तेषां सततयुक्तानां...
श्लोकः[सम्पादयतु]
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
- ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः[सम्पादयतु]
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन माम उपयान्ति ते ॥ १० ॥
अन्वयः[सम्पादयतु]
सततयुक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धियोगं ददामि येन ते माम् उपयान्ति ।
शब्दार्थः[सम्पादयतु]
- सततयुक्तानाम् = नित्ययुक्तानाम्
- प्रीतिपूर्वकम् = स्नेहपूर्वकम्
- भजताम् = सेवमानानाम्
- तेषाम् = तेषां बुधानाम्
- बुद्धियोगम् = मद्विषयकं योगम्
- ददामि = प्रयच्छामि
- येन = येन योगेन
- ते = बुधाः
- माम् उपयान्ति = मां प्राप्नुवन्ति ।
अर्थः[सम्पादयतु]
नित्ययुक्तानां स्नेहपूर्वकं सेवमानानां तेषां बुधानां तं मद्विषयकं योगं प्रयच्छामि येन योगेन ते बुधाः मां प्राप्नुवन्ति ।
रामानुजभाष्यम्[सम्पादयतु]
तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि येन ते मामुपयान्ति ॥१०.१०॥