC
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।

सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥

चाणक्यनीतिदर्पणम् ५/१९

इयं भूमिः सत्येन एव धृता अस्ति। सूर्यः सत्येन एव तपति। वायुः स॒ञ्चरति सत्यस्य आधारेण एव। जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति। सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च। अतः अस्माभिः सत्यम् उपासितव्यम्।