फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मे २०२४
बुधवासरः
१८:२९ UTC

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥

नीतिशतकम् – ३५

लोके सामान्यः पुरुषः अपि अन्यैः कृतं स्वस्य अपमानं न सहते। स्वाभिमानी पुरुषः अन्यैः कृतम् अपमानं न सहते इति तु न वक्तव्यम्। तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणिः यदा सूर्यकिरणैः स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति। अचेतने मणौ एव एतादृशः स्वभावः दृश्यते। सचेतनानां विषये तु वक्तव्यमेव नास्ति।