आकाशगङ्गा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
आकाशगङ्गा

वियद्गङ्गा अस्माकम् तारासङ्घः अस्ति। अस्याम् द्विशतार्बुदनक्षत्राणि सन्ति।ववियद्गङ्गा चक्राकारा अस्ति। नक्षत्राणां जननस्य, विकासस्य तथा अवसानस्य च अवधिः दीर्घकालिकः भवति। अतः इदृशीक्रियाः अस्माकं जीवितकाले ज्ञात्वा, स्वसिद्धान्तानां यथार्थायथार्थयोः परिशीलनन्तु दुष्करं भवति इति । तन्त्राज्ञानानां यन्त्राणाञ्च साहाय्यम् आसीत् तथापि २-३ शतमानेषु सूपर् नोवा एकमपि वीक्षणार्थं न प्राप्तम् चेत् अवधिः अल्पः इति ज्ञायते एव । क्रि.श.१९८७तमे संवत्सरे सूपर् नोवा स्फोटितः । अस्माकम् आकाशगङ्गायाः समीपस्था लार्जम्याजलानिक् क्लौड् आकाशगङ्गायाः दूरं १,८६,००० प्रकाशवर्षाणि इति उद्घुष्टवान् । अस्य अवकाशस्य उपयोगं सर्वे खगोलज्ञाः स्वीकृतवन्तः। अस्य केन्द्रस्य द्रव्यराशिः विस्फोट्य बहिरागतः। बहिरागतशक्तेः गणनां कृतवन्तः। ईदृशगणनानि परिशीलयितुं प्रकृतिः विस्मयरीत्या प्रयोगशालाः दत्ता । एताः एव आकाशगङ्गाः इति । एतासु द्वौ विभागौ भवतः। प्रथमं मुक्तः, द्वितीयं गोलाकारस्य गुच्छाः इति । नक्षत्राणां प्रसरणाधारेण विभागः कृतः। एतासां दर्शनं दूरदर्शकादिभिः साहाय्यैः कर्तुं शक्यते। अस्माकम् आकाशगङ्गायै अत्यन्तगतनां नक्षत्राणां प्रतिनक्षत्रं कान्तिमन्तं वर्णसूचकञ्च मापयित्वा तेषां हेच् आर् नक्षत्रमानचित्रम् उत्पादयितुं शक्यते। अनेन केचन गुच्छेषु नीलनक्षत्राणाम् अभावः दृश्यते। केषुचित् गुच्छेषु नीलनक्षत्रैः विना रक्तदैत्याः दृश्यन्ते । अनेन क्रमेण एतासां आकाशगङ्गानां वैविध्येन दूरम्, वयः, अत्र प्रसरितविन्यासञ्च अभिज्ञापयितुं शक्यते। ईदृशाध्ययनेन शाप्ले नामकविज्ञाने सौरमण्डलं आकाशगङ्गायाः केन्द्रे नास्तीति अंशः ज्ञातुं सुलभमासीदिति।

दीर्घवृत्ताकारस्य आकाशगङ्गा[सम्पादयतु]

आकाशगङ्गानां विशेषतया अध्ययनं कृत्वा, एड्विन् हबल् इत्यनेन विभागः कृतः। ते विभागाः क्रमशः एवं भवन्ति, गोलाकारः(स्पैरल्), तिर्यक्पट्टः (बार्ड स्पैरल्),दीर्घवृत्ताकारः(एलिप्टिकल्), अनिर्दिष्टाकारः (इर्यग्युलर्) इति।

गोलाकारस्य आकाशगङ्गा[सम्पादयतु]

गोलाकाशगङ्गासु निरन्तरतया नक्षत्राणां रचना भवती । तिर्यक्पट्टे अपि नक्षत्राणां रचना भवति। दीर्घवृत्ताकारस्य आकाशगङ्गासु अन्तर्नाक्षत्रिक अनिलस्य धूलेः च अभावः भवति।

आकाशगङ्गाः[सम्पादयतु]

आकाशगङ्गायाः नैके समूहाः सन्ति । समृद्धगुच्छे (रिच्च् क्लट्टर्) सहस्रसङ्ख्याकाः अकाशगङ्गाः सन्ति । विरलगुच्छेषु (पूर् क्लिस्टर्) २० अकाशगङ्गाः सन्तीति ऊहा। समृद्धगुच्छेषु दीर्घवृत्ताकाशगङ्गाः, गोलाकाराकाशगङ्गाः भवन्ति । समृद्धगुच्छानाम् आभोगात् क्षकिरणान् अभिज्ञापितम्। अतः प्रायः सर्वासाम् आकाशगङ्गाणाम् आभोगे क्षीणनक्षत्राणि सन्तीति ऊहा। आकाशगङ्गयोः मध्ये परस्पराघट्टनया नक्षत्राणि विचलितानि नभवन्ति चेत् अन्तर्नाक्षत्रिकमाध्यमे अनिलेषु च संघट्टनेन नक्षत्राणि उत्पत्स्यन्ते। एवं आभोगेषु विद्यमानानि नक्षत्राणि दूरे अपसारितानि भवेयुः। बृहदाकाशगङ्गा लघ्वाकाशगङ्गां कवलयति। अनेन बृहद्दीर्घवृत्ताकारस्य आकाशगङ्गानां रचना जाता इति कल्पना। दश,पञ्चदश वर्षेभ्यः पूर्वं हैड्रोजन् तथा हीलियं मेघेभ्यः आकाशगङ्गानां राचना जाता। एताः एव दीर्घवृत्ताकाशगङ्गाः सञ्जाताः इति केशाञ्चन विज्ञानिनां तर्कः। पुनः पुनः घर्षणं न जायते चेत् आभोगस्य अनिलः तथैव अवशिष्टश्चेत् गोलाकाराकाशगङ्गाः भवन्ति इति।

क्रियाशीलाः आकाशगङ्गाः[सम्पादयतु]

कासाञ्चन आकाशगङ्गानां सामान्याकाशगङ्गानम् अमपेक्षया प्रकाशस्याधिक्यमस्ति। केन्द्रभागः नक्षत्रमिव बिन्दुसदृशः भवति । रोहिते व्यत्यासो भवति । मध्यभागात् तदा तदा वस्तु बहिरागच्छति । क्रियाशीलाकाशगङ्गाः इति एतासां विभागः कृतः। एतासु सैफर्ट आकाशगङ्गा, रेडियो आकाशगङ्गा, एन् आकाशगङ्गा इत्याद्यः भवन्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आकाशगङ्गा&oldid=272759" इत्यस्माद् पुनः प्राप्तिः